संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|शङ्करदिग्विजयम्| अथ पञ्चमः सर्गः शङ्करदिग्विजयम् अनुक्रमणिका अथ प्रथमः सर्गः अथ द्वितीयः सर्गः अथ तृतीयः सर्गः अथ चतुर्थः सर्गः अथ पञ्चमः सर्गः अथ षष्ठः सर्गः अथ सप्तमः सर्गः अथ अथाष्टमः सर्गः अथ नवमः सर्गः अथ दशमः सर्गः अथ एकादशः सर्गः अथ द्वादशः सर्गः अथ त्रयोदशः सर्गः अथ चतुर्दशः सर्गः अथ पञ्चदशः सर्गः अथ षोडशः सर्गः शङ्करदिग्विजयम् - अथ पञ्चमः सर्गः शङ्करदिग्विजयम् Tags : shankar digvijayशङ्कर दिग्विजय संन्यासग्रहणम् Translation - भाषांतर इति सप्तमहायनेऽखिलश्रुतिपारङ्गततां गतो वटुः ।परिवृत्य गुरोः कुलाद् गृहे जननीं पर्यचरन्महायशाः ॥ १॥परिचरञ्जननीं निगमं पठन्नपि हुताशरवीं सवनद्वयम् ।मनुवरैर्नियतं परिपूजयञ्छिशुवर्तत संस्तरणिर्यथा ॥ २॥शिशुमुदीक्ष्य युवाऽपि न मन्युमान् दिशति वृद्धतमोऽपि निजासनम् ।अपि करोति जनः करयोर्युगं वशगतो विहिताञ्जलि तत्क्षणात् ॥३॥मृदु वचश्चरितं कुशलां मतिं वपुरनुत्तममास्पदमोजसाम् ।सकलमेतदुदीक्ष्य सुतस्य सा सुखमवाप निरर्गलमम्बिका ॥४॥जातु मन्दगमनाऽस्य हि माता स्नातुमम्बुनिधिगां प्रतियाता ।आतपोग्रकिरणे रविबिम्बे सा तपःकुशतनुर्विललम्बे ॥५॥शङ्करस्तदनु शङ्कितचित्तः पङ्कजैविगतपङ्कजलाद्रैः ।वीजयन्नुपगतो गतमोहां तां जनेन सदनं सह निन्ये ॥६॥सोऽथ नेतुमनवद्यचरित्रः सद्मनोऽन्तिकमृषीश्वरपुत्रः ।अस्तवीज्जलधिगां कविहृद्यैर्वस्तुतः स्फुरदलङ्कृतपद्यैः ॥७॥ईहितं तव भविष्यति काल्ये यो हितं जगत इच्छसि बाल्ये ।इत्यवाप्य स वरं तटिनीतः सत्यवाक् सदनमाप विनीतः ॥८॥प्रातरेव समलोकत लोकः शीतवातहृतशीकरपूतः ।नूतनामिव धुनीं प्रवहन्तीं माधवस्य समया सदनं ताम् ॥९॥एवमेनमतिमर्त्यचरित्रं सेवमानजनदैन्यलवित्रम् ।केरलक्षितिपतिर्हि दिदृक्षुः प्राहिणोत्सचिवमादृतभिक्षुः ॥१०॥सोऽप्यतन्द्रितमभीरुपदाभिः प्राप्य तं यदनु सद्विरदाभिः ।उक्तिभिः सरसमञ्जुपदाभिः शक्तिभृत्सममजिज्ञपदाभिः ॥११॥यस्य नैव सदृशो भुवि बोद्धा दृश्यते रणशिरःसु च योद्धा ।तस्य केरलनृपस्य नियोगाद् दृश्यसे मम च सत्कृतियोगात् ॥१२॥राजिताभ्रवसनैर्विलसन्तः पूजिताः सदसि यस्य वसन्तः ।पण्डिताः सरसवादकथाभिः खण्डितापरगिरोऽवितथाभिः ॥१३॥सोऽयमाजिजितसर्वमहीपः स्तूयमानचरणः कुलदीपः ।पादरेणुमवनं भवभाजामादरेण तव विन्दतु राजा ॥१४॥एष सिन्धुरपरो मदपूर्णो दोषगन्धरहितः प्रवितीर्णः ।अस्तु तेऽद्य रजसा परिपूतं वस्तुतो नृपगृहं शुचिभूतम् ॥१५॥इत्युदीर्य परिसाघितदौत्यं प्रत्युदीरितसदुक्तिममात्यम् ।अत्युदारमृषिभिः परिशस्तं प्रत्युवाच वचनं क्रमशस्तम् ॥१६॥भैक्षमन्नमजिनं परिधानं रूक्षमेव नियमेन विधानम् ।कर्म दातृवर शास्ति बटूनां शर्मदायिनिगमाप्तिपटूनाम् ॥१७॥कर्म नैजमपहाय कुभोगेः कुर्महेऽह किमु कुम्भिपुरोगैः ।इच्छया सुखममात्य यथेतं गच्छ नाथमसकृत्कथयेत्थम् ॥१८॥प्रत्युत क्षितिभृताऽखिलवर्णा वृत्युपाहरणतो विगतर्णाः ।धर्मवर्त्मनिरता रचनीयाः कर्म वर्ज्यमिति नो वचनीयाः ॥१९॥इत्यमुष्य वचनादकलङ्कः प्रत्यगात्पुनरमात्यमृगाङ्कः ।वृत्तमस्य स निशम्य धरापः सत्तमस्य सविधं स्वयमाप ॥२०॥भूसुरार्भकवरैः परिवीतं भासुरोडुपगभस्त्युपवीतम् ।अच्छजह्नुसुतया विलसन्तं सुच्छविं नगमिव द्रुमवन्तम् ॥२१॥चर्म कृष्णहरिणस्य दधानं कर्म कृत्स्नमुचितं विदधानम् ।नूतनाम्बुदनिभाम्बरवन्तं पूतनारिसहजं तुलयन्तम् ॥२२॥जातरूपरुचिमुञ्जसुधाम्ना छातरूपकटिमद्भुतधाम्ना ।नाकभूजमिव सत्कृतिलब्धं पाकपीतलतिकापरिरब्धम् ॥२३॥सस्मितं मुनिवरस्य कुमारं विस्मितो नग्पतिर्वहुवारंसंविधाय विनतिं वरदाने तं विधातृसदृशं भुवि मेने ॥२४॥तेन पृष्टकुशलः क्षितिपालः स्वेन सृष्टमथ शात्रवकालः ।हाटकायुतसमर्पणपूर्वं नाटकत्रयमवोचदपूर्वम् ॥२५॥तद्रसार्द्रगुणरीतिविशिष्टं भद्रसन्धिरुचिरं सुकवीष्टम् ।सङ्ग्रहेण स निशम्य सुवाचं तं गृहाण वरमित्यमुमूचे ॥२६॥तां नितान्तहृदयङ्गमसारां गां निशम्य तुलितामृतधाराम् ।भूपतिः स रचिताञ्जलिबन्धः स्वोपमं सुतमियेष सुसन्धः ॥२७॥नो हिताय मम हाटकमेतद्देहि नस्तु गृहवासिजनाय ।ईहितं तव भविष्यति शीघ्रं याहि पूर्णमनसेत्यवदत्तम् ॥२८॥राजवर्यकुलवृद्धिनिमित्तां व्याजहार रहसिश्रुतिवित्ताम् ।इष्टिमस्य सकलेष्टविधातुस्तुष्टिमाप हि तथा क्षितिनेता ॥२९॥स विशेषविदा सभाजितः कविमुख्येन कलाभृतां वरः ।अगमत्कृतकृत्यधीर्निजां नगरीमस्य गुणानुदीरयन् ॥३०॥बहवः श्रुतिपारदृश्वनः कवयोऽध्यैषत शङ्कराद्गुरोः ।महतः सुमहान्ति दर्शनान्यधिगन्तुं फणिराजकौशलीम् ॥३१॥पठितं श्रुतमादरात्पुनः पुनरालोक्य रहस्यनूनकम् ।प्रविभज्य निमञ्जतः सुखे स विधेयान् विदधेतमां सुधीः ॥३२॥सर्वार्थतत्त्वविदपि प्रकृतोपचारैःशास्त्रोक्तभक्त्यतिशयेन विनीतशाली ।सन्तोषयन् स जननीमनयत्कियन्तिसम्मानितो द्विजवरैर्दिवसानि धन्यः ॥३३॥सा शङ्करस्य शरणं स च तज्जनन्याअन्योन्ययोगविरहस्त्वनयोरसह्यः ।नो वोढुमिच्छति तथाऽप्यमनुष्यभावान्मेरुं गतः किमपि वाञ्छति दुष्प्रदेशम् ॥३४॥कृतविद्यममुं चिकीर्षवः श्रितगार्हस्थ्यमथाप्तबन्धवः ।अनुरूपगुणामचिन्तयन्ननवद्येषु कुलेषु कन्यकाम् ॥३५॥अथ जातु दिदृक्षवः कलाववतीर्णं मुनयः पुरद्विषम् ।उपमन्युदधीचिगौतमत्रितलागस्त्यमुखाः समाययुः ॥३६॥प्रणिपत्य स भक्तिसन्नतः प्रसवित्र्या सह तान्विधानवित् ।विधिवन्मधुपर्कपूर्वया प्रतिजग्राह सपर्यया मुनीन् ॥३७॥विहिताञ्जलिना विपश्चिता विनयोक्त्याऽर्पितविष्टरा अमी ।ऋषयः परमार्थसंश्रया अमुना साकमचीकरन् कथाः ॥३८॥निजगाद कथान्तरे मुनीञ्जननी तस्य समस्तदर्शिनः ।वयमद्य कृतार्थतां गता भगवन्तो यदुपागता गृहान् ॥३९॥क्व कलिर्बहुदोषभाजनं क्व च युष्पच्चरणावलोकनम् ।तदलभ्यत चेत्पुराकृतं सुकृतं नः किमिति प्रपञ्चये ॥४०॥शिशुरेष किलातिशैशवे यदशेषागमपारगोऽभवत् ।महिमाऽपि यदद्भुतोऽस्य तद् द्वयमेतत्कुरुते कुतूहलम् ॥४१॥करुणार्द्रदृशाऽनुगृह्यते स्वयमागत्य भवद्भिरप्ययम् ।वदतास्य पुराकृतं तपः क्षममाकर्णयितुं मया यदि ॥४२॥इति सादरमीरितां तया गिग्माकर्ण्य महर्षिसंसदि ।प्रतिवक्तुमभिप्रचोदितो घटजन्मा प्रवयाः प्रचक्रमे ॥४३॥तनयाय पुरा पतिव्रते तत्र पत्या तपसा प्रसादितः ।स्मितपूर्वमुपाददे वचो रजनीवल्लभखण्डमण्डनः ॥४४॥वरयस्व शतायुषः सुतानपि वा सर्वविदं मितायुषम् ।सुतमेकमितीरितः शिवं सति सर्वज्ञमयाचतात्मजम् ॥४५॥तदभीप्सितसिद्धये शिवस्तव भाग्यात्तनयो यशस्विनि ।स्वयमेव बभूव सर्वविन्न ततोऽन्योऽस्ति यतः सुरेष्वपि ॥४६॥इति तद्वचनं निशम्य सा मुनिवर्यं पुनरव्यवोचत ।कियदायुरनुष्य भो मुने सकलज्ञोऽस्यनुकम्पया वद ॥४७॥शरदोऽष्ट पुनस्तथाऽष्ट ते तनयस्यास्य तथाऽप्यसौ पुनः ।निवसिष्यति कारणान्तराद्भुवनेऽस्मिन् दश षट् च वत्सरान् ॥४८॥इति वादिनि भाविनीं कथामृषिमुख्ये घटजे निवार्य तम् ।ऋषयः सह तेन शङ्करं समुपामन्त्र्य ययुर्यथागतम् ॥४९॥सृणिना करिणीव साऽर्दिता शुचिना शैवलिनीव शोषिता ।मरुता कदलीव कम्पिता मुनिवाचा सुतवत्सलाऽभवत् ॥५०॥अथ शोकपरीतचेतनां द्विजराडित्थमुवाच मातरम् ।अवगम्य च संसृतिस्थितिं किमकाण्डे परिदेवना तव ॥५१॥प्रबलानिलवेगवेल्लितध्वजचीनांशुककोटिचञ्चले ।अपि मृढमतिः कलेबरे कुरुते कः स्थिरबुद्धिमम्बिके ॥५२॥कति नाम सुता न लालिताः कति वा नेह वधूरभुञ्जि हि ।क्वनु ते क्वच ताः क्ववा वयं भवसङ्गः खलु पान्थसङ्गमः ॥५३॥भ्रमतां भववर्त्मनि भ्रमान्न हि किञ्चित्सुखमम्ब लक्षये ।तदवाप्य चतुर्थमाश्रमं प्रयतिष्ये भवबन्धमुक्तये ॥५४॥इति कर्णकठ्रभाषणश्रवणाद्बाष्पपिनद्धकण्ठया ।द्विगुणीकृतशोकया तथा जगदे गद्गदवाक्यया मुनिः ॥५५॥त्यज बुद्धिमिमां शृणुष्व मे गृहमेधी भव पुत्रमाप्नुहि ।यज च क्रतुभिस्ततो यतिर्भवितास्यङ्ग सतामयं क्रमः ॥५६॥कथमेकतनूभवा त्वया रहिता जीवितुमुत्सहेऽबला ।अनयैव शुचौर्ध्वदेहिकं प्रमृतायां मयि कः करिष्यति ॥५७॥त्वमशेषविदप्यपास्य मां जरठां वत्स कथं गमिष्यसि ।द्रवते हृदयं कथं न ते न कथङ्कारमुपैति वा दयाम् ॥५८॥एवं व्यथां तां बहुधाऽऽश्रयन्तीमपास्त मोहैर्बहुभिर्वचोभिः ।अम्बामशोकां व्यदधाद्विधिज्ञः शुद्धाष्टमेऽचिन्तयदेतदन्तः ॥५९॥मम न मानसमिच्छति संसृतिं न च पुनर्जननी विजिहासति ।न च गुरुर्जननी तदुदीक्षते तदनुशासनमीषदपेक्षितम् ॥६०॥इति विचिन्त्य स जातु मिमङ्क्षया बहुजलां सरितं समुपाययौ ।जलमगाहत तत्र समग्रहीज्जलचरश्चरणे जलमीयुषः ॥६१॥स च रुरोद जले जलचारिणा घृतपदो ह्रियतेऽम्ब करोमि किम् ।चलितुमेकपदं न पारये बलवता विवृतोरुमुखेन ह ॥६२॥गृहगता जननी तदुपाशृणोत्परवशा द्रुतमाप सरित्तटम् ।मम मृतेः प्रथमं शरणं धवस्तदनु मे शरणं तनयोऽभवत् ॥६३॥स च मरिष्यति नक्रवशं गतः शिव न मेऽजनि हन्त पुरा मृतिः ।इति शुशोच जनन्यपि तीरगा जलगतात्मजवक्त्रगतेक्षणा ॥६४॥त्यजति नूनमयं चरणं चलो जलचरोऽम्ब तवानुमतेन मे ।सकलसंन्यसने परिकल्पिते यदि तवानुमतिः परिकल्पये ॥६५॥इति शिशौ चकिता वदति स्फुटं व्यघित साऽनुमतिं द्रुतमम्बिका ।सति सुते भविता मम दर्शनं मृतवतस्तदु नेति विनिश्चयः ॥६६॥तदनु संन्यसनं मनसा व्यधादथ सुमोच शिशुं खलनक्रकः ।शिशुरुपेत्य सरित्तटमत्रसन् प्रसुवमेतदुवाच शुचाऽऽवृताम् ॥६७॥मातर्विधेयमनुशाधि यदत्र कार्यंसंन्यासिना तदु करोमि न सन्दिहेऽहम् ।वस्त्राशने तव यथेष्टममी प्रदधु-र्गृह्णन्ति ये धनमिदं मम पैतृकं यत् ॥६८॥देहेऽम्ब रोगवशगे च सनाभयोऽमीद्रक्ष्यन्ति शक्तिमनुसृत्य मृतिमसङ्गे ।अर्थग्रहाज्जनभगाच्च यथाविधानंकुर्युश्च संस्कृतिममी न विभेयमीषत् ॥६९॥यज्जीवितं जलचरस्य मुखात्तदिष्टंसंन्याससङ्गरवशान्मम देहपाते ।संस्कारमेत्य विधिवत् शङ्कर त्वंनो चेत्प्रसूय मम किं फलमीरय त्वम् ॥ ७०॥अह्न्यम्ब रात्रिसमये समयान्तरे वासञ्चिन्तय स्ववशगाऽवशगाऽथवा माम् ।एष्यामि तत्र समयं सकलं विहायविश्वासमाप्नुहि मृतावपि संस्करिष्ये ॥७१॥संन्यस्त वाञ्छिशुरयं विधवामनाथांक्षिप्त्वेति मां प्रति कदाऽपि न चिन्तनीयम् ।यावन्मया स्थितवता फलमापनीयंमातस्ततः शतगुणं फलमापयिष्ये ॥७२॥इत्थं स्वमातरमनुग्रहणेच्छुरुक्त्वाप्रोचे सनाभिजनमेष विचक्षणाग्न्यः ।संन्यासकल्पितमना व्रजितोऽस्मि दूरंतां निक्षिपामि जननीमधवां भवत्सु ॥७३॥एवं सनाभिजनमुत्तममुत्तमाग्न्यःश्रीमातृकार्यमभिभाष्य करद्वयेन ।सम्प्रार्थयन् स्वजननीं विनयेन तेषुन्यक्षेपयन्नयनजाम्बु निषिञ्चमानाम् ॥७४॥आत्मीयमन्दिरसमीपगतामथासौचक्रे विदूरगनदीं जननीहिताय ।तत्तीरसंश्रितयदूद्वहधाम किञ्चि-त्सा निम्नगाऽऽरभत ताडयितुं तरङ्गैः ॥ ७५॥वर्षासु वर्षति हरौ जलमेत्य किञ्चि-दन्तःपुरं भगवतोऽपनुनोद मृत्स्नाम् ।आरब्ध मूर्तिरनघा चलितुं क्रमेणदेवोऽबिभेदिव न मुञ्चति भीरुहिंसाम् ॥७६॥प्रस्थातुकाममनघं भगवाननङ्ग-वाचाऽवदत्कथमपि प्रणिपत्य मातुः ।पादारविन्दयुगलं परिगृह्य चाज्ञांश्रीशङ्करं जनहितैकरसं स कृष्णः ॥ ७७॥आनेष्ट दूरगनदीं कृपया भवान् यांसा माऽतिमात्रमनिशं बहुलोर्मिहस्तैः ।क्लिश्नाति ताडनपरा वद कोऽभ्युपायोवस्तुं क्षमे न नितरां द्विजपुत्र यासि ॥७८॥आकर्ण्य वाचमिति तामतनुं गुरुर्नःप्रोद्धृत्य कृष्णमचलं शनकैर्भुजाभ्याम् ।प्रातिष्ठिपन्निकट एव न यत्र बाधानधेत्युदीर्य सुखमास्स्व चिराय चेति ॥७९॥तस्मात्स्वमातुरपि भक्तिवशादनुज्ञा-मादाय संसृतिमहाब्धिविरक्तिमान् सः ।गन्तुं मनो व्यधित संन्यसनाय दूरंकि नौस्थितः पतितुमिच्छति वारिराशौ ॥८०॥इत्थं सुधीः स निरवग्रहमातृलक्ष्मी-शानुग्रहो घटजबोधितभाविवेदी ।एकान्ततो विगतभोगपदार्थतृष्णःकृष्णे प्रतीचि निरतो निरगान्निशान्तात् ॥८१॥यस्य त्रिनेत्रापरविग्रहस्य कामेन नास्थीयत दृक्पथेऽपि ।तन्मूलकः संसृतिपाशबन्धः कथं प्रसज्येत महानुभावे ॥८२॥स्मरेण किल मोहितौ विधिविधू च जातूत्पथौतथाऽहमपि मोहिनीकुचकचादिवीक्षापरः ।अगामहह मोहिनीमिति विमृश्य सोऽजागरीत्यतीशवपुषा शिवः स्मरकृतार्तिवार्तोज्झितः ॥८३॥निष्पत्राकुरुतासुरानपि सुरान् मारः सपत्राऽकरो-दप्यन्यानिह निष्कुलाऽकृततरां गन्धर्वविद्याधरान् ।यो धानुष्कवरो नराननलसात्कृत्वोदलासीदलंयस्तस्मिन्नशुशूरतैष मुनिभिर्वर्ण्यः कथं शङ्करः ॥८४॥शान्तिश्चावशयन्मनो गतिमुखा दान्तिर्न्यरुद्ध क्रियाःआघात्ता विषयान्तरादुपरतिः क्षान्तिर्मृदुत्वं व्यधात् ।ध्यानैकोत्सुकतां समाधिविततिश्चक्रे तथाऽऽस प्रियाश्रद्धा हन्त वसुप्रथाऽस्य तु कुतो वैराग्यतो वेद्मि नो ॥ ८५॥विजनतावनितापरितोषितो विधिवितीर्णकृतात्मतनुस्थितिः ।परिहरन् ममतां गृहगोचरां हृदयगेन शिवेन समं ययौ ॥८६॥गच्छन्वनानि सरितो नगराणि शैलान्ग्रामाञ्जनानपि पशून पथि सोऽपि पश्यन् ।नन्वैन्द्रजालिक इवाद्भुतमिन्द्रजालंब्रह्मैवमेव परिदर्शयतीति मेने ॥८७॥वादिभिर्निजनिजाध्वकर्शितां वर्तयन् पथि जरद्गवीं निजे ।दण्डमेकमवहज्जगद्गुरुर्दण्डिताखिलकदध्वमण्डलः ॥८८॥सारङ्गा इव विश्वकद्रुभिरहङ्कुर्वद्भिरुच्छृङ्खलै-र्जल्पाकैः परमर्मभेदनकलाकण्डूलजिह्वाञ्चलैः ।पाखण्डैरिह कान्दिशीकमनसः कं नाप्नुयुर्वेदिकाःक्लेशं दण्डधरो यदि स्म न मुनिस्त्राता जगदेशिकः ॥ ८९॥दण्डान्वितेन धृतरागनवाम्बरेण गोविन्दनाथवनमिन्दुभवातटस्थम् ।तेन प्रविष्टमजनिष्ट दिनावसानेचण्डत्विषा च शिखरं चरमाचलस्य ॥ ९०॥तीरद्रुमागतमरुद्विगतश्रमः सन्गोविन्दनाथवनमध्यतलं लुलोके ।शंसन्ति यत्र तरवो वसतिं मुनीनांशाखाभिरुज्ज्वलमृगाजिनवल्कलाभिः ॥९१॥आदेशमेकमनुयोक्तुमयं व्यवस्यन्प्रादेशमात्रविवरप्रतिहारभाजम् ।तत्र स्थितेन कथितां यमिनां गणेनगोविन्ददेशिकगुहां कुतुकी ददर्श ॥ ९२॥यस्य प्रपन्नपरितोषदुहो गुहायाःस त्रिः प्रदक्षिणपरिक्रमणं विधाय ।द्वारं प्रति प्रणिपतञ्जनतापुरोगंतुष्टाव तुष्टहृदयस्तमपास्तशोकम् ॥ ९३॥पर्यङ्कतां भजति यः पतगेन्द्रकेतोःपादाङ्गदत्वमथवा परमेश्वरस्य ।तस्यैव मूर्ध्नि धृतसाब्धिमहीध्रभूमेःशेषस्य विग्रहमशेषमहं भजे त्वाम् ॥९४॥दृष्ट्वा पुरा निजसहस्रमुखीमभैषु-रन्तेवसन्त इति तामपहाय शान्तः ।एकाननेन भुवि यस्त्ववतीर्य शिष्या-नन्वग्रहीन्ननु स एव पतञ्जलिस्त्वम् ॥९५॥उरगपतिमुखादधीत्य साक्षात्स्वयमवनेर्विवरं प्रविश्य येन ।प्रकटितमचलातले सयोगं जगदुपकारपरेण शब्दभाष्यम् ॥ ९६॥तमखिलगुणपूर्ण व्यासपुत्रस्य शिष्या-दधिगतपरमार्थ गौडपादान्महर्षेः ।अधिजिगमिषुरेष ब्रह्मसंस्थामहं त्वांप्रसृमरमहिमानं प्रापमेकान्तभक्त्या ॥९७॥तस्मिन्निति स्तुवति कस्त्वमिति ब्रुवन्तंदिष्ट्या समाधिपदरुद्धविसृष्टचित्तम् ।गोविन्ददेशिकमुवाच ततो वचोभिःप्राचीनपुण्यजनितात्मविबोधचिह्नैः ॥९८॥स्वामिन्नहं न पृथिवी न जलं न तेजोन स्पर्शनो न गगनं न च तद्गुणा वा ।नापीन्द्रियाण्यपि तु विद्धि ततोऽवशिष्टोयः केवलोऽस्ति परमः स शिवोऽहमस्मि ॥९९॥आकर्ण्य शङ्करमुनेर्वचनं तदित्थ-मद्वैतदर्शनसमुत्थमुपात्तहर्षः ।स प्राह शङ्कर स शङ्कर एव साक्षा-ज्जातस्त्वमित्यहमवैमि समाधिदृष्ट्या ॥१००॥तस्योपदर्शितवतश्चरणौ गुहायाद्वारे न्यपूजयदुपेत्य स शङ्करार्यः ।आचार इत्युपदिदेश स तत्र तस्मैगोविन्दपादगुरवे स गुरुर्मुनीनाम् ॥१०१॥शङ्करः सविनयैरुपचारैरभ्यतोषयदसौ गुरुमेनम् ।ब्रह्म तद्विदितमप्युपलिप्सुः सम्प्रदायपरिपालनबुद्धया ॥ १०२॥भक्तिपूर्वकृततत्परिचर्यातोषितोऽधिकतरं यतिवर्यः ।ब्रह्मतामुपदिदेश चतुर्भिर्वेदशेखरचचोभिरमुष्मै ॥१०३॥साम्प्रदायिकपराशरपुत्रप्र्क्तसूत्रमतगत्यनुरोधात् ।शास्त्रगूढहृदयं हि दयालोः कृत्स्नमप्ययमबुद्ध सुबुद्धिः ॥ १०४॥व्यासः पराशरसुतः किल सत्यवत्यांतस्यात्मजः शकम्निः प्रथितानुभावः ।तच्छिष्यतामुपगतः किल गौडपादोगोविन्दनाथमुनिरस्य च शिष्यभूतः ॥१०५॥शुश्राव तस्य निकटे किल शास्त्रजालंयश्चाशृणोद्भुजगसद्यगतस्त्वनन्तात् ।शब्दाम्बुराशिमखिलं समयं विधाययश्चाखिलानि भुवनानि बिभर्ति मूर्ध्ना ॥१०६॥सोऽधिगम्य चरमाश्रममार्यः पूर्वपुण्यनिचयैरधिगम्यम् ।स्थानमर्च्यमपि हंसपुरोगैरुन्नतं ध्रुव इवैत्य चकाशे ॥१०७॥छन्नमूर्तिरतिपाटलशाटीपल्लवेन रुरुचे यतिराजः ।वासरोपरमरक्तपयोदाच्छादितो हिमगिरेरिव कूटः ॥१०८॥एष धूर्जटिरबोधमहेभं सन्निहत्य रुघिराप्लुतचर्म ।उद्यदुष्णकिरणारुणशाटीपल्लवस्य कपटेन बिभर्ति ॥१०९॥श्रुतीनामाक्रीडः प्रथितपरहंसोचितगति-र्निजे सत्ये धाम्नि त्रिजगदतिवर्तिन्यभिरतः ।असौ ब्रह्मैवास्मिन्न खलु विशये किन्तु कलयेबृहेरर्थं साक्षादनुपचरितं केवलतया ॥११०॥मितं पादेनैव त्रिभुवनमिहैकेन महसाविशुद्धं यत्सत्वं स्थितिजनिलयेष्वप्यनुगतम् ।दशाकारातीतं स्वमहिमनि निर्वेदरमणंततस्तद्विष्णोः परमपदमाख्याति निगमः ॥१११॥न भूतेष्वासङ्गः क्वचन न गवा वा विहरणंन भूत्या संसर्गो न परिचितता भोगिभिरपि ।तदप्याम्नायान्तस्त्रिपुरदहनात्केवलदृशातुरीयं निर्द्वन्द्वं शिवमतितरां वर्णयति तम् ॥११२॥न धर्मः सौवर्णो न पुरुषफलेषु प्रवणतान चैवाहोरात्रस्फुरदरियुतः पार्थिवरथः ।असाहाय्येनैवं सति विततपुर्यष्टकजये*(पुर्यष्टकं - १. ज्ञानेन्द्रियपञ्चकम्, २. कर्मेन्द्रियपञ्चकं,३. प्राणपञ्चकम्, ४. अन्तःकरणचतुष्टयम्, ५. अविद्या,६. कामः, ७. कर्म, ८. वासना)कथं तं न ब्रूयान्निगमनिकुरम्बं परशिवम् ॥११३॥दुःखासारदुरन्तदुष्कृतघनां दुःसंसृतिप्रावृषंदुर्वारामिह दारुणां परिहरन्दूरादुदाराशयः ।उच्चण्डप्रतिपक्षपण्डितयशोनालीकनालाङ्कुर-ग्रासो हंसङ्कुलावतंसपदभाक् सन्मानसे क्रीडति ॥११४॥क्षीरं ब्रह्म जगच्च नीरमुभयं तद्योगमभ्यागतंदुर्भेदं त्वितरेतरं चिरतरं सम्यग्विभक्तीकृतम् ।येनाशेषविशेषदोषलहरीमासेदुषीं शेमुषींसोऽयं शीलवतां पुनाति परमो हंसो द्विजात्यग्रणीः ॥ ११५॥नीरक्षीरनयेन तथ्यवितथे सम्पिण्डिते पण्डितै-र्दुर्बोधे सकलैर्विवेचयति यः श्रीशङ्कराख्यो मुनिः ।हंसोऽयं परमोऽस्तु ये पुनरिहाशक्ताः समस्ताः स्थिताःजृम्भान्निम्बफलाशनैकरसिकान् काकानमून्मन्महे ॥ ११६॥दृष्टिं यः प्रगुणीकरोति तमसा बाह्येन मन्दीकृतांनालीकप्रियतां प्रयाति भजते मित्रत्वमव्याहतम् ।विश्वस्योपकृतेर्विलुम्पति सुहृच्चक्रस्य चार्तिं घनांहंसः सोऽयमभिव्यनक्ति महतां जिज्ञास्यमर्थं मुहुः ॥ ११७॥हंसभावमधिगम्य सुधीन्द्रे तं समर्चति च संसृतिमुक्त्यै ।सञ्चचाल कथयन्निव मेघश्चञ्चलाचपलतां विषयेषु ॥११८॥एष नः स्पृशति निष्ठुरपादैस्तत्तु तिष्ठतु वितीर्णमवन्यै ।अस्मदीयमपि पुष्पमनैषीदित्यरोधि नलिनीपतिरब्दैः ॥ ११९॥वारिवाहनिवहे क्षणलक्ष्यश्रीररोचत किलाचिररोचिः ।अन्तरङ्गगतबोधकलेव व्यापृतस्य विदुषो विषयेषु ॥१२०॥किं नु विष्णुपदसंश्रयतोऽब्दा ब्रह्मतामुपदिशन्ति सुहृद्भयः ।यन्निशम्य निखिलाः स्वनमेषां बिभ्रति स्म किल निर्भरमोदान् ॥ १२१॥देवराजमपि मां न यजन्ति ज्ञानगर्वभरिता यतयोऽमी ।इत्यमर्षवशगेन पयोदस्यन्दनेन धनुराविरकारि ॥१२२॥आववुः कुटजकन्दलबाणास्फीतरेणुकलिता वनवात्याः ।सत्वमध्यमतमोगुणमिश्रा मायिका इव जगत्सु विलासाः ॥ १२३॥बभ्रुमुस्तिमिरसच्छविगात्राश्चित्रकार्मुकभृतः खरघोषाः ।ध्यानयज्ञमथनाय यतीनां विद्युदुज्ज्वलदृशो घनदैत्याः ॥ १२४॥उत्ससर्जुरसकृज्जलधारा वारिदा गगनधाम पिधाय ।शङ्करो हृदयमात्मनि कृत्वा सञ्जहार सकलेन्द्रियवृत्तीः ॥ १२५॥शनैः सान्त्वालापैः सनयमुपनीतोपनिषदांचिरायत्तं त्यक्त्वा सहजमभिमानं दृढतरम् ।तमेत्य प्रेयांसं सपदि परहंसं पुनरसा-वधीरा संस्प्रष्टुं क्वनु सपदि तद्धीर्लयमगात् ॥१२६॥न सूर्यो नैवेन्दुः स्फुरति न च ताराततिरियंकुतो विद्युल्लेखा कियदिह कृशानोर्विलसितम् ।नो विद्ं रोदस्यौ न च समयमस्मिन्न जलदेचिदाकाशे सान्द्रस्वमुखरसवर्ष्मण्यविरतम् ॥१२७॥किमादेयं हेयं किमिति सहजानन्दजलधा-वतिस्वच्छे तुच्छीकृतसकलमाये परशिवे ।तदेतस्मिन्नेव स्वमहिमनि विस्मापनपदेस्वतः सत्ये नित्ये रहसि परमे सोऽकृत कृती ॥ १२८॥प्राप विष्णुपदभागपि मेघः प्रावृडागमनतो मलिनत्वम् ।विद्युदुज्ज्वलरुचाऽनुसृतश्च कोऽध्यवन्यपि भजेन्न विरागम् ॥ १२९॥आशये कलुषिते सलिलानां मानसोत्कहृदयाः कलहंसाः ।कोऽन्यथा भवति जीवनलिप्सुर्नाश्रये भजति मानसचिन्ताम् ॥ १३०॥अभ्रवर्त्मनि परिभ्रममिच्छञ्शुभ्रदीधितिरदभ्रपयोदे ।न प्रकाशनमवाप कलावान् कश्चकास्ति मलिनाम्बरवासी ॥१३१॥चातकावलिरनल्पपिपासा प्राप तृप्तिमुदकस्य चिराय ।प्राप्नुयादमृतमप्यभिवाञ्छन् कालतो बत घनाश्रयकारी ॥१३२॥इत्युदीर्णजलवाहविनीले स्फीतवातपरिधूततमाले ।प्राणभृत्प्रचरणप्रतिकूले नीडनीलघनशालिनि काले ॥१३३॥अग्रहारशतसम्भृतशोभे सुग्रहाक्षतुरगः स महात्मा ।अध्युवास तटमिन्दुभवायाः सुध्युपास्यचरणं गुरुमर्चन् ॥१३४॥त्रस्तमर्त्यगणमस्तमिताशं हस्तिहस्तपृथुलोदकधाराः ।मुञ्चति स्म समुदश्चितविद्युत्पञ्चरात्रमहिशत्रुरजस्रम् ॥१३५॥तीरभूरुहततीरपकर्षन्नग्रहारनिकरैः सह पूरः ।आययावधिकघोषमनल्पः कल्पवार्धिलहरीव तटिन्याः ॥१३६॥घोषवारिझरभीरुनराणां घोषमेष कलुषं स निशम्य ।देशिकं ध्रुवसमाधिविधानं वीक्ष्य च क्षणमभूदविवक्षुः ॥१३७॥सोऽभिमन्त्र्य करकं त्यरमाणस्तत्प्रवाहपुरतः प्रणिधाय ।कृत्स्नमत्र समवेशयदम्भः कुम्भसम्भव इव स्वकरेऽब्धिम् ॥१३८॥तं निशम्य निखिलैरपि लोकैरुत्थितोऽस्य गुरुरुक्तमुद्न्तम् ।योगसिद्धिमचिरादयमापेत्यभ्यपद्यततरां परितोषम् ॥१३९॥छात्रमुख्यममुपाह कियद्भिर्वासरैर्गतघने गगने सः ।पश्य सौम्य शरदा विमलं खं विद्ययेव विशदं परतत्वम् ॥१४०॥वारिदा यतिवराश्च सुपाथोधारया सदुपदेशगिरा च ।ओषधीरनुचरांश्च कृतार्थीकृत्य सम्प्रति हि यान्ति यथेच्छम् ॥ १४१॥शीतदीधितिरसौ जलमुग्भिर्मुक्तपद्धतिरतिस्फुटकान्तिः ।भाति तत्वविदुषामिव बोधो मायिकावरणनिर्गमशुभ्रः ॥१४२॥वारिवाहनिवहे प्रतियाते भान्ति भानि शुचिभानि शुभानि ।मत्सरादिविगमे सति (१)मैत्रीपूर्वका इव गुणाः परिशुद्धाः ॥१४३॥(१ ``मैत्री करुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणांभावनातश्चित्तप्रसादनम्'' इति पातञ्जलयोगसूत्रम् ।)मत्स्यकच्छपमयी घृतचक्रा गर्भवर्तिभुवना नलिनाढ्या ।श्रीयुताऽद्य तटनी परहंसैः सेव्यते मधुरिपोरिव मूर्तिः ॥१४४॥नीरदाः सुचिरसम्भृतमेते जीवनं द्विजगणाय वितीर्य ।त्यक्तविद्युदबलाः परिशुद्धाः प्रव्रजन्ति घनवीथिगृहेभ्यः ॥१४५॥चन्द्रिकाभसितचर्चितगात्रश्चन्द्रमण्डलकमण्डलुशोभी ।बन्धुजीवकुसुमोत्करशाटीसंवृतो यतिरिवायमनेहाः ॥१४६॥हंससङ्गतिलसद्विरजस्कं क्षोभवर्जितमपह्नुतपङ्कम् ।वारि सारसमतीव गभीरं तावकं मन इव प्रतिभाति ॥१४७॥शारदाम्बुधरजालपरीतं भ्राजते गगनमुज्ज्वलभानु ।लिप्तचन्दनरजः समुदञ्चत्कौस्तुभं मुररिपोरिव वक्षः ॥१४८॥पङ्कजानि समुदूढहरीणि प्रोद्गतानि विकचानि कनन्ति ।सौम्य योगकलयेव विफुल्लान्युन्मुखानि हृदयानि मुनीनाम् ॥१४९॥रेणुभस्मकलितैर्दलशाटीसंवृतैः कुसुमलिड्जपमालैः ।वृन्तकुड्मलकमण्डलुयुक्तैर्धार्यते क्षितिरुहैर्यतितौल्यम् ॥१५०॥धारणादिभिरपि श्रवणाद्यैर्वार्षिकाणि दिवसान्यपनीय ।पादपद्मरजसाऽद्य पुनन्तः सञ्चरन्ति हि जगन्ति महान्तः ॥१५१॥तद्भवान् व्रजतु वेदकदम्बादुद्भवां भवदवाम्बुदमालाम् ।तत्वपद्धतिमभिज्ञ विवेक्तुं सत्वरं हरपुरीमविविक्ताम् ॥१५२॥अत्र कृष्णमुनिना कथितं मे पुत्र तच्छृणु पुरा तुहिनाद्रौ ।वृत्रशत्रुमुखदैवतजुष्टं सत्रमत्रिमुनिकर्तृकमास ॥१५३॥संसदि श्रुतिशिरोऽर्थमुदारं शंसति स्म पराशरसूनुः ।इत्यपृच्छमहमत्रभवन्तं सत्यवाचमभियुक्ततमं तम् ॥१५४॥आर्य वेदनिकरः प्रविभक्तो भारतं कृतमकारि पुराणम् ।योगशास्त्रापि सम्यगभाषि ब्रह्मसूत्रमपि सूत्रितमासीत् ॥१५५॥अत्र केचिदिह विप्रतिपन्नाः कल्पयन्ति हि यथायथमर्थान् ।अन्यथाग्रहणनिग्रहदक्षं भाष्यमस्य भगवन् करणीयम् ॥१५६॥मद्वचः स च निशम्य सभायां विद्वदग्रसर वाचमवोचत् ।पूर्वमेव दिविषद्भिरुदीर्णः पार्वतीपतिसदस्ययमर्थः ॥१५७॥वत्स तं शृणु समस्त विदेको मत्समस्तव भविष्यति शिष्यः ।कुम्भ एव सरितः सकलं यः संहरिष्यति महोल्बणमम्भः ॥१५८॥दुर्मतानि निरसिष्यति सोऽयं शर्मदायि च करिष्यति भाष्यम् ।कीर्तयिष्यति यशस्तव लोकः कार्तिकेन्दुकरकौतुकि येन ॥१५९॥इत्युदीर्य मुनिराट् स वनान्ते पत्युराप सुगिरिं गिरिजायाः ।तन्मुखाच्छ्रुतमशेषमिदानीं सन्मुनिप्रिय मया त्वयि दृष्टम् ॥१६०॥स त्वमुत्तमपुमानसि कश्चित्तत्त्ववित्प्रवर नान्यसमानः ।तद्यतस्व निरवद्यनिबन्धैः सद्य एव जगदुद्धरणाय ॥१६१॥गच्छ वत्स नगरं शशिमौलेः स्वच्छदेवतटिनीकमनीयम् ।तावता परमनुग्रहमाद्या देवता तव करिष्यति तस्मिन् ॥१६२॥एवमेनमनुशास्य दयालुः पावयन्निजदृशा विससर्ज ।भावतः स्वचरणाम्बुजसेवामेव शश्वदभिकामयमानम् ॥१६३॥पङ्कजप्रतिभटं पदयुग्मं शङ्करोऽस्य निरगादसहिष्णुः ।तद्वियोगमभिवन्द्य कथञ्चित्तद्विलोकनमयन् हृदयाब्जे ॥१६४॥प्राप तापसवरः स हि काशीं नीपकाननपरीतसमीपाम् ।आपगानिकटहाटकचञ्चद्यूपपङ्क्तिसमुदञ्चितशोभाम् ॥१६५॥सन्ददश स भगीरथतप्तामन्दतीव्रतपसः फलभूताम् ।योगिराडुचिततीरनिकुञ्जां भोगिभूषणजटातटभूषाम् ॥१६६॥विष्णुपादनखराज्जननाद्वा शम्भुमौलिशशिसङ्गमनाद्वा ।या हिमाद्रिशिखरात्पतनाद्वा स्फाटिकोपमजला प्रतिभाति ॥१६७॥गायतीव कलषट्पदनादैर्नृत्यतीव पवनोच्चलिताब्जैः ।मुञ्चतीव हसितं सितफेनैः श्लिष्यतीव चपलोर्मिकरैर्या ॥१६८॥श्यामला क्वचिदपाङ्गमयूखैश्चित्रिता क्वचन भूषणभाभिः ।पाटला कुचतटीगलितैर्या कुङ्कुमैः क्वचन दिव्यवधूनाम् ॥१६९॥सोऽवगाह्य सलिलं सुरसिन्धोरुत्ततार शितिकण्ठजटाभ्यः ।जाह्नवीसलिलवेगह्रतस्तयोगपुण्यपरिपूर्ण इवेन्दुः ॥१७०॥स्वर्णदीजलकणाहितशोभा मूर्तिरस्य सुतरां विललास ।चन्द्रपादगलदम्बुकणाङ्का पुत्रिका शशिशिलारचितेव ॥१७१॥विश्वेशश्चरणयुगं प्रणम्य भक्त्याहर्याद्यैस्त्रिदशवरैः समर्चितस्य ।सोऽनैषीत्प्रयतमना जगत्पवित्रेक्षेत्रेऽसाविह समयं कियन्तमार्यः ॥ १७२॥इति श्रीमाधवीये तत्सुखाश्रमनिवासगः ।सङ्क्षेपशङ्करजये सर्गोऽयं पञ्चमोऽभवत् ॥५॥आदितः श्लोकाः ५५६ N/A References : N/A Last Updated : January 23, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP