शङ्करदिग्विजयम् - अथ चतुर्थः सर्गः

शङ्करदिग्विजयम्


अथ शिवो मनुजो निजमायया द्विजगृहे द्विजमोदमुपावहन् ।
प्रथमहायन एव समग्रहीत्सकलवर्णमसौ निजभाषिकाम् ॥१॥

द्विसम एव शिशुर्लिखिताक्षरं गदितुमक्षमताक्षरवित्सुधीः ।
अथ स काव्यपुराणमुपाश‍ृणोत्स्वयमवैत्किमपि श्रवणं विना ॥२॥

अजनि दुःखकरो न गुरोरसौ श्रवणतः सकृदेव परिग्रही ।
सहनिपाठजनस्य गुरुः स्वयं स च पपाठ ततो गुरुणा विना ॥३॥

रजसा तमसाऽप्यनाश्रितो रजसा खेलनकाल एव हि ।
स कलाधरसत्तमात्मजो सकलाश्चापि लिपीरविन्दत ॥४॥

सुधियोऽस्य विदिद्युतेऽधिकं विधिवच्चौलविधानसंस्कृतम् ।
ललितं करणं घृताहुतिज्वलितं तेज इवाशुशुक्षणेः ॥५॥

उपपादननिर्व्यपेक्षधीः स पपाठाहृतिपूर्वकागमान् ।
अधिकाव्यमरंस्त कर्कशेऽप्यधिकांस्तर्कनयेऽत्यवर्तत ॥६॥

हरतस्त्रिदशेज्यचातुरीं पुरतस्तस्य न वक्तुमीश्वराः ।
प्रभवोऽपि कथासु नैजवाग्विभवोत्सारितवादिनो बुधाः ॥७॥

अमुकक्रमिकोक्तिधोरणीमुरगाधीशकथावधीरिणीं
मुमुहुर्निशमय्य वादिनः प्रतिवाक्योपहृतौ प्रमादिनः ॥८॥

कुमतानि च तेन कानि नोन्मथितानि प्रथितेन धीमता ।
स्वमतान्यपि तेन खण्डितान्यतियत्नैरपि साधितानि कैः ॥९॥

अमुना तनयेन भूषितं यमुनातातसमानवर्चसा ।
तुलया रहितं निजं कुलं कलयामास स पुत्रिणां वरः ॥१०॥

शिवगुरुः स जरंस्त्रिसमे शिशावमृत कर्मवशः सुतमोदितः ।
उपनिनीषितसुनुरपि स्वयं न हि यमोऽस्य कृताकृतमीक्षते ॥११॥

इह भवेत्सुलभं न सुतेक्षणं न सुतरां सुलभं विभवेक्षणम् ।
सुतमवाप कथञ्चिदयं द्विजो न खलु वीक्षितुमैष्ट सुतोदयम् ॥१२॥

मृतमदीदिहदात्मसनाभिभिः पितरमस्य शिशोर्जननी ततः ।
समनुनीतवती धवखण्डितां स्वजनता मृतिशोकहरैः पर्दैः ॥१३॥

कृतवतीं मृतचोदितमक्षमा निजजनैरपि कारितवत्यसौ ।
उपनिनीषुरभूत्सुतमात्मनः परिसमाप्य च वत्सरदीक्षणम् ॥१४॥

उपनयं किल पञ्चमवत्सरे प्रवरयोगयुते सुमुहूर्तके ।
द्विजवधूर्नियता जननी शिशोर्व्याधित तुष्टमनाः सह बन्धुभिः ॥१५॥

अधिजगे निगमांश्चतुरोऽपि स क्रमत एव गुरोः सषडङ्गकान् ।
अजनि विस्मितमत्र महामतौ द्विजसुतेऽल्पतनौ जनतामनः ॥१६॥

सहनिपाठयुता बहवः समं पठितुमैशत न द्विसूनुना ।
अपि गुरुर्विशयं प्रतिपेदिवान्क इव पाठयितुं सहसा क्षमः ॥१७॥

अत्र किं स यदशिक्षत सर्वांश्चित्रमागमगणाननुवृत्तः ।
द्वित्रिमासपठनादभवद्यस्तत्र तत्र गुरुणा समविद्यः ॥१८॥

वेदे ब्रह्मसमस्तदङ्गनिचये गार्ग्य्पमस्तत्कथा-
तात्पर्यार्थविवेचने गुरुसमस्तत्कर्मसंवर्णने ।
आसीज्जैमिनिरेव तद्वचनजप्रोद्बोधकन्दे समो
व्यासेनैव स मूर्तिमानिव नवो वाणीविलासैर्वृतः ॥१९॥

आन्वीक्षिक्यैक्षि तन्त्रे परिचितिरतुला कापिले काऽपि लेभे
पीतं पातञ्जलाम्भः परमपि विदितं भाट्टघट्टार्थतत्त्वम् ।
यत्तैः सौख्यं तदस्यान्तरभवदमलाद्वैतविद्यासुखेऽस्मि-
न्कूपे योऽर्थः स तीर्थे सुपयसि वितते हन्त नान्तर्भवेत्किम् ॥२०॥

स हि जातु गुरोः कुले वसन्सवयोभिः सह भैक्षलिप्सया ।
भगवान्भवनं द्विजन्मनो धनहीनस्य विवेश कस्यचित् ॥२१॥

तमवोचत तत्र सादरं यतिवर्यं गृहिणः कुटुम्बिनी ।
कृतिनो हि भवादृशेषु ये वरिवस्यां प्रतिपादयन्ति ते ॥२२॥

विधिना खलु वञ्चिता वयं वितरीतुं वटवे न शक्नुमः ।
अपि भैक्षमकिञ्चनत्वतो धिगिदं जन्म निरर्थकं गतम् ॥२३॥

इति दीनमुदीरयन्त्यसौ प्रददावामलकं व्रतीन्दवे ।
करुणं वचनं निशम्य सोऽध्यभवज्ज्ञाननिधिर्दयार्द्रधीः ॥२४॥

स मुनिर्मुरभित्कुटुम्बिनीं पदचित्रैर्नवनीतकोमलैः ।
मधुरैरुपतस्थिवांस्तवैर्द्विजदारिद्र्यदशानिवृत्तये ॥२५॥

अथ कैटभजित्कुटुम्बिनी तटिदुद्दामनिजाङ्गकान्तिभिः ।
सकलाश्च दिशः प्रकाशयन्त्यचिरादाविरभूत्तदग्रतः ॥२६॥

अभिवन्द्य सुरेन्द्रवन्दितं पदयुग्मं पुरतः कृताञ्जलिम् ।
ललितस्तुतिभिः महर्षिता तमुवाच स्मितपूर्वकं वचः ॥२७॥

विदितं तव वत्स हृद्गतं कृतमेभिर्न पुरा भवे शुभम् ।
अधुना मदपाङ्गपात्रतां कथमेते महितामवाप्नुयुः ॥२८॥

इति तद्वचनं स शुश्रुवान्निजगादाम्ब मयीदमर्पितम् ।
फलमद्य ददस्व तत्फलं दयनीयो यदि तेऽहमिन्दिरे ॥२९॥

अमुना वचनेन तोषिता कमला तद्भवनं समन्ततः ।
कनकामलकैरपूरयज्जनताया हृदयं च विस्मयैः ॥३०॥

अथ चक्रभृतो वधूमये सुकृतेऽन्तर्धिमुपागते सति ।
प्रशशंसुरतीव शङ्करं महिमानं तमवेक्ष्य विस्मिताः ॥३१॥

दिवि कल्पतरुर्यथा तथा भुवि कल्याणगुणो हि शङ्करः ।
सुरभूसुरयोरपि प्रियः समभूदिष्टविशिष्टत्रस्तुदः ॥३२॥

अमरस्पृहणीयसम्पदं द्विजवर्यस्य निवेशमात्मवान् ।
स विधाय यथापुरं गुरोः सविधे शास्त्रवराण्यशिक्षत ॥३३॥

वरमेनमवाप्य भेजिरे परभागं सकलाः कला अपि ।
समवाप्य निजोचितं पतिं कमनीया इव वामलोचनाः ॥३४॥

सरहस्यसमग्रशिक्षिताखिलविद्यस्य यशस्विनो वपुः ।
उपमानकथाप्रसङ्गमप्यसहिष्णुश्रियमन्वपद्यत ॥३५॥

जयति स्म सरोरुहप्रभामदकुण्ठीकरणक्रियाचणम् ।
द्विजराजकरोपलालितं पदयुग्मं परगर्वहारिणः ॥३६॥

जलमिन्दुमणिं स्रवेद्यदि यदि पद्मं दृषदः ततः सरः ।
यदि तत्र भवेत्कुशेशयं तदमुष्याङ्घ्रितुलामवाप्नुयात् ॥३७॥

पादौ पद्मसमौ वदन्ति कतिचिच्छ्रीशङ्करस्यानधौ
वक्तुं च द्विजराज-मण्डलनिभं नैतद् द्वयं साम्प्रतम् ।
प्रेष्यः पद्मपदः किल त्रिजगति ख्यातः पदं दत्तवा-
नम्भोजे द्विजराजमण्डलशतैः प्रेष्यैरुपास्यं मुखम् ॥३८॥

मुहुः सन्तो नैजं हृदयक्रमलं निर्मलतरं
विधातुं योगीन्द्राः पदकमलमस्मिन्निदधति ।
दुरापां शक्राद्यैर्वमति वदनं यन्नवसुधां
ततो मन्ये पद्मात्पदमधिकमिन्दोश्च वदनम् ॥३९॥

तत्त्वज्ञानफलेग्रहिर्घनतरव्यामोहमुष्टिन्धयो
निःशेषव्यसनोदरम्भरिरघप्राग्भारकूलङ्कषः ।
लुण्टाको मदमत्सरादिविततेस्तापत्रयारन्तुदः
पादः स्यादमितम्पचः करुणया भद्रङ्करः शङ्करः ॥४०॥

पादाघातस्फोटव्रणकिणितकार्तान्तिकभुजं
प्रघाणव्याघातप्रणतविमतद्रोहबिरुदम् ।
परं ब्रह्मैवासौ भवति तत एवास्य सुपदं
गतापस्मारार्तीञ्जगति महतोऽयापि तनुते ॥४१॥

प्राप्तस्याभ्युदयं नवं कलयतः सारस्वतोज्जृम्भणं
स्वालोकेन विधूतविश्वतिमिरस्यासन्नतारस्य च ।
तापं नस्त्वरितं क्षिपन्ति घनतापन्नं प्रसन्ना मुने-
राहूलादं च कलाधरस्य मधुराः कुर्वन्ति पादक्रमाः ॥४२॥

नतिर्दत्ते मुक्तिं नतमुत पदं वेति भगव-
त्पदस्य प्रागल्भ्याज्जगति विवदन्ते श्रुतिविदः ।
वयन्तु ब्रूमस्तद्भजनरतपादाम्बुजरजः-
परीरम्भारम्भः सपदि हृदि निर्वाणशरणम् ॥४३॥

धवलांशुकपल्लवावृतं विललासोरुयुगं विपश्चितः ।
अमृतार्णवफेनमञ्चरीच्छुरितैरावतहस्तशस्तिभूत् ॥४४॥

यदि हाटकवल्लरीत्रयीघटिता स्फाटिककूटभृत्तटी ।
स्फुटमस्य तया कटीतटी तुलिता स्यात्कलितत्रिमेखला ॥४५॥

आदाय पुस्तकवपुः श्रुतिसारमेकहस्तेन वादिकृततद्गतकण्टकानाम् ।
उद्धारमारचयतीव विबोधमुद्रामुद्बिभ्रता निजकरेण परेण योगी ॥४६॥

सुधीराजः कल्पद्रुमकिसलयाभौ करवरौ
करोत्येतौ चेतस्यमलकमलं यत्सहचरम् ।
रुचेश्च्रावेतावहनि किमु रात्राविति भिया
निशादेराप्रातर्निजदलकवाटं घटयति ॥४७॥

रुचिरा तदुरस्थलीं बभावररस्फालविशालमांसला
घरणीभ्रमणोदितश्रमात्पृथुशय्येव जयश्रियाऽऽश्रिता ॥४८॥

परिघप्रथिमापहारिणौ शुशुभाते शुभलक्षणौ भुजौ ।
बहिरन्तरशत्रुनिग्रहे विजयस्तम्भयुगीधुरन्धरौ ॥४९॥

उपवीतममुष्य दिद्युते बिसतन्नुक्रियमाणसौहृदम् ।
शरदिन्दुमयूखपाण्डिमातिशयोल्लङ्घनजाङ्घिकप्रभम् ॥५०॥

समराजत कण्ठकम्बुराड् भगवत्पादमुनेर्यदुद्भवः ।
निनदः प्रतिपक्षनिग्रहे जयशङ्खध्वनितामविन्दत ॥५१॥

अरुणाघरसङ्गताऽधिकं शुशुभे तस्य हि दन्तचन्द्रिका ।
नवविद्रुमवल्लरीगता तुहिनांशोरिव शारदी छविः ॥५२॥

सुकपोलतले यशस्विनः शुशुभाते सितभानुवर्चसः ।
वदनाश्रितभारतीकृते विधिसङ्कल्पितदर्पणाविव ॥५३॥

समासीत्तस्यास्यं सुकृतजलधेः सर्वजगतां
पयःपारावारादजनि रजनीशो बहुमतात् ।
सुधाधारोद्गारः सुसदृगनयोः किन्तु शशभृ-
त्सतां तेजःपुञ्जं हरति वदनं तस्य दिशति ॥५४॥

पुरा क्षीराम्भोधेरहह तनया यद्विषयता-
जुषो दीनस्याग्रे घनकनकधाराः समकिरत् ।
इदं नेत्रं पात्रं कमलनिलयाप्रीतिवितते-
र्मुनीशस्य स्तोतुं कृतसुकृत एव प्रभवति ॥५५॥

दुर्वारमविपक्षदूषणसमुन्मेषक्षितौ कल्पने
सेतोरप्यनघस्य तापसकुलैणाङ्कस्य लङ्कारयः ।
अपन्नानतिकायविभ्रममुषः संसारिशाखामृगान्
पुष्णन्त्यच्छपयोब्धीवीचिवदलङ्काराः कटाक्षाङ्कुराः ॥५६॥

निःशङ्कक्षतिरुक्षकण्टककुलं मीनाङ्कदावानल-
ज्वालासङ्कुलमार्तिपङ्किलतरं व्यध्वं धृतिध्वंसिनम् ।
संसाराकृतिमामयच्छलचलद्दुर्वारदुर्वारणं
मुष्णन्ति श्रममाश्रिता नवसुधावृष्ट्यायिता दृष्टयः ॥५७॥

त्रिपुण्ट्रं तस्याहुः सितभसितशोभि त्रिपथगां
कृपापारावारं कतिचन मुनिं तं श्रितवतीम् ।
वयं त्वेतद् ब्रूमो जगति किल तिस्रः सुरुचिरा-
स्त्रयीमौलिव्याकृत्युपकृतिभवाः कीर्तय इति ॥५८॥

असौ शम्भोर्लीलावपुरिति भृशं सुन्दर इति
द्वयं सम्पत्येतज्जनमनसि सिद्धं च सुगमम् ।
यदन्तः पश्यन्तः करणमदसीयं निरुपमं
तृणीकुर्वन्येते सुषममपि कामं सुमतयः ॥५९॥

अज्ञानान्तर्गहनपतितानात्मविद्य्पदेशै-
स्त्रातुं लोकान्भवदवशिखातापपापच्यमानान् ।
मुक्त्वा मौनं वटविटपिनो मूलतो निष्पतन्ती
शम्भोर्मुर्तिश्चरति भुवने शङ्कराचार्यरूपा ॥६०॥

उच्चण्डाहितवावदूककुहनापाण्डित्यवैतण्डिकं
जाते देशिकशेखरे पदजुषां सन्तापचिन्तापहे ।
कातर्यं हृदि भूयसाऽकृत पदं वैभाषिकादेः कथा-
चातुर्यं कलुषात्मनो लयमगाद्वैशेषिकादेरपि ॥६१॥

अमुना क्रतवः प्रसाधिताः क्रतुविभ्रंशकरः स शङ्करः ।
इयमेव भिदाऽनयोर्जितस्मरयोः सर्वविदोर्बुधेड्ययोः ॥६२॥

कलयाऽपि तुलानुकारिणं कलयामो न वयं जगत्त्रये ।
विदुषां स्वसमो यदि स्वयं भविता नेति वदन्ति तत्र के ॥६३॥

द्युवनान्त इवामरद्रुमा अमरद्रुष्विव पुष्पसञ्चयाः ।
भ्रमरा इव पुष्पसञ्चयेष्वतिसङ्ख्याः किल शङ्करे गुणाः ॥६४॥

कामं वस्तुविचारतोऽच्छिनदयं पारुष्यहिंसाक्रुधः
क्षान्त्या दैन्यपरिग्रहानृतकथाल्भांस्तु सन्तोषतः ।
मात्सर्यं त्वनसूयया मदमहामानौ चिरं भावित -
स्वान्योत्कर्षगुणेन तृप्तिगुणतस्तृष्णां पिशाचीमपि ॥६५॥

कामं यस्तु समूलघातमवघात्स्वर्गापवर्गापहं
रोषं यः खलु चूर्णपेषमपिषन्निःशेषदोषावहम् ।
लोभादीनपि यः परांस्तृणसमुच्छेदं समुच्चिच्छिदे
स्वस्यान्तेवसतां सतां स भगवत्पादः कथं वर्ण्यते ॥६६॥

कोऽमी कान्त दिवा निशाकरकरा घर्मस्य मर्मच्छिदो
मुग्धे शम्भुनवावतारसुगुरोरेते गुणानां गणाः ।
कस्मादुत्पलसन्ततिर्विकसिता विस्मेरदिग्योषिता-
मेषाऽपाङ्गझरीति दिग्गजवधूप्रश्नोत्तरे रेजतुः ॥६७॥

नाक्ष्णा माक्षिकमीक्षितं क्षणमपि द्राक्षा मुहुः शिक्षिता
क्षीरेक्षू समुपेक्षितौ भुवि यया सा शङ्करश्रीगुरोः ।
कान्तानन्तदिगन्तलङ्घनकलाजङ्घालतत्तद्गुण-
श्रेणी निर्भरमाधुरीमदधुरा धन्येति मन्यामहे ॥६८॥

क्षान्तिश्चेद्वसुधा जहातु महतीं सर्वेसहत्वप्रथां
विद्याश्चेद्विरहन्तु षण्मुखमुखाः स्वाखर्वगर्वावलीम् ।
वैराग्यं यदि बादरायणियशः कार्श्यं परं गाहतां
किं जल्पैर्मुनिशेखरस्य न तुलां कुत्रापि मन्यामहे ॥६९॥

या मूर्तिः क्षमया मुनीश्वरीमयी गोत्रासगोत्रायते
विद्याभिर्निरवद्यकीर्तिभिरलं भाषाविभाषयते । ७०॥

भक्ताभीप्सितकल्पनेन नितरां कल्पादिकल्पायते
कस्तां नान्यपृथग्जनैस्तुलयितुं मन्दाक्षमन्दायते ॥७१॥

न बभूव पुरातनेषु तत्सदृशो नाद्यतनेषु दृश्यते ।
भविता किमनागतेषु वा न सुमेरोः सदृशो यथा गिरिः ॥७२॥

समशोभत तेन तत्कुलं स च शीलेन परं व्यरोचत ।
अपि शीलमदीपि विद्यया ह्यपि विद्या विनयेन दिद्युते ॥७३॥

सुयशःकुसुमोच्चयः श्रयद्विबुधालिर्गुणपल्लवोद्गमः ।
अवबोधफलः क्षमारसः सुरशाखीव रराज सूरिराट् ॥७४॥

न च शेषभवी न कापिली गणिता काणभुजी न गीरपि ।
फणितिष्वितरासु का कथा कविराजो गिरि चातुरीजुषि ॥

भट्टभास्करविमर्ददुर्दशामज्जदागमशिरःकरग्रहा ।
हन्त शङ्करगुरोगिरः क्षरन्त्यक्षरं किमपि तद्रसायनम् ॥७५॥

जाटाटङ्कजटाकुटीरविहरन्नैलिम्पकल्लोलिनी-
क्षोणीशप्रियकृन्नवावतरणावष्टम्भगुम्फच्छिदः ।
गर्जन्तोऽवतरन्ति शङ्करगुरुक्षोणीधरेन्द्रोदरा-
द्वाणीनिर्झरिणीझराः क्व नु भयं दुर्भिक्षुदुर्भिक्षतः ॥७६॥

वारी चित्तमतङ्गजस्य नगरी बोधात्मनो भूपते-
र्दूरीभूतदुरन्तदुर्वदझरी हारीकृता सृरिभिः ।
चिन्तासन्ततितूलवातलहरी वेदोल्लसच्चातुरी
संसाराब्धितरीरुदेति भगवत्पादीयवाग्वैखरी ॥७७॥

कथादर्प्त्सर्पत्कथकबुधकण्डूलरसना-
सनालाघःपाते स्वयमुदयमन्त्रो व्रतिपतेः ।
निगुम्फः सूक्तीनां निगमशिखराम्भोजसुरभिः
जयत्यद्वैतश्रीजयबिरुदघण्टाघणघणः ॥७८॥

कस्तूरीघनसारसौरभपरीरम्भप्रियम्भावुका-
स्तापोन्मेषमुषो निशाकरकराहङ्कारकूलङ्कषाः ।
द्राक्षामाक्षिकशर्करामधुरिमग्रामाविसंवादिनो
व्याहारा मुनिशेखरस्य न कथङ्कारं मुदं कुर्वते ॥७९॥

अद्वैते परिमुक्तकण्टकपथे कैवल्यघण्टापथे
स्वाहम्पूर्वकदुर्विकल्परहितमाज्ञाध्वनीनाकुले ।
प्रस्कन्दन्मकरन्दवृन्दकुसुमस्रक्तोरणप्रक्रिया-
माचार्यस्य वितन्वते नवसुधासिक्ताः स्वयं सूक्तयः ॥८०॥

दूरोत्सारितदुष्टपांसुपटलीदुर्नीतयोऽनीतयो
वाता देशिकवाङ्मयाः शुभगुणग्रामालया मालयाः ।
मुष्णन्ति श्रममुल्लसत्परिमलश्रीमेदुरा मे दुरा-
यासस्याऽऽधिहविर्भुजो भवमये धीमान्तरे प्रान्तरे ॥८१॥

नृत्यन्त्या रसनाग्रसीमनि गिरां देव्याः किमङ्घ्रिक्वण-
न्मञ्जीरोर्जितसिञ्चितान्युत नितम्बालम्बिकाञ्चीरवाः ।
किं वलगत्करपद्मकङ्कणझणत्कारा इति श्रीमतः
शङ्कामङ्कुरयन्ति शङ्करकवेः सद्युक्तयः सूक्तयः ॥८२॥

वर्षारम्भविजृम्भमाणजलमुग्गम्भीरघोषोपमो
वात्यातूर्णविघूर्णदर्णवपयःकल्लोलदर्पापहः ।
उन्मीलन्नवमल्लिकापरिमलाहन्तानिहन्ता निरा-
तङ्कः शङ्करयोगिदेशिकगिरां गुम्फः समुज्जृम्भते ॥८३॥

हृद्या पद्यविनाकृता प्रशमिताविद्याऽमृषोद्या सुधा-
स्वाद्या माद्यदरातिचोद्यभिदुराऽभेद्या निषद्यायिता ।
विद्यानामनघोद्यमा सुचरिता साद्यापदुद्यापिनी
पद्या मुक्तिपदस्य साऽद्य मुनिवाङ्नुद्यादनाद्या रुजः ॥८४॥

आयासस्य नवाङ्कुरं घनमनस्तापस्य बीजं निजं
क्लेशानामपि पूर्वरङ्गमलघुप्रस्तावनाडिण्डिमम् ।
दोषाणामतृतस्य कार्मणमस चिन्तातते निष्कुटं
देहादौ मुनिशेखरोक्तिरतुलाऽहङ्कारमुस्कृन्तति ॥८५॥

तथागतपथाहतक्षपणकप्रथालक्षण-
प्रतारणहतानुवर्त्यखिलजीवसञ्जीवनी ।
हरत्यतिदुरत्ययं भवभयं गुरूक्तिर्नृणा-
मनाधुनिकभारतीजरठशुक्तिमुक्तामणिः ॥८६॥

झञ्झामारुतवेल्लितामरधुनीकल्लोलकोलाहल-
प्राग्भारैकसगर्भ्यनिर्भरजरीजम्भद्वचोनिर्झराः ।
नैकालीकमतालिधूलिपटलीमर्मच्छिदः सद्दूरो-
रुद्यद्दूर्मतिघमदुर्मतिकृताशान्तिं निकृन्तन्ति नः ॥८७॥

उन्मीलन्नवमल्लिसौरभपरीरम्भप्रियम्भावुकाः
मन्दारद्रुमरन्दबृन्दविलुठन्माधुर्यधुर्या गिरः ।
उद्गीर्णा गुरुणा विपारकरुणावाराकरेणाऽऽदरात्
सच्चेतो रमयन्ति हन्त मदयन्त्यामोदयन्ति द्रुतम् ॥८८॥

धारावाहिसुखानुभूतिमुनिवाग्धरासुधाराशिषु
क्रीडन्द्वैतिवचःसुकः पुनरनुकीडेत मृडेतरः ।
चित्रं काञ्चनमम्बरं परिदधच्चित्ते विधत्ते मुहुः
कञ्चित्कच्चरदुष्पटच्चरजरत्कन्थानुबद्धादरम् ॥८९॥

तत्तादृक्षमुनिक्षपाकरवचः शिक्षासपक्षाशयः
क्षारं क्षीरमुदीक्षते बुधजनो न क्षौद्रमाकाङ्क्षति ।
रूक्षां क्षेपयति क्षितौ खलु सितां नेक्षुं क्षणं प्रेक्षते
द्राक्षां नापि दिदृक्षते न कदलीं क्षुद्रां जिघृक्षत्यलम् ॥९०॥

विक्रीता मधुना निजा मधुरता दत्ता मुदा द्राक्षया
क्षीरैः पात्रधियाऽर्पिता युधि जिताल्लुब्धा बलादिक्षुतः ।
न्यस्ता चोरभयेन हन्त सुधया यस्मादतस्तद्गिरां
माधुर्यस्य समृद्धिरद्भुततरा नान्यत्र सा वीक्ष्यते ॥९१॥

कर्पूरेण ऋणीकृतं मृगमदेनाधीत्य सम्पादितं
मल्लीभिश्चिरसेवनादुपगतं क्रीतं तु काश्मीरजैः ।
प्राप्तं चौरतया पटीरतरुणा यत्सौरभं तद्गिरा-
मक्षय्यं महि तस्य तस्य महिमा धन्योऽयमन्यादृशः ॥९२॥

अप्सां द्रप्सं सुलिप्सं चिरतरमचरं क्षीरमद्राक्षमिक्षुं
साक्षाद्राक्षामचक्षं मधुरसमधयं प्रागविन्दं मरन्दम् ।
मोचामाचाममन्यो मधुरिमगिरमा शङ्कराचार्यवाचा-
माचान्तो हन्त किं तैरलमपि सुधासारसीसारसीम्ना ॥९३॥

सन्तप्तानां भवदवथुभिः स्फारकर्पूरदृष्टिः
मुक्तायष्टिः प्रकृतिविमला मोक्षलक्ष्मीमृगाक्ष्याः ।
अद्वैतात्मानवधिकसुखासारकासारहंसी
बुद्धेः शुद्धयै भवतु भगवत्पाददिव्योक्तिधारा ॥९४॥

आम्नायान्तालवला विमलतरसुरेशादिसूक्ताम्बुसिक्ता
कैवल्याशापलाशा विबुधजनमनःसालजालाधिरूढा ।
तत्त्वज्ञानप्रसूना स्फुरदमृतफला सेवनीया द्विजैर्या
सा मे सोमावतंसावतरगुरुवचोवल्लिरस्तु प्रशस्त्यै ॥९५॥

नृत्यद्भूतेशवल्गन्मुकुटतटरटत्स्वर्धुनीस्पर्धिनीभि-
र्वाग्भिन्निर्भिन्नकूलोच्चलदमृतसरःसारिणीधोरणीभिः ।
उद्वेलद्द्वैतवादिस्वमतपरिणताहङ्क्रियाहुङ्क्रियाभि-
र्भाति श्रीशङ्करार्यः सततमुपनिषद्वाहिनीगाहिनीभिः ॥९६॥

साहङ्कारसुरासुरावलिकराकृष्टभ्रमन्मन्दर -
क्षुब्धक्षीरपयोब्धिवीचिसचिवैः सूक्तैः सुधावर्षणात् ।
जङ्घालैर्भवदावपावकशिखाजालैर्जटालात्मनां
जन्तूनां जलदः कथं स्तुतिगिरां वैदेशिको देशिकः ॥९७॥

कलशाब्धिकचाकचिक्षमं क्षणदाधीशगदागदिप्रियम् ।
रजताद्रिभुजाभुजिक्रियं चतुरं तस्य यशः स्म राजते ॥९८॥

परिशुद्धकथासु निर्जितो यशसा तस्य कृताङ्कनः शशी ।
स्वकलङ्कनिवृत्तयेऽधुनाऽप्युदधौ मज्जति सेवते शिवम् ॥९९॥

घम्मिल्ले नवमल्लिवल्लिकुसुमस्रक्कल्पना शिल्पिनो
भद्रश्रीरसचित्रचित्रितकृतः कान्ते ललाटान्तरे ।
तारावल्यनुहारिहारलतिकानिर्माणकर्माणुकाः
कण्ठे दिवसुदृशां मुनीश्वरयशःपूरा नभः पूरकाः ॥१००॥

उत्सङ्गेषु दिगङ्गना निदघते ताराः कराकर्षिकाः
रागाद् द्यौरवलम्ब्य चुम्बति वियद्गङ्गा समालिङ्गति ।
लोकालोकदरी प्रसीदति फणी शेषोऽस्य दत्ते रतिं
त्रैलोक्ये गुरुराजकीर्तिशशिनः सौन्दर्यमत्यद्भुतम् ॥१०१॥

सम्पाप्ता मुनिशेखरस्य हरितामन्तेषु साङ्काशिनं
कल्लोला यशसः शशाङ्ककिराणानालक्ष्य सांहासिनम् ।
कुर्वन्ति प्रथयन्ति दुर्मदसुधावैदग्ध्यसंलोपिनं
सम्यग् घ्नन्ति च विश्वजाङ्घिकतमः सङ्घातसाङ्घातिनम् ॥१०२॥

सोत्कण्ठाकुण्ठकण्ठीरवनखवरक्षुण्णमत्तेभकुम्भ-
प्रत्यग्रोन्मुक्तमुक्तामणिगणसुषमाबद्धदोर्युद्धलीला ।
मन्थाद्रिक्षुब्धदुग्धार्णवनिकटसमुल्लोलकल्लालमैत्री-
पात्रीभूता प्रभूता जयति यतिपतेः कीर्तिमाला विशाला ॥१०३॥

लोकालोकदरि प्रसीदसि चिरार्तिक शङ्करश्रीगुरु-
प्रोद्यत्कीर्तिनिशाकरं प्रियतमं संश्लिष्य सन्तुष्यसि ।
त्वं चाप्युत्पलिनि प्रहृष्यसि चिरात्कस्तत्र हेतुस्तयो-
रित्थं प्रश्नगिरां परस्परमभूत्स्मेरत्वमेवोत्तरम् ॥१०४॥

दुर्वाराखर्वगर्वाहितबुधजनतातुलवातूलवेगो
निर्बाधागाधबोधामृतकिरणसमुन्मेषदुग्धाम्बुराशिः ।
निष्पत्यूहं प्रसर्पद्भवदवदहनोद्भुतसन्तापमेघो
जागर्ति स्फीतकीर्तिर्जगति यतिपतिः शङ्कराचार्यवर्यः ॥१०५॥

इतिहासपुराणभारतस्मृतिशास्त्राणि पुनःपुनर्मुदा ।
विबुधैः सुबुधो विलोकयन्सकलज्ञत्वपदं प्रपेदिवान् ॥१०६॥

स पुनः पुनरैक्षतादराद्वरवैयासिकशान्तिवाक्ततीः ।
समगादुपशान्तिसम्भवां सकलज्ञत्ववदेव शुद्धताम् ॥१०७॥

असत्प्रपञ्जश्चतुराननोऽपि सन्नभोगयोगी पुरुषोत्तमोऽपि सन् ।
अनङ्गजेताऽप्यविरूपदर्शनो जयत्यपूर्व् जगदद्वयीगुरुः ॥१०८॥

आलोक्याननपङ्कजेन दधतं वाणीं सरोजासनं
शश्वत्सन्निहितक्षमाश्रियममुं विश्वम्भरं पूरुषम् ।
आर्याराधितकोमलाघ्रिकमलं कामद्विषं कोविदाः
शङ्कन्ते भुवि शङ्करं व्रतिकुलालङ्कारमङ्कागताः ॥१०९॥

एकस्मिन् पुरुषोत्तमे रतिमतीं सत्तामयोन्युद्भवां
मायाभिक्षुहृतामनेकपुरुषासक्तिभ्रमान्निष्ठराम् ।
जित्वा तान् बुधवैरिणः प्रियतया प्रत्याहरद्यश्चिरा-
दास्ते तापसकैतवात् त्रिजगतां त्राता स नः शङ्करः ॥११०॥

इति श्रीमाधवीये तदाशुद्धाष्टमवृत्तगः
सङ्क्षेपशङ्करजये चतुर्थः सर्ग आभवत् ।

आदितः श्लोकाः ३८४ ।

N/A

References : N/A
Last Updated : January 23, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP