शङ्करदिग्विजयम् - अथ पञ्चमः सर्गः

शङ्करदिग्विजयम्


इति सप्तमहायनेऽखिलश्रुतिपारङ्गततां गतो वटुः ।
परिवृत्य गुरोः कुलाद् गृहे जननीं पर्यचरन्महायशाः ॥ १॥

परिचरञ्जननीं निगमं पठन्नपि हुताशरवीं सवनद्वयम् ।
मनुवरैर्नियतं परिपूजयञ्छिशुवर्तत संस्तरणिर्यथा ॥ २॥

शिशुमुदीक्ष्य युवाऽपि न मन्युमान् दिशति वृद्धतमोऽपि निजासनम् ।
अपि करोति जनः करयोर्युगं वशगतो विहिताञ्जलि तत्क्षणात् ॥३॥

मृदु वचश्चरितं कुशलां मतिं वपुरनुत्तममास्पदमोजसाम् ।
सकलमेतदुदीक्ष्य सुतस्य सा सुखमवाप निरर्गलमम्बिका ॥४॥

जातु मन्दगमनाऽस्य हि माता स्नातुमम्बुनिधिगां प्रतियाता ।
आतपोग्रकिरणे रविबिम्बे सा तपःकुशतनुर्विललम्बे ॥५॥

शङ्करस्तदनु शङ्कितचित्तः पङ्कजैविगतपङ्कजलाद्रैः ।
वीजयन्नुपगतो गतमोहां तां जनेन सदनं सह निन्ये ॥६॥

सोऽथ नेतुमनवद्यचरित्रः सद्मनोऽन्तिकमृषीश्वरपुत्रः ।
अस्तवीज्जलधिगां कविहृद्यैर्वस्तुतः स्फुरदलङ्कृतपद्यैः ॥७॥

ईहितं तव भविष्यति काल्ये यो हितं जगत इच्छसि बाल्ये ।
इत्यवाप्य स वरं तटिनीतः सत्यवाक् सदनमाप विनीतः ॥८॥

प्रातरेव समलोकत लोकः शीतवातहृतशीकरपूतः ।
नूतनामिव धुनीं प्रवहन्तीं माधवस्य समया सदनं ताम् ॥९॥

एवमेनमतिमर्त्यचरित्रं सेवमानजनदैन्यलवित्रम् ।
केरलक्षितिपतिर्हि दिदृक्षुः प्राहिणोत्सचिवमादृतभिक्षुः ॥१०॥

सोऽप्यतन्द्रितमभीरुपदाभिः प्राप्य तं यदनु सद्विरदाभिः ।
उक्तिभिः सरसमञ्जुपदाभिः शक्तिभृत्सममजिज्ञपदाभिः ॥११॥

यस्य नैव सदृशो भुवि बोद्धा दृश्यते रणशिरःसु च योद्धा ।
तस्य केरलनृपस्य नियोगाद् दृश्यसे मम च सत्कृतियोगात् ॥१२॥

राजिताभ्रवसनैर्विलसन्तः पूजिताः सदसि यस्य वसन्तः ।
पण्डिताः सरसवादकथाभिः खण्डितापरगिरोऽवितथाभिः ॥१३॥

सोऽयमाजिजितसर्वमहीपः स्तूयमानचरणः कुलदीपः ।
पादरेणुमवनं भवभाजामादरेण तव विन्दतु राजा ॥१४॥

एष सिन्धुरपरो मदपूर्णो दोषगन्धरहितः प्रवितीर्णः ।
अस्तु तेऽद्य रजसा परिपूतं वस्तुतो नृपगृहं शुचिभूतम् ॥१५॥

इत्युदीर्य परिसाघितदौत्यं प्रत्युदीरितसदुक्तिममात्यम् ।
अत्युदारमृषिभिः परिशस्तं प्रत्युवाच वचनं क्रमशस्तम् ॥१६॥

भैक्षमन्नमजिनं परिधानं रूक्षमेव नियमेन विधानम् ।
कर्म दातृवर शास्ति बटूनां शर्मदायिनिगमाप्तिपटूनाम् ॥१७॥

कर्म नैजमपहाय कुभोगेः कुर्महेऽह किमु कुम्भिपुरोगैः ।
इच्छया सुखममात्य यथेतं गच्छ नाथमसकृत्कथयेत्थम् ॥१८॥

प्रत्युत क्षितिभृताऽखिलवर्णा वृत्युपाहरणतो विगतर्णाः ।
धर्मवर्त्मनिरता रचनीयाः कर्म वर्ज्यमिति नो वचनीयाः ॥१९॥

इत्यमुष्य वचनादकलङ्कः प्रत्यगात्पुनरमात्यमृगाङ्कः ।
वृत्तमस्य स निशम्य धरापः सत्तमस्य सविधं स्वयमाप ॥२०॥

भूसुरार्भकवरैः परिवीतं भासुरोडुपगभस्त्युपवीतम् ।
अच्छजह्नुसुतया विलसन्तं सुच्छविं नगमिव द्रुमवन्तम् ॥२१॥

चर्म कृष्णहरिणस्य दधानं कर्म कृत्स्नमुचितं विदधानम् ।
नूतनाम्बुदनिभाम्बरवन्तं पूतनारिसहजं तुलयन्तम् ॥२२॥

जातरूपरुचिमुञ्जसुधाम्ना छातरूपकटिमद्भुतधाम्ना ।
नाकभूजमिव सत्कृतिलब्धं पाकपीतलतिकापरिरब्धम् ॥२३॥

सस्मितं मुनिवरस्य कुमारं विस्मितो नग्पतिर्वहुवारं
संविधाय विनतिं वरदाने तं विधातृसदृशं भुवि मेने ॥२४॥

तेन पृष्टकुशलः क्षितिपालः स्वेन सृष्टमथ शात्रवकालः ।
हाटकायुतसमर्पणपूर्वं नाटकत्रयमवोचदपूर्वम् ॥२५॥

तद्रसार्द्रगुणरीतिविशिष्टं भद्रसन्धिरुचिरं सुकवीष्टम् ।
सङ्ग्रहेण स निशम्य सुवाचं तं गृहाण वरमित्यमुमूचे ॥२६॥

तां नितान्तहृदयङ्गमसारां गां निशम्य तुलितामृतधाराम् ।
भूपतिः स रचिताञ्जलिबन्धः स्वोपमं सुतमियेष सुसन्धः ॥२७॥

नो हिताय मम हाटकमेतद्देहि नस्तु गृहवासिजनाय ।
ईहितं तव भविष्यति शीघ्रं याहि पूर्णमनसेत्यवदत्तम् ॥२८॥

राजवर्यकुलवृद्धिनिमित्तां व्याजहार रहसिश्रुतिवित्ताम् ।
इष्टिमस्य सकलेष्टविधातुस्तुष्टिमाप हि तथा क्षितिनेता ॥२९॥

स विशेषविदा सभाजितः कविमुख्येन कलाभृतां वरः ।
अगमत्कृतकृत्यधीर्निजां नगरीमस्य गुणानुदीरयन् ॥३०॥

बहवः श्रुतिपारदृश्वनः कवयोऽध्यैषत शङ्कराद्गुरोः ।
महतः सुमहान्ति दर्शनान्यधिगन्तुं फणिराजकौशलीम् ॥३१॥

पठितं श्रुतमादरात्पुनः पुनरालोक्य रहस्यनूनकम् ।
प्रविभज्य निमञ्जतः सुखे स विधेयान् विदधेतमां सुधीः ॥३२॥

सर्वार्थतत्त्वविदपि प्रकृतोपचारैः
शास्त्रोक्तभक्त्यतिशयेन विनीतशाली ।
सन्तोषयन् स जननीमनयत्कियन्ति
सम्मानितो द्विजवरैर्दिवसानि धन्यः ॥३३॥

सा शङ्करस्य शरणं स च तज्जनन्या
अन्योन्ययोगविरहस्त्वनयोरसह्यः ।
नो वोढुमिच्छति तथाऽप्यमनुष्यभावान्
मेरुं गतः किमपि वाञ्छति दुष्प्रदेशम् ॥३४॥

कृतविद्यममुं चिकीर्षवः श्रितगार्हस्थ्यमथाप्तबन्धवः ।
अनुरूपगुणामचिन्तयन्ननवद्येषु कुलेषु कन्यकाम् ॥३५॥

अथ जातु दिदृक्षवः कलाववतीर्णं मुनयः पुरद्विषम् ।
उपमन्युदधीचिगौतमत्रितलागस्त्यमुखाः समाययुः ॥३६॥

प्रणिपत्य स भक्तिसन्नतः प्रसवित्र्या सह तान्विधानवित् ।
विधिवन्मधुपर्कपूर्वया प्रतिजग्राह सपर्यया मुनीन् ॥३७॥

विहिताञ्जलिना विपश्चिता विनयोक्त्याऽर्पितविष्टरा अमी ।
ऋषयः परमार्थसंश्रया अमुना साकमचीकरन् कथाः ॥३८॥

निजगाद कथान्तरे मुनीञ्जननी तस्य समस्तदर्शिनः ।
वयमद्य कृतार्थतां गता भगवन्तो यदुपागता गृहान् ॥३९॥

क्व कलिर्बहुदोषभाजनं क्व च युष्पच्चरणावलोकनम् ।
तदलभ्यत चेत्पुराकृतं सुकृतं नः किमिति प्रपञ्चये ॥४०॥

शिशुरेष किलातिशैशवे यदशेषागमपारगोऽभवत् ।
महिमाऽपि यदद्भुतोऽस्य तद् द्वयमेतत्कुरुते कुतूहलम् ॥४१॥

करुणार्द्रदृशाऽनुगृह्यते स्वयमागत्य भवद्भिरप्ययम् ।
वदतास्य पुराकृतं तपः क्षममाकर्णयितुं मया यदि ॥४२॥

इति सादरमीरितां तया गिग्माकर्ण्य महर्षिसंसदि ।
प्रतिवक्तुमभिप्रचोदितो घटजन्मा प्रवयाः प्रचक्रमे ॥४३॥

तनयाय पुरा पतिव्रते तत्र पत्या तपसा प्रसादितः ।
स्मितपूर्वमुपाददे वचो रजनीवल्लभखण्डमण्डनः ॥४४॥

वरयस्व शतायुषः सुतानपि वा सर्वविदं मितायुषम् ।
सुतमेकमितीरितः शिवं सति सर्वज्ञमयाचतात्मजम् ॥४५॥

तदभीप्सितसिद्धये शिवस्तव भाग्यात्तनयो यशस्विनि ।
स्वयमेव बभूव सर्वविन्न ततोऽन्योऽस्ति यतः सुरेष्वपि ॥४६॥

इति तद्वचनं निशम्य सा मुनिवर्यं पुनरव्यवोचत ।
कियदायुरनुष्य भो मुने सकलज्ञोऽस्यनुकम्पया वद ॥४७॥

शरदोऽष्ट पुनस्तथाऽष्ट ते तनयस्यास्य तथाऽप्यसौ पुनः ।
निवसिष्यति कारणान्तराद्भुवनेऽस्मिन् दश षट् च वत्सरान् ॥४८॥

इति वादिनि भाविनीं कथामृषिमुख्ये घटजे निवार्य तम् ।
ऋषयः सह तेन शङ्करं समुपामन्त्र्य ययुर्यथागतम् ॥४९॥

सृणिना करिणीव साऽर्दिता शुचिना शैवलिनीव शोषिता ।
मरुता कदलीव कम्पिता मुनिवाचा सुतवत्सलाऽभवत् ॥५०॥

अथ शोकपरीतचेतनां द्विजराडित्थमुवाच मातरम् ।
अवगम्य च संसृतिस्थितिं किमकाण्डे परिदेवना तव ॥५१॥

प्रबलानिलवेगवेल्लितध्वजचीनांशुककोटिचञ्चले ।
अपि मृढमतिः कलेबरे कुरुते कः स्थिरबुद्धिमम्बिके ॥५२॥

कति नाम सुता न लालिताः कति वा नेह वधूरभुञ्जि हि ।
क्वनु ते क्वच ताः क्ववा वयं भवसङ्गः खलु पान्थसङ्गमः ॥५३॥

भ्रमतां भववर्त्मनि भ्रमान्न हि किञ्चित्सुखमम्ब लक्षये ।
तदवाप्य चतुर्थमाश्रमं प्रयतिष्ये भवबन्धमुक्तये ॥५४॥

इति कर्णकठ्रभाषणश्रवणाद्बाष्पपिनद्धकण्ठया ।
द्विगुणीकृतशोकया तथा जगदे गद्गदवाक्यया मुनिः ॥५५॥

त्यज बुद्धिमिमां श‍ृणुष्व मे गृहमेधी भव पुत्रमाप्नुहि ।
यज च क्रतुभिस्ततो यतिर्भवितास्यङ्ग सतामयं क्रमः ॥५६॥

कथमेकतनूभवा त्वया रहिता जीवितुमुत्सहेऽबला ।
अनयैव शुचौर्ध्वदेहिकं प्रमृतायां मयि कः करिष्यति ॥५७॥

त्वमशेषविदप्यपास्य मां जरठां वत्स कथं गमिष्यसि ।
द्रवते हृदयं कथं न ते न कथङ्कारमुपैति वा दयाम् ॥५८॥

एवं व्यथां तां बहुधाऽऽश्रयन्तीमपास्त मोहैर्बहुभिर्वचोभिः ।
अम्बामशोकां व्यदधाद्विधिज्ञः शुद्धाष्टमेऽचिन्तयदेतदन्तः ॥५९॥

मम न मानसमिच्छति संसृतिं न च पुनर्जननी विजिहासति ।
न च गुरुर्जननी तदुदीक्षते तदनुशासनमीषदपेक्षितम् ॥६०॥

इति विचिन्त्य स जातु मिमङ्क्षया बहुजलां सरितं समुपाययौ ।
जलमगाहत तत्र समग्रहीज्जलचरश्चरणे जलमीयुषः ॥६१॥

स च रुरोद जले जलचारिणा घृतपदो ह्रियतेऽम्ब करोमि किम् ।
चलितुमेकपदं न पारये बलवता विवृतोरुमुखेन ह ॥६२॥

गृहगता जननी तदुपाश‍ृणोत्परवशा द्रुतमाप सरित्तटम् ।
मम मृतेः प्रथमं शरणं धवस्तदनु मे शरणं तनयोऽभवत् ॥६३॥

स च मरिष्यति नक्रवशं गतः शिव न मेऽजनि हन्त पुरा मृतिः ।
इति शुशोच जनन्यपि तीरगा जलगतात्मजवक्त्रगतेक्षणा ॥६४॥

त्यजति नूनमयं चरणं चलो जलचरोऽम्ब तवानुमतेन मे ।
सकलसंन्यसने परिकल्पिते यदि तवानुमतिः परिकल्पये ॥६५॥

इति शिशौ चकिता वदति स्फुटं व्यघित साऽनुमतिं द्रुतमम्बिका ।
सति सुते भविता मम दर्शनं मृतवतस्तदु नेति विनिश्चयः ॥६६॥

तदनु संन्यसनं मनसा व्यधादथ सुमोच शिशुं खलनक्रकः ।
शिशुरुपेत्य सरित्तटमत्रसन् प्रसुवमेतदुवाच शुचाऽऽवृताम् ॥६७॥

मातर्विधेयमनुशाधि यदत्र कार्यं
संन्यासिना तदु करोमि न सन्दिहेऽहम् ।
वस्त्राशने तव यथेष्टममी प्रदधु-
र्गृह्णन्ति ये धनमिदं मम पैतृकं यत् ॥६८॥

देहेऽम्ब रोगवशगे च सनाभयोऽमी
द्रक्ष्यन्ति शक्तिमनुसृत्य मृतिमसङ्गे ।
अर्थग्रहाज्जनभगाच्च यथाविधानं
कुर्युश्च संस्कृतिममी न विभेयमीषत् ॥६९॥

यज्जीवितं जलचरस्य मुखात्तदिष्टं
संन्याससङ्गरवशान्मम देहपाते ।
संस्कारमेत्य विधिवत् शङ्कर त्वं
नो चेत्प्रसूय मम किं फलमीरय त्वम् ॥ ७०॥

अह्न्यम्ब रात्रिसमये समयान्तरे वा
सञ्चिन्तय स्ववशगाऽवशगाऽथवा माम् ।
एष्यामि तत्र समयं सकलं विहाय
विश्वासमाप्नुहि मृतावपि संस्करिष्ये ॥७१॥

संन्यस्त वाञ्छिशुरयं विधवामनाथां
क्षिप्त्वेति मां प्रति कदाऽपि न चिन्तनीयम् ।
यावन्मया स्थितवता फलमापनीयं
मातस्ततः शतगुणं फलमापयिष्ये ॥७२॥

इत्थं स्वमातरमनुग्रहणेच्छुरुक्त्वा
प्रोचे सनाभिजनमेष विचक्षणाग्न्यः ।
संन्यासकल्पितमना व्रजितोऽस्मि दूरं
तां निक्षिपामि जननीमधवां भवत्सु ॥७३॥

एवं सनाभिजनमुत्तममुत्तमाग्न्यः
श्रीमातृकार्यमभिभाष्य करद्वयेन ।
सम्प्रार्थयन् स्वजननीं विनयेन तेषु
न्यक्षेपयन्नयनजाम्बु निषिञ्चमानाम् ॥७४॥

आत्मीयमन्दिरसमीपगतामथासौ
चक्रे विदूरगनदीं जननीहिताय ।
तत्तीरसंश्रितयदूद्वहधाम किञ्चि-
त्सा निम्नगाऽऽरभत ताडयितुं तरङ्गैः ॥ ७५॥

वर्षासु वर्षति हरौ जलमेत्य किञ्चि-
दन्तःपुरं भगवतोऽपनुनोद मृत्स्नाम् ।
आरब्ध मूर्तिरनघा चलितुं क्रमेण
देवोऽबिभेदिव न मुञ्चति भीरुहिंसाम् ॥७६॥

प्रस्थातुकाममनघं भगवाननङ्ग-
वाचाऽवदत्कथमपि प्रणिपत्य मातुः ।
पादारविन्दयुगलं परिगृह्य चाज्ञां
श्रीशङ्करं जनहितैकरसं स कृष्णः ॥ ७७॥

आनेष्ट दूरगनदीं कृपया भवान् यां
सा माऽतिमात्रमनिशं बहुलोर्मिहस्तैः ।
क्लिश्नाति ताडनपरा वद कोऽभ्युपायो
वस्तुं क्षमे न नितरां द्विजपुत्र यासि ॥७८॥

आकर्ण्य वाचमिति तामतनुं गुरुर्नः
प्रोद्धृत्य कृष्णमचलं शनकैर्भुजाभ्याम् ।
प्रातिष्ठिपन्निकट एव न यत्र बाधा
नधेत्युदीर्य सुखमास्स्व चिराय चेति ॥७९॥

तस्मात्स्वमातुरपि भक्तिवशादनुज्ञा-
मादाय संसृतिमहाब्धिविरक्तिमान् सः ।
गन्तुं मनो व्यधित संन्यसनाय दूरं
कि नौस्थितः पतितुमिच्छति वारिराशौ ॥८०॥

इत्थं सुधीः स निरवग्रहमातृलक्ष्मी-
शानुग्रहो घटजबोधितभाविवेदी ।
एकान्ततो विगतभोगपदार्थतृष्णः
कृष्णे प्रतीचि निरतो निरगान्निशान्तात् ॥८१॥

यस्य त्रिनेत्रापरविग्रहस्य कामेन नास्थीयत दृक्पथेऽपि ।
तन्मूलकः संसृतिपाशबन्धः कथं प्रसज्येत महानुभावे ॥८२॥

स्मरेण किल मोहितौ विधिविधू च जातूत्पथौ
तथाऽहमपि मोहिनीकुचकचादिवीक्षापरः ।
अगामहह मोहिनीमिति विमृश्य सोऽजागरीत्
यतीशवपुषा शिवः स्मरकृतार्तिवार्तोज्झितः ॥८३॥

निष्पत्राकुरुतासुरानपि सुरान् मारः सपत्राऽकरो-
दप्यन्यानिह निष्कुलाऽकृततरां गन्धर्वविद्याधरान् ।
यो धानुष्कवरो नराननलसात्कृत्वोदलासीदलं
यस्तस्मिन्नशुशूरतैष मुनिभिर्वर्ण्यः कथं शङ्करः ॥८४॥

शान्तिश्चावशयन्मनो गतिमुखा दान्तिर्न्यरुद्ध क्रियाः
आघात्ता विषयान्तरादुपरतिः क्षान्तिर्मृदुत्वं व्यधात् ।
ध्यानैकोत्सुकतां समाधिविततिश्चक्रे तथाऽऽस प्रिया
श्रद्धा हन्त वसुप्रथाऽस्य तु कुतो वैराग्यतो वेद्मि नो ॥ ८५॥

विजनतावनितापरितोषितो विधिवितीर्णकृतात्मतनुस्थितिः ।
परिहरन् ममतां गृहगोचरां हृदयगेन शिवेन समं ययौ ॥८६॥

गच्छन्वनानि सरितो नगराणि शैलान्
ग्रामाञ्जनानपि पशून पथि सोऽपि पश्यन् ।
नन्वैन्द्रजालिक इवाद्भुतमिन्द्रजालं
ब्रह्मैवमेव परिदर्शयतीति मेने ॥८७॥

वादिभिर्निजनिजाध्वकर्शितां वर्तयन् पथि जरद्गवीं निजे ।
दण्डमेकमवहज्जगद्गुरुर्दण्डिताखिलकदध्वमण्डलः ॥८८॥

सारङ्गा इव विश्वकद्रुभिरहङ्कुर्वद्भिरुच्छृङ्खलै-
र्जल्पाकैः परमर्मभेदनकलाकण्डूलजिह्वाञ्चलैः ।
पाखण्डैरिह कान्दिशीकमनसः कं नाप्नुयुर्वेदिकाः
क्लेशं दण्डधरो यदि स्म न मुनिस्त्राता जगदेशिकः ॥ ८९॥

दण्डान्वितेन धृतरागनवाम्बरेण गोविन्दनाथवनमिन्दुभवातटस्थम् ।
तेन प्रविष्टमजनिष्ट दिनावसाने
चण्डत्विषा च शिखरं चरमाचलस्य ॥ ९०॥

तीरद्रुमागतमरुद्विगतश्रमः सन्
गोविन्दनाथवनमध्यतलं लुलोके ।
शंसन्ति यत्र तरवो वसतिं मुनीनां
शाखाभिरुज्ज्वलमृगाजिनवल्कलाभिः ॥९१॥

आदेशमेकमनुयोक्तुमयं व्यवस्यन्
प्रादेशमात्रविवरप्रतिहारभाजम् ।
तत्र स्थितेन कथितां यमिनां गणेन
गोविन्ददेशिकगुहां कुतुकी ददर्श ॥ ९२॥

यस्य प्रपन्नपरितोषदुहो गुहायाः
स त्रिः प्रदक्षिणपरिक्रमणं विधाय ।
द्वारं प्रति प्रणिपतञ्जनतापुरोगं
तुष्टाव तुष्टहृदयस्तमपास्तशोकम् ॥ ९३॥

पर्यङ्कतां भजति यः पतगेन्द्रकेतोः
पादाङ्गदत्वमथवा परमेश्वरस्य ।
तस्यैव मूर्ध्नि धृतसाब्धिमहीध्रभूमेः
शेषस्य विग्रहमशेषमहं भजे त्वाम् ॥९४॥

दृष्ट्वा पुरा निजसहस्रमुखीमभैषु-
रन्तेवसन्त इति तामपहाय शान्तः ।
एकाननेन भुवि यस्त्ववतीर्य शिष्या-
नन्वग्रहीन्ननु स एव पतञ्जलिस्त्वम् ॥९५॥

उरगपतिमुखादधीत्य साक्षात्स्वयमवनेर्विवरं प्रविश्य येन ।
प्रकटितमचलातले सयोगं जगदुपकारपरेण शब्दभाष्यम् ॥ ९६॥

तमखिलगुणपूर्ण व्यासपुत्रस्य शिष्या-
दधिगतपरमार्थ गौडपादान्महर्षेः ।
अधिजिगमिषुरेष ब्रह्मसंस्थामहं त्वां
प्रसृमरमहिमानं प्रापमेकान्तभक्त्या ॥९७॥

तस्मिन्निति स्तुवति कस्त्वमिति ब्रुवन्तं
दिष्ट्या समाधिपदरुद्धविसृष्टचित्तम् ।
गोविन्ददेशिकमुवाच ततो वचोभिः
प्राचीनपुण्यजनितात्मविबोधचिह्नैः ॥९८॥

स्वामिन्नहं न पृथिवी न जलं न तेजो
न स्पर्शनो न गगनं न च तद्गुणा वा ।
नापीन्द्रियाण्यपि तु विद्धि ततोऽवशिष्टो
यः केवलोऽस्ति परमः स शिवोऽहमस्मि ॥९९॥

आकर्ण्य शङ्करमुनेर्वचनं तदित्थ-
मद्वैतदर्शनसमुत्थमुपात्तहर्षः ।
स प्राह शङ्कर स शङ्कर एव साक्षा-
ज्जातस्त्वमित्यहमवैमि समाधिदृष्ट्या ॥१००॥

तस्योपदर्शितवतश्चरणौ गुहाया
द्वारे न्यपूजयदुपेत्य स शङ्करार्यः ।
आचार इत्युपदिदेश स तत्र तस्मै
गोविन्दपादगुरवे स गुरुर्मुनीनाम् ॥१०१॥

शङ्करः सविनयैरुपचारैरभ्यतोषयदसौ गुरुमेनम् ।
ब्रह्म तद्विदितमप्युपलिप्सुः सम्प्रदायपरिपालनबुद्धया ॥ १०२॥

भक्तिपूर्वकृततत्परिचर्यातोषितोऽधिकतरं यतिवर्यः ।
ब्रह्मतामुपदिदेश चतुर्भिर्वेदशेखरचचोभिरमुष्मै ॥१०३॥

साम्प्रदायिकपराशरपुत्रप्र्क्तसूत्रमतगत्यनुरोधात् ।
शास्त्रगूढहृदयं हि दयालोः कृत्स्नमप्ययमबुद्ध सुबुद्धिः ॥ १०४॥

व्यासः पराशरसुतः किल सत्यवत्यां
तस्यात्मजः शकम्निः प्रथितानुभावः ।
तच्छिष्यतामुपगतः किल गौडपादो
गोविन्दनाथमुनिरस्य च शिष्यभूतः ॥१०५॥

शुश्राव तस्य निकटे किल शास्त्रजालं
यश्चाश‍ृणोद्भुजगसद्यगतस्त्वनन्तात् ।
शब्दाम्बुराशिमखिलं समयं विधाय
यश्चाखिलानि भुवनानि बिभर्ति मूर्ध्ना ॥१०६॥

सोऽधिगम्य चरमाश्रममार्यः पूर्वपुण्यनिचयैरधिगम्यम् ।
स्थानमर्च्यमपि हंसपुरोगैरुन्नतं ध्रुव इवैत्य चकाशे ॥१०७॥

छन्नमूर्तिरतिपाटलशाटीपल्लवेन रुरुचे यतिराजः ।
वासरोपरमरक्तपयोदाच्छादितो हिमगिरेरिव कूटः ॥१०८॥

एष धूर्जटिरबोधमहेभं सन्निहत्य रुघिराप्लुतचर्म ।
उद्यदुष्णकिरणारुणशाटीपल्लवस्य कपटेन बिभर्ति ॥१०९॥

श्रुतीनामाक्रीडः प्रथितपरहंसोचितगति-
र्निजे सत्ये धाम्नि त्रिजगदतिवर्तिन्यभिरतः ।
असौ ब्रह्मैवास्मिन्न खलु विशये किन्तु कलये
बृहेरर्थं साक्षादनुपचरितं केवलतया ॥११०॥

मितं पादेनैव त्रिभुवनमिहैकेन महसा
विशुद्धं यत्सत्वं स्थितिजनिलयेष्वप्यनुगतम् ।
दशाकारातीतं स्वमहिमनि निर्वेदरमणं
ततस्तद्विष्णोः परमपदमाख्याति निगमः ॥१११॥

न भूतेष्वासङ्गः क्वचन न गवा वा विहरणं
न भूत्या संसर्गो न परिचितता भोगिभिरपि ।
तदप्याम्नायान्तस्त्रिपुरदहनात्केवलदृशा
तुरीयं निर्द्वन्द्वं शिवमतितरां वर्णयति तम् ॥११२॥

न धर्मः सौवर्णो न पुरुषफलेषु प्रवणता
न चैवाहोरात्रस्फुरदरियुतः पार्थिवरथः ।
असाहाय्येनैवं सति विततपुर्यष्टकजये*
(पुर्यष्टकं - १. ज्ञानेन्द्रियपञ्चकम्, २. कर्मेन्द्रियपञ्चकं,
३. प्राणपञ्चकम्, ४. अन्तःकरणचतुष्टयम्, ५. अविद्या,
६. कामः, ७. कर्म, ८. वासना)
कथं तं न ब्रूयान्निगमनिकुरम्बं परशिवम् ॥११३॥

दुःखासारदुरन्तदुष्कृतघनां दुःसंसृतिप्रावृषं
दुर्वारामिह दारुणां परिहरन्दूरादुदाराशयः ।
उच्चण्डप्रतिपक्षपण्डितयशोनालीकनालाङ्कुर-
ग्रासो हंसङ्कुलावतंसपदभाक् सन्मानसे क्रीडति ॥११४॥

क्षीरं ब्रह्म जगच्च नीरमुभयं तद्योगमभ्यागतं
दुर्भेदं त्वितरेतरं चिरतरं सम्यग्विभक्तीकृतम् ।
येनाशेषविशेषदोषलहरीमासेदुषीं शेमुषीं
सोऽयं शीलवतां पुनाति परमो हंसो द्विजात्यग्रणीः ॥ ११५॥

नीरक्षीरनयेन तथ्यवितथे सम्पिण्डिते पण्डितै-
र्दुर्बोधे सकलैर्विवेचयति यः श्रीशङ्कराख्यो मुनिः ।
हंसोऽयं परमोऽस्तु ये पुनरिहाशक्ताः समस्ताः स्थिताः
जृम्भान्निम्बफलाशनैकरसिकान् काकानमून्मन्महे ॥ ११६॥

दृष्टिं यः प्रगुणीकरोति तमसा बाह्येन मन्दीकृतां
नालीकप्रियतां प्रयाति भजते मित्रत्वमव्याहतम् ।
विश्वस्योपकृतेर्विलुम्पति सुहृच्चक्रस्य चार्तिं घनां
हंसः सोऽयमभिव्यनक्ति महतां जिज्ञास्यमर्थं मुहुः ॥ ११७॥

हंसभावमधिगम्य सुधीन्द्रे तं समर्चति च संसृतिमुक्त्यै ।
सञ्चचाल कथयन्निव मेघश्चञ्चलाचपलतां विषयेषु ॥११८॥

एष नः स्पृशति निष्ठुरपादैस्तत्तु तिष्ठतु वितीर्णमवन्यै ।
अस्मदीयमपि पुष्पमनैषीदित्यरोधि नलिनीपतिरब्दैः ॥ ११९॥

वारिवाहनिवहे क्षणलक्ष्यश्रीररोचत किलाचिररोचिः ।
अन्तरङ्गगतबोधकलेव व्यापृतस्य विदुषो विषयेषु ॥१२०॥

किं नु विष्णुपदसंश्रयतोऽब्दा ब्रह्मतामुपदिशन्ति सुहृद्भयः ।
यन्निशम्य निखिलाः स्वनमेषां बिभ्रति स्म किल निर्भरमोदान् ॥ १२१॥

देवराजमपि मां न यजन्ति ज्ञानगर्वभरिता यतयोऽमी ।
इत्यमर्षवशगेन पयोदस्यन्दनेन धनुराविरकारि ॥१२२॥

आववुः कुटजकन्दलबाणास्फीतरेणुकलिता वनवात्याः ।
सत्वमध्यमतमोगुणमिश्रा मायिका इव जगत्सु विलासाः ॥ १२३॥

बभ्रुमुस्तिमिरसच्छविगात्राश्चित्रकार्मुकभृतः खरघोषाः ।
ध्यानयज्ञमथनाय यतीनां विद्युदुज्ज्वलदृशो घनदैत्याः ॥ १२४॥

उत्ससर्जुरसकृज्जलधारा वारिदा गगनधाम पिधाय ।
शङ्करो हृदयमात्मनि कृत्वा सञ्जहार सकलेन्द्रियवृत्तीः ॥ १२५॥

शनैः सान्त्वालापैः सनयमुपनीतोपनिषदां
चिरायत्तं त्यक्त्वा सहजमभिमानं दृढतरम् ।
तमेत्य प्रेयांसं सपदि परहंसं पुनरसा-
वधीरा संस्प्रष्टुं क्वनु सपदि तद्धीर्लयमगात् ॥१२६॥

न सूर्यो नैवेन्दुः स्फुरति न च ताराततिरियं
कुतो विद्युल्लेखा कियदिह कृशानोर्विलसितम् ।
नो विद्ं रोदस्यौ न च समयमस्मिन्न जलदे
चिदाकाशे सान्द्रस्वमुखरसवर्ष्मण्यविरतम् ॥१२७॥

किमादेयं हेयं किमिति सहजानन्दजलधा-
वतिस्वच्छे तुच्छीकृतसकलमाये परशिवे ।
तदेतस्मिन्नेव स्वमहिमनि विस्मापनपदे
स्वतः सत्ये नित्ये रहसि परमे सोऽकृत कृती ॥ १२८॥

प्राप विष्णुपदभागपि मेघः प्रावृडागमनतो मलिनत्वम् ।
विद्युदुज्ज्वलरुचाऽनुसृतश्च कोऽध्यवन्यपि भजेन्न विरागम् ॥ १२९॥

आशये कलुषिते सलिलानां मानसोत्कहृदयाः कलहंसाः ।
कोऽन्यथा भवति जीवनलिप्सुर्नाश्रये भजति मानसचिन्ताम् ॥ १३०॥

अभ्रवर्त्मनि परिभ्रममिच्छञ्शुभ्रदीधितिरदभ्रपयोदे ।
न प्रकाशनमवाप कलावान् कश्चकास्ति मलिनाम्बरवासी ॥१३१॥

चातकावलिरनल्पपिपासा प्राप तृप्तिमुदकस्य चिराय ।
प्राप्नुयादमृतमप्यभिवाञ्छन् कालतो बत घनाश्रयकारी ॥१३२॥

इत्युदीर्णजलवाहविनीले स्फीतवातपरिधूततमाले ।
प्राणभृत्प्रचरणप्रतिकूले नीडनीलघनशालिनि काले ॥१३३॥

अग्रहारशतसम्भृतशोभे सुग्रहाक्षतुरगः स महात्मा ।
अध्युवास तटमिन्दुभवायाः सुध्युपास्यचरणं गुरुमर्चन् ॥१३४॥

त्रस्तमर्त्यगणमस्तमिताशं हस्तिहस्तपृथुलोदकधाराः ।
मुञ्चति स्म समुदश्चितविद्युत्पञ्चरात्रमहिशत्रुरजस्रम् ॥१३५॥

तीरभूरुहततीरपकर्षन्नग्रहारनिकरैः सह पूरः ।
आययावधिकघोषमनल्पः कल्पवार्धिलहरीव तटिन्याः ॥१३६॥

घोषवारिझरभीरुनराणां घोषमेष कलुषं स निशम्य ।
देशिकं ध्रुवसमाधिविधानं वीक्ष्य च क्षणमभूदविवक्षुः ॥१३७॥

सोऽभिमन्त्र्य करकं त्यरमाणस्तत्प्रवाहपुरतः प्रणिधाय ।
कृत्स्नमत्र समवेशयदम्भः कुम्भसम्भव इव स्वकरेऽब्धिम् ॥१३८॥

तं निशम्य निखिलैरपि लोकैरुत्थितोऽस्य गुरुरुक्तमुद्न्तम् ।
योगसिद्धिमचिरादयमापेत्यभ्यपद्यततरां परितोषम् ॥१३९॥

छात्रमुख्यममुपाह कियद्भिर्वासरैर्गतघने गगने सः ।
पश्य सौम्य शरदा विमलं खं विद्ययेव विशदं परतत्वम् ॥१४०॥

वारिदा यतिवराश्च सुपाथोधारया सदुपदेशगिरा च ।
ओषधीरनुचरांश्च कृतार्थीकृत्य सम्प्रति हि यान्ति यथेच्छम् ॥ १४१॥

शीतदीधितिरसौ जलमुग्भिर्मुक्तपद्धतिरतिस्फुटकान्तिः ।
भाति तत्वविदुषामिव बोधो मायिकावरणनिर्गमशुभ्रः ॥१४२॥

वारिवाहनिवहे प्रतियाते भान्ति भानि शुचिभानि शुभानि ।
मत्सरादिविगमे सति (१)मैत्रीपूर्वका इव गुणाः परिशुद्धाः ॥१४३॥

(१ ``मैत्री करुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां
भावनातश्चित्तप्रसादनम्'' इति पातञ्जलयोगसूत्रम् ।)
मत्स्यकच्छपमयी घृतचक्रा गर्भवर्तिभुवना नलिनाढ्या ।
श्रीयुताऽद्य तटनी परहंसैः सेव्यते मधुरिपोरिव मूर्तिः ॥१४४॥

नीरदाः सुचिरसम्भृतमेते जीवनं द्विजगणाय वितीर्य ।
त्यक्तविद्युदबलाः परिशुद्धाः प्रव्रजन्ति घनवीथिगृहेभ्यः ॥१४५॥

चन्द्रिकाभसितचर्चितगात्रश्चन्द्रमण्डलकमण्डलुशोभी ।
बन्धुजीवकुसुमोत्करशाटीसंवृतो यतिरिवायमनेहाः ॥१४६॥

हंससङ्गतिलसद्विरजस्कं क्षोभवर्जितमपह्नुतपङ्कम् ।
वारि सारसमतीव गभीरं तावकं मन इव प्रतिभाति ॥१४७॥

शारदाम्बुधरजालपरीतं भ्राजते गगनमुज्ज्वलभानु ।
लिप्तचन्दनरजः समुदञ्चत्कौस्तुभं मुररिपोरिव वक्षः ॥१४८॥

पङ्कजानि समुदूढहरीणि प्रोद्गतानि विकचानि कनन्ति ।
सौम्य योगकलयेव विफुल्लान्युन्मुखानि हृदयानि मुनीनाम् ॥१४९॥

रेणुभस्मकलितैर्दलशाटीसंवृतैः कुसुमलिड्जपमालैः ।
वृन्तकुड्मलकमण्डलुयुक्तैर्धार्यते क्षितिरुहैर्यतितौल्यम् ॥१५०॥

धारणादिभिरपि श्रवणाद्यैर्वार्षिकाणि दिवसान्यपनीय ।
पादपद्मरजसाऽद्य पुनन्तः सञ्चरन्ति हि जगन्ति महान्तः ॥१५१॥

तद्भवान् व्रजतु वेदकदम्बादुद्भवां भवदवाम्बुदमालाम् ।
तत्वपद्धतिमभिज्ञ विवेक्तुं सत्वरं हरपुरीमविविक्ताम् ॥१५२॥

अत्र कृष्णमुनिना कथितं मे पुत्र तच्छृणु पुरा तुहिनाद्रौ ।
वृत्रशत्रुमुखदैवतजुष्टं सत्रमत्रिमुनिकर्तृकमास ॥१५३॥

संसदि श्रुतिशिरोऽर्थमुदारं शंसति स्म पराशरसूनुः ।
इत्यपृच्छमहमत्रभवन्तं सत्यवाचमभियुक्ततमं तम् ॥१५४॥

आर्य वेदनिकरः प्रविभक्तो भारतं कृतमकारि पुराणम् ।
योगशास्त्रापि सम्यगभाषि ब्रह्मसूत्रमपि सूत्रितमासीत् ॥१५५॥

अत्र केचिदिह विप्रतिपन्नाः कल्पयन्ति हि यथायथमर्थान् ।
अन्यथाग्रहणनिग्रहदक्षं भाष्यमस्य भगवन् करणीयम् ॥१५६॥

मद्वचः स च निशम्य सभायां विद्वदग्रसर वाचमवोचत् ।
पूर्वमेव दिविषद्भिरुदीर्णः पार्वतीपतिसदस्ययमर्थः ॥१५७॥

वत्स तं श‍ृणु समस्त विदेको मत्समस्तव भविष्यति शिष्यः ।
कुम्भ एव सरितः सकलं यः संहरिष्यति महोल्बणमम्भः ॥१५८॥

दुर्मतानि निरसिष्यति सोऽयं शर्मदायि च करिष्यति भाष्यम् ।
कीर्तयिष्यति यशस्तव लोकः कार्तिकेन्दुकरकौतुकि येन ॥१५९॥

इत्युदीर्य मुनिराट् स वनान्ते पत्युराप सुगिरिं गिरिजायाः ।
तन्मुखाच्छ्रुतमशेषमिदानीं सन्मुनिप्रिय मया त्वयि दृष्टम् ॥१६०॥

स त्वमुत्तमपुमानसि कश्चित्तत्त्ववित्प्रवर नान्यसमानः ।
तद्यतस्व निरवद्यनिबन्धैः सद्य एव जगदुद्धरणाय ॥१६१॥

गच्छ वत्स नगरं शशिमौलेः स्वच्छदेवतटिनीकमनीयम् ।
तावता परमनुग्रहमाद्या देवता तव करिष्यति तस्मिन् ॥१६२॥

एवमेनमनुशास्य दयालुः पावयन्निजदृशा विससर्ज ।
भावतः स्वचरणाम्बुजसेवामेव शश्वदभिकामयमानम् ॥१६३॥

पङ्कजप्रतिभटं पदयुग्मं शङ्करोऽस्य निरगादसहिष्णुः ।
तद्वियोगमभिवन्द्य कथञ्चित्तद्विलोकनमयन् हृदयाब्जे ॥१६४॥

प्राप तापसवरः स हि काशीं नीपकाननपरीतसमीपाम् ।
आपगानिकटहाटकचञ्चद्यूपपङ्क्तिसमुदञ्चितशोभाम् ॥१६५॥

सन्ददश स भगीरथतप्तामन्दतीव्रतपसः फलभूताम् ।
योगिराडुचिततीरनिकुञ्जां भोगिभूषणजटातटभूषाम् ॥१६६॥

विष्णुपादनखराज्जननाद्वा शम्भुमौलिशशिसङ्गमनाद्वा ।
या हिमाद्रिशिखरात्पतनाद्वा स्फाटिकोपमजला प्रतिभाति ॥१६७॥

गायतीव कलषट्पदनादैर्नृत्यतीव पवनोच्चलिताब्जैः ।
मुञ्चतीव हसितं सितफेनैः श्लिष्यतीव चपलोर्मिकरैर्या ॥१६८॥

श्यामला क्वचिदपाङ्गमयूखैश्चित्रिता क्वचन भूषणभाभिः ।
पाटला कुचतटीगलितैर्या कुङ्कुमैः क्वचन दिव्यवधूनाम् ॥१६९॥

सोऽवगाह्य सलिलं सुरसिन्धोरुत्ततार शितिकण्ठजटाभ्यः ।
जाह्नवीसलिलवेगह्रतस्तयोगपुण्यपरिपूर्ण इवेन्दुः ॥१७०॥

स्वर्णदीजलकणाहितशोभा मूर्तिरस्य सुतरां विललास ।
चन्द्रपादगलदम्बुकणाङ्का पुत्रिका शशिशिलारचितेव ॥१७१॥

विश्वेशश्चरणयुगं प्रणम्य भक्त्या
हर्याद्यैस्त्रिदशवरैः समर्चितस्य ।
सोऽनैषीत्प्रयतमना जगत्पवित्रे
क्षेत्रेऽसाविह समयं कियन्तमार्यः ॥ १७२॥

इति श्रीमाधवीये तत्सुखाश्रमनिवासगः ।
सङ्क्षेपशङ्करजये सर्गोऽयं पञ्चमोऽभवत् ॥५॥

आदितः श्लोकाः ५५६

N/A

References : N/A
Last Updated : January 23, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP