संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|शङ्करदिग्विजयम्| अथ सप्तमः सर्गः शङ्करदिग्विजयम् अनुक्रमणिका अथ प्रथमः सर्गः अथ द्वितीयः सर्गः अथ तृतीयः सर्गः अथ चतुर्थः सर्गः अथ पञ्चमः सर्गः अथ षष्ठः सर्गः अथ सप्तमः सर्गः अथ अथाष्टमः सर्गः अथ नवमः सर्गः अथ दशमः सर्गः अथ एकादशः सर्गः अथ द्वादशः सर्गः अथ त्रयोदशः सर्गः अथ चतुर्दशः सर्गः अथ पञ्चदशः सर्गः अथ षोडशः सर्गः शङ्करदिग्विजयम् - अथ सप्तमः सर्गः शङ्करदिग्विजयम् Tags : shankar digvijayशङ्कर दिग्विजय व्यासदर्शनादिचरितवर्णनम् Translation - भाषांतर स जातु शारीरकसूत्रभाष्यमध्यापयन्नभ्रसरित्समीपे ।शिष्यालिशङ्काः शमयन्नुवास यावन्नभोमध्यमितो विवस्वान् ॥१॥श्रान्तेष्वथाधीत्य शनैर्विनेयेष्वाचार्य उत्तिष्ठति यावदेषः ।तावद् द्विजः कश्चन वृद्धरूपः कस्त्वं किमध्यापयसीत्यपृच्छत् ॥२॥शिष्यास्तमूचुर्भगवानसौ नो गुरुः समस्तोपनिषत्स्वतन्त्रः ।अनेन दुरीकृतभेदवादमकारि शारीरकसुलभाष्यम् ॥३॥स चाब्रवीद्भाष्यकृतं भवन्तमेते वदन्त्यद्भुतमेतदास्ताम् ।अथैकमुच्चारय पारमार्षं यतेऽर्थतस्त्वं यदि वेत्थ सूत्रम् ॥४॥तमब्रवीद्भाष्यकृदग्र्यवाचं सुत्रार्थविद्भ्य्ऽस्तु नमो गुरुभ्यः ।सूत्रज्ञताहङ्कृतिरस्ति नो मे तथाऽपि यत्पृच्छसि तद्ब्रवीमि ॥५॥पप्रच्छ सोऽध्यायमथाधिकृत्य तृतीयमारम्भगतं यतीशम् ।``तदन्तरे''त्यादिकमस्ति सूत्रं ब्रह्येतदर्थं यदि वेत्थ किञ्चित् ॥६॥स प्राह जीवः करणावसादे संवेष्टितो गच्छति भूतसूक्ष्मैः ।ताण्डिश्रुतौ गौतमजैवलीयप्रश्नोत्तराभ्यां प्रथितोऽयमर्थः ॥७॥इत्युक्तमर्थं निशमय्य तेन स वावदूकः शतधा विकल्प्य ।अखण्डयत्पण्डितकुञ्जराणां मध्ये महाविस्मयमादधानः ॥८॥अनुद्य सर्वं फणितं तदीयं सहस्रधा तीर्थकरश्चखण्ड ।तयाः सुराचार्यफणीन्द्रवाचोर्दिनाष्टकं वाक्कलहो जजृम्भे ॥९॥एवं वदन्तौ यतिराद्विजेन्द्रौ विलोक्य पार्श्वस्थितपद्मपादः ।आचार्यमाहेति महीसुरोऽयं व्यासो हि वेदान्तरहस्यवेत्ता ॥१०॥त्वं शङ्करः शङ्कर एव साक्षात् व्यासस्तु नारायण एव नूनम् ।तयोर्विवादे सततं प्रसक्ते कि किङ्करोऽहं करवाणि सद्यः ॥११॥इतीदमाकर्ण्य वचो विचित्रं स भाष्यकृत्सूत्रकृतं दिदृक्षुः ।कृताञ्जलिस्तं प्रयतः प्रणम्य बभाण वाणीं नवपद्यरूपाम् ॥१२॥भवांस्तडिच्चारुजटाकिरीटप्रवर्षुकाम्भोधरकान्तिकान्तः ।शुभ्रोपवीती घृतकृष्णचर्मा कृष्णो हि साक्षात्कलिदोषहन्ता ॥१३॥भावत्कसूत्रप्रतिपाद्यतादृक्परापरार्थप्रतिपादकं सत् ।अद्वैतभाव्यं तव सम्मतं चेत्सोढ्वा ममाऽगः पुरतो भवाऽऽशु ॥१४॥एवं वदन्नयमथैक्षत कृष्णमाराच्चामीकरव्रततिचारुजटाकलापम् ।विद्युल्लतावलयवेष्टितवारिदाभं चिन्मुद्रया प्रकटयन्तमभीष्टमर्थम् ॥१५॥गाढोपगूढमनुरागजुषा रजन्या गर्हापदं विदधतं शरदिन्दुबिम्बम् ।तापिच्छरीतितनुकान्तिझरीपरीतं कान्तेन्दुकान्तघटितं करकं दधानम् ॥१६॥सप्ताधिकाच्छदरविंशतिमौक्तिकाढ्यांसत्यस्य मूर्तिमिव बिभ्रतमक्षमालाम् ।तत्तादृशस्वपतिवंशविवर्धनात्प्रा-क्तारावलीमुपगतामिव चानुनेतुम् ॥१७॥शार्दूलचर्मोद्वहनेन भूतेरुद्धूलनेनापि जटाच्छटाभिः ।रुद्राक्षमालावलयेन शम्भोरर्धासनाध्यासनसख्यपात्रम् ॥१८॥अद्वैतविद्यासृणितीक्ष्णधारावशीकृताहङ्कृतिकुञ्जरेन्द्रम् ।स्वशास्त्रशङ्कूज्ज्वलसूत्रदामनियन्त्रिताकृत्रिमगोसहस्रम् ॥१९॥तत्तादृगत्युज्ज्वलकीर्तिशालिशिष्यालिसंशोभितपार्श्वभागम् ।कटाक्षबीक्षामृतवर्षधारानिवारिताशेषजनानुतापम् ॥२०॥विलोक्य वाचंयमसार्वभौमं स शङ्करोऽशङ्कितदर्शनं तम् ।गुरुं गुरूणामपि हृष्टचेताः प्रत्युद्ययौ शिष्यगणैः समेतः ॥२१॥अत्यादराच्छात्रगणैः सहासौ प्रत्युद्गतस्तच्चरणौ प्रणम्य ।यत्यग्रगामी विनयी प्रहृष्यन्नित्यब्रवीत्सत्यवतीसुतं सः ॥२२॥द्वैपायन स्वागतमस्तु तुभ्यं दृष्ट्वा भवन्तं चरिता मयार्थाः ।युक्तं तदेतत्त्वयि सर्वकालं परोपकारव्रतदीक्षितत्वात् ॥२३॥मुने पुराणानि दशाष्ट साक्षाच्छ्रुत्यर्थगर्भाणि सुदुष्कराणि ।कृतानि पद्यद्वयमत्र कर्तुं को नाम शक्नोति सुसङ्गतार्थम् ॥२४॥वेदार्णवं व्यतियुतं व्यदधाश्चतुर्धाशाखाप्रभेदनवशादपि तान् विभक्तान् ।मन्दाः कलौ क्षितिसुरा जनितार एतेवेदान् ग्रहीतुमलसा इति चिन्तयित्वा ॥२५॥एष्यद्विजानासि भवन्तमर्थं गतं च सर्वं न न वेत्सि यत्तत् ।नो चेत्कथं भूतभवद्भविष्यत्कथाप्रबन्धान् रचयेरजानन् ॥२६॥आभासयन्नन्तरमङ्गमान्ध्यं स्थूलं च सृक्ष्मं बहिरन्तरं च ।अपानुदन् भारतशीतरश्मिरभूदपूर्वी भगवत्पयोधेः ॥२७॥वेदाः षडङ्गं निखिलं च शास्त्रं महान् महाभारतवारिराशिः ।त्वत्तः पुराणानि च सम्बभूवुः सर्वं त्वदीयं खलु वाङ्मयाख्यम् ॥२८॥द्वीपे क्वचित् समुदयन्नृतमेव धाम शाखासहस्रसचिवः शुकसेव्यमानः ।उल्लासयत्यहह यस्तिलको मुनीर्थन्नामुच्चैः फलानि सुदृशां निजपादभाजाम् ॥२९॥धत्से सदाऽऽर्तिशमनाय हृदा गिरीशं गोपाय सेऽधिवदनं च चिरन्तनीर्गाः ।दूरीकरोषि नरकं च दयार्द्रदृष्टया कस्ते गुणान् गदितुमद्भुतकृष्ण शक्तः ॥३०॥यमामनन्ति श्रुतयः पदार्थं न सन्न चासन्न बहिर्न चान्तः ।स सच्चिदानन्दघनः परात्मा नारायणस्त्वं पुरुषः पुराणः ॥३१॥इति स्तुतस्तेन यथाविधानमासेदिवान् विष्टरमात्मनिष्ठः ।द्वैपायनः प्रश्रयनम्रपूर्वकायं यतीशानमिदं बभाषे ॥३२॥त्वमस्मदादेः पदवीं गतोऽभूरखण्डपाण्डित्यमबोधयं ते ।शुकर्षिवत् प्रीतिकरोऽसि विद्वन् पुरेव शिष्यैः सह मा भ्रमीस्त्वम् ॥३३॥कृतं त्वया भाष्यमितीन्दुमौलेः सभाङ्गणे सिद्धमुखान्निशम्य ।हृदा प्रहृष्टेन दिदृक्षया ते दृगध्वनीनः प्रशमिन्नभूवम् ॥३४॥इत्थं मुनीन्द्रवचनश्रवणोत्थहर्षंरोमाञ्चपूरमिषतो बहिरुत्प्लवन्तंबिभ्रत्तमभ्ररुचिमाख्यददभ्रशक्तिंश्रीशङ्करः शुकमतार्णवपूर्णचन्द्रः ॥३५॥सुमन्तुपैलप्रथमा मुनीन्द्रा महानुभावा ननु यस्य शिष्याः ।तृणाल्लघीयानपि तत्र कोऽहं तथाऽपि कारुण्यमदर्शि दीने ॥३६॥सोऽहं समस्तार्थविवेचकस्य कृत्वा भवत्सूत्रसहस्ररश्मेः ।भाष्यप्रदीपेन महर्षिमान्य नीराजनं धृष्टतया लज्जे ॥३७॥अकारि यत्साहसमात्मबुद्ध्या भवत्प्रशिष्यव्यपदेशभाजा ।विचार्य तत्सूक्तिदुरुक्तिजालमर्हः समीकर्तुमिदं कृपालुः ॥३८॥इत्थं निगद्योपरतस्य हस्ताद्धस्तद्वयेनाऽऽदरतः स भाष्यम् ।आदाय सर्वत्र निरैक्षतासौ प्रसादगाम्भीर्यगुणाभिरामम् ॥३९॥सूत्रानुकारिमृदुवाक्यनिवेदितार्थं स्वीयैः पदैः सह निराकृतपूर्वपक्षम् ।सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं दृष्ट्वाऽभिनन्द्य परितोषवशादवोचत् ॥४०॥न साहसं तात भवानकार्षीद्यत्सूत्रभाष्यं गुरुणा विनीतः ।विचार्यतां सूत्रदुरुक्तमत्रेत्येतन्महत्साहसमित्यवैमि ॥४१॥मीमांसकानामपि मुख्यभूतो वेत्थाखिलव्याकरणानि विद्वन् ।विनिःसरेत्ते वदनाद्यतीन्दो गोविन्दशिष्यस्य कथं दुरुक्तम् ॥४२॥न प्राकृतस्त्वं सकलार्थदर्शी महानुभावः पुरुषोऽसि कश्चित् ।यो ब्रह्मचर्याद्विषयान्निवार्य पर्यव्रजः सूर्य इवान्धकारान् ॥४३॥बह्वर्थगर्भाणि लघूनि यानि निगूढभावानि च मत्कृतानि ।त्वामेवमित्थं विरहय्य नास्ति यस्तानि सम्यग्विवरीतुमीष्टे ॥४४॥निसर्गदुर्ज्ञानतमानि को वा सूत्राण्यलं वेदितुमर्थतः सन् ।क्लेशस्तु तावान् विवरीतुरेषां यावान् मणेतुर्विबुधा वदन्ति ॥४५॥भावं मदीयमवबुध्य यथावदेवंभाष्यं प्रणेतुमनलं भगवानपीशः ।साङ्ख्यादिनाऽन्यथयितं श्रुतिमूर्धवर्मो-द्धर्तुं कथं परशिवांशमृते प्रभुः स्यात् ॥४६॥रोषानुषङ्गकलयाऽपि सुदूरमुक्तोधत्सेऽधिमानसमहो सकलाः कलाश्च ।सर्वात्मना गिरिजयोपहितस्वरूपःशक्यो न वर्णयितुमद्भुतशङ्करस्त्वम् ॥४७॥व्याख्याप्यसङ्ख्यैः कविभिः पुरैतद्वयाख्यास्यते कैश्चिदितः परं च ।भवानिवास्मद्धृदयं किमेते सर्वज्ञ विज्ञातुमलं निगूढम् ॥४८॥व्याख्याहि भूयो निगमान्तविद्यां विभेदवादान् विदुषो विजित्य ।ग्रन्थान् भुवि ख्यापय सानुबन्धानहं गमिष्यामि यथाभिलाषम् ॥४९॥इत्युक्तवन्तं तमसाववोचत् कृतानि भाष्याण्यपि पाठितानि ।ध्वस्तानि सम्यक्कुमतानि धैर्यादितः परं किं करणीयमस्ति ॥५०॥मुहूर्तमात्रं मणिकर्णिकायां विधेहि सद्वत्सल सन्निधानम् ।चिराद्यतेऽहं परमायुषोऽन्ते त्यजामि यावद्वपुरद्य हेयम् ॥५१॥इतीदमाकर्ण्य वचो विचिन्त्य स शङ्करं माह कुरुष्व मैवम् ।अनिर्जिताः सन्ति वसुन्धरायां त्वया बुधाः केचिदुदारविद्याः ॥५२॥जयाय तेषां कति हायनानि वस्तव्यमेव स्थिरधीस्त्वयाऽपि ।नो चेन्मुमुक्षा भुवि दुर्लभा स्यात् स्थितिर्यथा मातृधुतस्य बाल्ये ॥५३॥प्रसन्नगम्भीरभवत्प्रणीतप्रबन्धसन्दर्भभवः प्रहर्षः ।प्रोत्साहत्यात्मविदामृषीणां वरेण्य विश्राणयितुं वरं ते ॥५४॥अष्टौ वयांसि विधिना तत्र वत्स दत्ता-न्यन्यानि चाष्ट भवता सुधियाऽऽर्जितानि ।भूयोऽपि षोडश भवन्तु भवाज्ञया तेभूयाच्च भाष्यमिदमारविचन्द्रतारम् ॥५५॥त्वमायुषाऽनेन विरोधिवादिगर्वाङ्कुरोन्मूलनजागरूकैः ।वाक्यैः कुरुष्व्ज्झितभेदबुद्धीनद्वैतविद्यापरिपन्थिनोऽन्यान् ॥५६॥इतीरयन्तं प्रति वाचमूचे स शङ्करः पावितसर्वलोकः ।त्वत्सूत्रसम्बन्धवशान्मदीयं भाष्यं प्रचारं भुवि यातु विद्वन् ॥५७॥इतीरयित्वा चरणौ ववन्दे यतिर्मुनेः सर्वविदो महात्मा ।प्रदाय सम्भाव्य वरं मुनीशो द्वैपायनः सोऽन्तरधाद्यतात्मा ॥५८॥इत्थं निगद्य ऋषिवृष्णि तिरोहितेऽस्मिन्नन्तर्विवेक निधिरप्यथ विव्यथे सः ।हृत्तापहारिनिरुपाधिकृपारसानां तत्तादृशां कथमह् विरहो विषह्यः ॥५९॥तत्पादपद्मे निजचित्तपद्मे पश्यन् कथञ्चिद्विरहं विषह्य ।यतिक्षितीशोऽपि गुरोर्नियोगान्मनो दधे दिग्विजये मनीषी ॥६०॥भाष्यस्य वार्तिकमथैष कुमारिलेन भट्टेन कारयितुमादरवान् मुनीन्द्रः ।वन्ध्यायमानदरविन्ध्यमहीधरेण वाचंयमेन चरितां हरितं प्रतस्थे ॥६१॥ततः स वेदान्तरहस्यवेत्ता भेत्ताऽमतानां तरसा मतानाम् ।प्रयागमागात्मथमं जिगीषुः कुमारिलं साधितकर्मजालम् ॥६२॥आमज्जतां किल तनुमसितां सितां च कर्तुं कलिन्दसुतया कलितानुषङ्गाम् ।अह्नाय जह्नुतनयामथ निह्नुताघां मध्ये प्रयागमगमन्मुनिरर्थमार्गम् ॥६३॥गङ्गाप्रवाहैरूपरुद्धवेगा कलिन्दकन्या स्तिमितप्रवाहा ।अपूर्वसख्यागतलज्जयेव यत्राधिकं भाति विचित्रपाथाः ॥६४॥अन्तेवसद्भिरमलच्छविसम्पदायमध्येतुमाश्रितजलां कुहचिन्मरालैः ।चक्रद्वयेन रजनीसहवाससौख्यसंशीलनाथ किल संवलितां परत्र ॥६५॥यत्राप्लुता दिव्यशरीरभाज आचन्द्रतारं दिवि भोगजातम् ।सम्भुञ्जते व्याधिकथानभिज्ञाः प्राहेममर्थं श्रुतिरेव साक्षात् ॥६६॥अज्ञातसम्भवतिरोधिकथाऽपि वाणी यस्याः सितासिततयैव गृणाति रूपम् ।भागीरथीं यमुनया परिचर्यमाणामेतां विगाह्य मुदितो मुनिरित्यभाणीत् ॥६७॥सिद्धापगे पुरविरोधिजटोपरोधक्रुद्धा कुतः शतमदःसदृशान् विधत्से ।बद्धा न किं नु भवितासि जटाभिरेषामद्धा जडप्रकृतयो न विदन्ति भावि ॥६८॥सन्मार्गवर्तनपराऽपि सुरापगे त्वमस्थीनि नित्यमशुचीनि किमादसि ।आ ज्ञातमम्ब हृदयं तव सज्जनानां प्रायः प्रसाधनकृते कृतमज्जनानाम् ॥६९॥स्वापानुषङ्गजडताभरिताञ्जनौघान् स्वापानुषङ्गजडताविधुरान्विधत्से ।दूरीभवद्विषयरागहृदोऽपि तूर्णं धूर्तावतंसंयसि देवि क एष मार्गः ॥७०॥इति स्तुवंस्तापसराट् त्रिवेणीं शाट्या समाच्छाद्य कटीं कृपीटे ।दोर्दण्डयुग्मोद्धृतवेणुदण्डोऽघमर्षणस्नानमना बभूव ॥७१॥सस्त्रौ प्रयागे सह शिष्यसन्धैः स्वयं कृतार्थो जनसङ्ग्रहार्थी ।अस्मारि माताऽपि च सा पुपोष दधार या दुःखमसोढ भूरि ॥७२॥अनुष्ठितिं द्रागवसाय्य वातैः कल्हारशीतैरुपसेव्यमानः ।तीरे विशश्राम तमालमालिन्यत्रान्तरेश्रूयत लोकवार्ता ॥७३॥गिरेरवप्लुत्य गतिः सतां यः प्रामाण्यमाम्नाय गिरामवादीत् ।यस्य प्रसादात्त्रिदिवौकसोऽपि प्रपेदिरे प्राक्तनयज्ञभागान् ॥७४॥सोऽयं गुरोरुन्मथनप्रसक्तं महत्तरं दोषमपाकरिष्णुः ।अशेषवेदार्थविदास्तिकत्वात्तुषानलं प्राविशदेष धीरः ॥७५॥अयं ह्यधीताखिलवेदमन्त्रः कूलङ्कषालोडितमर्वतन्त्रः ।नितान्तदूरीकृतदुष्टतन्त्रस्त्रैलोक्यविभ्रामितकीर्तियन्त्रः ॥७६॥श्रुत्वेति तां सत्वरमेष गच्छन् व्यालोकयत्तं तुषराशिसंस्थम् ।प्रभाकराध्यैः प्रथितप्रभावैरुपस्थितं साश्रुमुखैर्विनेयैः ॥७७॥धूमायमानेन तुषानलेन सण्ढह्यमानेऽपि वपुष्यशेषे ।सादृश्यमानेन मुखेन वाष्पपरीतपद्मश्रियमादधानम् ॥७८॥दुरे विधूताघमपाङ्गभङ्ग्या तं देशिकं दृष्टिपथावतीर्णम् ।ददर्श भट्टो ज्वलदग्निकल्पो जुगोप यो वेदपथं जितारिः ॥७९॥अष्टपूर्वं श्रुतपूर्ववृत्तं दृष्ट्वाऽतिमोदं स जगाम भट्टः ।अचीकरच्छिष्यगणैः सपर्यामुपाददे तामपि देशिकेन्द्रः ॥८०॥उपात्तभिक्षः परितुष्टचित्तः प्रदर्शयामास स भाष्यमस्मै ।सर्वो निबन्धो ह्यमलोऽपि लोके शिष्टेक्षितः सञ्चरणं प्रयाति ॥८१॥दृष्ट्वा भाष्यं हृष्टचेताः कुमारः प्रोचे वाचं शङ्करं देशिकेन्द्रम् ।लोके त्वल्पो मत्सरग्रामशाली सर्वज्ञानो नाल्पभावस्य पात्रम् ॥८२॥अष्टौ सहस्राणि विभान्ति विद्वन् सद्वार्तिकानां प्रथमेऽत्र भाष्ये ।अहं यदि स्यामगृहीतदीक्षो ध्रुवं विधास्ये सुनिबन्धमस्य ॥८३॥भवादृशां दर्शनमेव लोके विशेषतोऽस्मिन् सपये दुरापम् ।पुराऽऽर्जितैः पुण्यचयैः कथञ्चित्त्वमद्य मे दृष्टिपथं गतोऽभूः ॥८४॥असारसंसारपयोब्धिमध्ये निमज्जतां सद्भिरुदारवृत्तैः ।भवादृशैः सङ्गतिरेव साध्या नान्यस्तदुत्तारविधावुपायः ॥८५॥चिरं दिदृक्षे भगवन्तमित्थं त्वमद्य मे दृष्टिपथं गतोऽभूः ।नह्यत्र संसारपथे नराणां स्वेच्छाविधेयोऽभिमतेन योगः ॥८६॥युनक्ति कालः क्वचिदिष्टवस्तुना क्वचित्त्वरिष्टेन च नीचवस्तुना ।तथैव संयोज्य वियोजयत्यसौ सुखासुखे कालकृते प्रवेद्म्यतः ॥८७॥कृतो निबन्धो निरणायि पन्था निरासि नैयायिकयुक्तिजालम् ।तथाऽन्वभूवं विषयोत्थजातं न कालमेनं परिहर्तुमीशे ॥८८॥निरास्थमीशं श्रुतिलोकसिद्धं श्रुतेः स्वतोमात्वमुदाहरिष्यन् ।न निह्नुवे येन विना प्रपञ्चः सौख्याय कल्पेत न जातु विद्वन् ॥८९॥तथागताक्रान्तमभूदशेषं स वैदिकोऽध्वा विरलीबभूव ।परीक्ष्य तेषां विजयाय मार्गं प्रावर्तिषि त्रातुमनाः पुराणम् ॥९०॥सशिष्यसङघाः प्रविशन्ति राज्ञां गेहं तदादि स्ववशे विधातुम् ।राजा मदीयोजिरमस्मदीयं तदाद्रियध्वं न तु वेदमार्गम् ॥९१॥वेदोऽप्रमाणं बहुमानबाधात् परस्परव्याहतवाचकत्वात् ।एवं वदन्तो विचरन्ति लोके न काचिदेषां प्रतिपत्तिरासीत् ॥९२॥अवादिषं वेदविघातदक्षैस्तन्नाशकं जेतुमबुध्यमानः ।तदीयसिद्धान्तरहस्यवार्धीर्न्निषेध्यबोधाद्धि निषेध्यबाधः ॥९३॥तदा तदीयं शरणं प्रपन्नः सिद्धान्तमश्रौषमनुद्धतात्मा ।अदूदुषद्वैदिकमेव मार्गं तथागतो जातु कुशाग्रबुद्धिः ॥९४॥तदाऽपतन्मे सहसाऽश्रुबिन्दुस्तच्चाविदुः पार्श्वनिवासिनोऽन्ये ।तदा प्रभृत्येव विवेश शङ्का मय्याप्तभावं परिहृत्य तेषाम् ॥९५॥विपक्षपाठी बलवान् द्विजातिः प्रत्याददद्दर्शनमस्मदीयम् ।उच्चाटनीयः कथमप्युपायैर्न्नैतादृशः स्थापयितुं हि योग्यः ॥९६॥सम्मन्त्र्य चेत्थं कृतनिश्चयास्ते ये चापरेऽहिंसनवादशीलाः ।न्यपातयन्नुच्चतरात् प्रमत्तं मामग्रसौधाद्विनिपातभीरुम् ॥९७॥पतन् पतन् सौधतलान्यरोहं यदि प्रमाणं श्रुतयो भवन्ति ।जीवेयमस्मिन् पतितोऽसमस्थले मज्जीवने तच्छ्रुतिमानता गतिः ॥९८॥यदीह सन्देहपदप्रयोगाद्व्याजेन शास्त्रश्रवणाच्च हेतोः ।ममोच्चदेशात्पततो व्यनङ्क्षीत्तदेकचक्षुर्विधिकल्पना सा ॥९९॥एकाक्षरस्यापि गुरुः प्रदाता शास्त्रोपदेष्टा किमु भाषणीयम् ।अहं हि सर्वज्ञगुरोरधीत्य प्रत्यादिशे तेन गुरोर्महागः ॥१००॥तदेवमित्थं सुगतादधीत्य प्राघातयं तत्कुलमेव पूर्वम् ।जैमिन्युपज्ञेऽभिनिविष्टचेताः शास्त्रे निरास्थं परमेश्वरं च ॥१०१॥दोषद्वयस्यास्य चिकीर्षुरर्हन् यथोदितां निष्कृतिमाश्रयाशम् ।प्राविक्षमेषा पुनरुक्तभूता जाता भवत्पादनिरीक्षणेन ॥१०२॥भाष्यं प्रणीतं भवतेति योगिन्नाकर्ण्य तत्रापि विधाय वृत्तिम् ।यशोऽधिगच्छेयमिति स्म वाञ्च्छा स्थिता पुरा सम्प्रति किं तदुक्त्या ॥१०३॥जाने भवन्तमहमार्यजनार्थजातमद्वैतरक्षणकृते विहितावतारम् ।प्रागेव चेन्नयनवर्त्म कृतार्थयेथाः पापक्षयाय न तदेदृशमाचरिष्यम् ॥१०४॥प्रायोऽधुना तदुभयप्रभवाघशान्त्यैप्राविक्षमार्य तुषपावकमात्तदीक्षः ।भाग्यं न मेऽजनि हि शाबरभाष्यवत्व-द्भाष्येऽपि किञ्चन विलिख्य यशोऽधिगन्तुम् ॥१०५॥इत्यूचिवांसमथ भट्टकुमारिलं तमीषद्विकस्वरमुखाम्बुजमाह मौनी ।श्रुत्यर्थकर्मविमुखान् सुगतान्निहन्तुं जातं गुहं भुवि भवन्तमहन्तु जाने ॥१०६॥सम्भावनाऽपि भवतो न हि पातकस्य सत्यं व्रतं चरसि सज्जनशिक्षणाय ।उज्जीवयामि करकाम्बुकणोक्षणेन भाष्येऽपि मे रचय वार्तिकमङ्गभव्यम् ॥१०७॥इत्यूचिवांसं विबुधावतंसं स धर्मविद् ब्रह्मविदां वरेण्यम् ।विद्याधनः शान्तिधनाग्रगण्यं समश्रयं वाचमुवाच भूयः ॥१०८॥नार्हामि शुद्धमपि लोकविरुद्धकृत्यं कर्तुं मयीड्य महितोक्तिरियं तवार्हा ।आजानतोऽतिकुटिलेऽपि जने महान्तस्त्वारोपयन्ति हि गुणं धनुषीव शूराः ॥१०९॥सञ्जीवनाय चिरकालमृतस्य च त्वं शक्तोऽसि शङ्कर दयोर्मिलदृष्टिपातैः ।आरब्धमेतदधुना व्रतमागमोक्तं मुञ्चन् सतां न भविताऽस्मि बुधाविनिन्द्यः ॥११०॥जाने तवाहं भगवन् प्रभावं संहृत्य भूतानि पुनर्यथावत् ।स्रष्टुं समर्थोऽसि तथाविधो मामुज्जीवयेश्चेदिह किं विचित्रम् ॥१११॥नाभ्युत्सहे किन्तु यतिक्षितीन्द्र सङ्कल्पितं हातुमिदं व्रताग्र्यम् ।तत्तारकं देशिकवर्य मह्यमादिश्य तद्ब्रह्म कृतार्थयेथाः ॥११२॥अयं च पन्था यदि ते प्रकाश्यः सुधीश्वरो मण्डनमिश्रशर्मा ।दिगन्तविश्रान्तयशा विजेयो यस्मिञ्जिते सर्वमिदं जितं स्यात् ॥११३॥सदा वदन् योगपदं च साम्प्रतं स विश्वरूपः प्रथितो महीतले ।महागृही वैदिककर्मतत्परः प्रवृत्तिशास्त्रे निरतः सुकर्मठः ॥११४॥निवृत्तिशास्त्रे नकृतादरः स्वयं केनाप्युपायेन वशं स नीयताम् ।वशं गते तत्र भवेन्मनोरथस्तदन्तिकं गच्छतु मा चिरं भवान् ॥११५॥उंवेक इत्यभिहितस्य हि तस्य लोकैरुंवेति बान्धवजनैरभिधीयमाना ।हेतोः कुतश्चिदिह वावसुरुषाऽभिशप्ता दुर्वाससाऽजनि वधूर्दयभारतीति ॥११६॥सर्वासु शास्त्रसरणीषु स विश्वरूपो मत्तोऽधिकः प्रियतमश्च मदाश्रवेषु ।तत्प्रेयसीं शमधनेन्द्र विधाय साक्ष्ये वादे विजित्य तमिमं वशगं विधेहि ॥११७॥तेनैव तावककृतिष्वपि वार्तिकानि कर्मन्दिवर्यतम कारय मा विलम्बम् ।त्वं विश्वनाथ इव मे समये समागास्तत्तारकं समुपदिश्य कृतार्थयेथः ॥११८॥निर्व्याजकारुण्य मुहूर्तमात्रमत्र त्वया भाव्यमहं तु यावत् ।योगीन्द्रहृत्पङ्कजभाग्यमेतत् त्यजाम्यसून् रूपमवेक्षमाणः ॥११९॥इत्यूचिवांसमिममिद्धसुखप्रकाशं ब्रह्मोपदिश्य बहिरन्तरपास्तमोहम् ।तन्वन्दयानिघिरसौ तरसाऽभ्रमार्गाच्छ्रीमण्डनस्य निलयं स इयेष गन्तुम् ॥१२०॥अथ गिरमुपसंहृत्यादराद्भट्टपादः शमधनपतिनासौ बोधिताद्वैततत्वः ।प्रशमितममतः संस्तत्प्रसादेन सद्यो विदलदखिलबन्धो वैष्णवं धाम पेदे ॥१२१॥इति श्रीमाधवीये तद्व्याससन्दर्शचित्रगःसङ्क्षेपशङ्करजये सर्गोऽसौ सप्तमोऽभवत् ॥७॥आदितः श्लोकाः ७८४ N/A References : N/A Last Updated : January 23, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP