शङ्करदिग्विजयम् - अथ नवमः सर्गः

शङ्करदिग्विजयम्


अथ संयमिक्षितिपतेर्वचनैर्निगमार्थनिर्णयकरैः सनयेः ।
शमिताग्रहोऽपि पुनरप्यवदत् कृतसंशयः सपदि कर्मजडः ॥१॥

यतिराज सम्प्रति ममाभिनवान्न विषादितोऽस्म्यपजयादपि तु ।
अपि जैमिनीयवचनान्यहहोन्मथितानि हीति भृशमस्मि कृशः ॥२॥

स हि वेत्त्यनागतमतीतमपि प्रियकृत्समस्तजगतोऽधिकृतः ।
निगमप्रवर्तनविधौ स कथं तपसां निधिर्वितथसूत्रपदः ॥३॥

इति सन्दिहानमवदत्तमसौ न हि जैमिनावपनयोऽस्ति मनाक् ।
प्रमिमीमहे न वयमेव मुनेर्हृदयं यथावदनभिज्ञतया ॥४॥

यदि विद्यते कविजनाविदितं हृदयं मुनेस्तदिह वर्णय भोः ।
यदि युक्तमत्र भवता कथितं हृदि कुर्महे दलदहङ्कृतयः ॥५॥

अभिसन्धिमानपि परे विषयप्रसन्मतीननुजिघृक्षुरसौ ।
तदवाप्तिसाधनतया सकलं सुकृतं न्यरूपयदिति स्म परम् ॥६॥

वचनं तमेतमिति धर्मचयं विदधाति बोधजनिहेतुतया ।
तदपेक्षयैव स च मोक्षपरो निरधारयन्न परथेति वयम् ॥७॥

श्रुतयः क्रियार्थकतया सफला अतदर्थकानि तु वचांसि वृथा ।
इति सूत्रयन्ननु कथं मुनिराडपि सिद्धवस्तुपरतां मनुते ॥८॥

श्रुतिराशिरद्वयपरोऽपि परम्परयाऽऽत्मबोधफलकर्मणि च ।
प्रसरत्कटाक्ष इति कार्यपरत्वमसूचि तत्प्रकरणस्थगिराम् ॥९॥

ननु सच्चिदात्मपरताऽभिमता यदि कृत्स्नवेदनिचयस्य मुनेः ।
फलदातृतामपुरुषस्य वदन् स कथं निराह परमेशमपि ॥१०॥

ननु कर्तृपूर्वकमिदं जगदित्यनुमानमागमवचांसि विना ।
परमेश्वरं प्रथयति श्रुतयस्त्वनुवादमात्रमिति काणभुजाः ॥११॥

न कथञ्चिदौपनिषदं पुरुषं मनुते बृहन्तमिति वेदवचः ।
कथयत्यवेदविदगोचरतां गमयेत् कथं तमनुमानमिदम् ॥१२॥

इति भावमात्मनि निधाय मुनिः स निराकरोन्निशितयुक्तिशतैः ।
अनुमानमीश्वरपरं जगतः प्रभवं लयं फलमपीश्वरतः ॥१३॥

तदिहास्मदुक्तविधया निषदा न विरुद्धमण्वपि मुनेर्वचसि ।
इति गूढभावमनवेक्ष्य बुधास्तमनीशवाद्ययमिति ब्रुवते ॥१४॥

किमु तावतैव स निरीश्वरवाद्यभवत् परात्मविदुषां प्रवरः ।
न निशाटनाहिततमः कचिप्यदहनि प्रभां मलिनयेत्तरणेः ॥१५॥

इति जैमिनीयवचसां हृदयं कथितं निशम्य यतिकेसरिणा ।
मनसा ननन्द कविराण्णितरां सह शारदाश्च सदसस्पतयः ॥१६॥

विदिताशयोऽपि परिवर्तिमनाग्विशयः स जैमिनिमवाप हृदा ।
अवगन्तुमस्य वचसाऽपि पुनः स च संस्मृतः सविधमाप कवेः ॥१७॥

अवदच्च श‍ृण्विति स भाष्यकृति प्रजहाहि संशयमिमं सुमते ।
यदवोचदेष मम सूत्रततेर्हृदयं तदेव मम नापरथा ॥१८॥

न ममैव वेद हृदयं यमिराडपि तु श्रुतेः सकलशास्त्रततेः ।
यदभूद्भविष्यति भवत्तदपि ह्ययमेव वेद न तथा त्वितरः ॥१९॥

गुरुणा चिदेकरसतत्परता निरणायि हि श्रुतिशिरोवचसाम् ।
कथमेकसूत्रमपि तद्विमतं कथयाम्यहं तदुपसादितधीः ॥२०॥

अलमाकलय्य विशयं सुयशः श‍ृणु मे रहस्यमिममेव परम् ।
त्वमवेहि संसृतिनिमग्नजनोत्तरणे गृहीतत्रपुषं पुरुषम् ॥२१॥

आधे सत्वमुनिः सतां वितरति ज्ञानं द्वितीये युगे
दत्तो द्वापरनामके तु सुमतिर्व्यासः कलौ शङ्करः ।
इत्येवं स्फुटमीरतोऽस्य महिमा शैवे पुराणे यत-
स्तस्य त्वं सुमते मते त्ववतरेः संसारवार्धिं तरेः ॥२२॥

इति बोधितद्विजवरोऽन्तरधान्मनसोपगुह्य यमिनामृषभम् ।
स च यायजूकपरिषत्प्रमुखः प्रणिपत्य शङ्करमवोचदिदम् ॥२३॥

विदितोऽस्ति सम्प्रति भवाञ्जगतः प्रकृतिर्निरस्तसमतातिशयः
अवबोधमात्रवपुरप्यबुधोद्धरणाय केवलमुपात्ततनुः ॥२४॥

यदेकमुदितं पदं यतिवर त्रयीमस्त कै-
स्तदस्य परिपालकस्त्वमसि तत्त्वमस्यायुधः ।
परं गलितसौगतप्रलपितान्धकूपान्तरे
पतत्कथमिवान्यथा प्रलयमद्य नापत्स्यते ॥२५॥

प्रबुद्धोऽहं स्वप्नादिति कृतमतिः स्वप्नमपरं
यथा मूढः स्वप्ने कलयति तथा मोहवशगाः ।
विमुक्तिं मन्यन्ते कतिचिदिह लोकान्तरगतिं
हसन्त्येतान् दासास्तव गलितमायाः परगुरोः ॥२६॥

मुहुर्धिग्धिग्भेदिप्रलपितविमुक्तिं यदुदयेऽप्य-
सारः संसारो विरमति न कर्तृत्वमुखरः ।
भृशं विद्वन्मोदे स्थिरतमविमुक्तिं त्वदुदितां
भवातीता येयं निरवधिचिदानन्दलहरी ॥२७॥

अविद्याराक्षस्या गिलितमखिलेशं परगुरो
पिचण्डं भित्त्वास्याः सरभसममुष्मादुदहरः ।
वृतां पश्यन् रक्षोयुवतिभिरमुष्य प्रियतमां
हनूमांल्लोकेड्यस्तव तु कियती स्यान्महितता ॥२८॥

जगदार्तिहन्ननवगम्य पुरा महिमानमीदृशमचिन्त्यमहम् ।
तव यत्पुरोऽब्रवमसाम्प्रतमप्यखिलं क्षमस्व करुणाजलधे ॥२९॥

कपिलाक्षपादकणभुक्प्रमुखा अपि मोहमीयुरमितप्रतिभाः ।
श्रुतिभावनिर्णयविधावितरः प्रभवेत्कथं परशिवांशमृते ॥३०॥

समेतैरेतैः किं कपिलकणभुग्गौतमवच-
स्तमस्तोमैश्चेतोमलिनिमसमारम्भणचणैः ।
सुधाधारोद्गारप्रचुरभगवत्पादवदन-
प्ररोहद्वयाहारामृतकिरणपुञ्जे विजयिनि ॥३१॥

भिन्दानैरदेवमेतैरभिनवयवनैः सद्गवीभञ्जनोत्कै-
र्व्याप्ता सर्वेयमुर्वी क्व जगति भजतां कैव मुक्तिप्रसक्तिः ।
यद्वा सद्वादिराजा विजितकलिमला विष्णुतत्त्वाचुरक्ता
उज्जृम्भन्ते समन्तादृशि दिदि कृतिनः किं तया चिन्तया मे ॥३२॥

कथमल्पबुद्धिविवृतिप्रचयप्रचलोरगक्षतिहताः श्रुतयः ।
न यदि त्वदुक्त्यमृतसेकधृता विहरेयुरात्मविधृतानुशयाः ॥३३॥

भवदुक्तसूक्त्यमृतथानुकरा न चरेयुरार्य यदि कः शमयेत् ।
अतितीव्रदुःसहभवोष्णकरप्रचुरातपप्रभवतापमिमम् ॥३४॥

बत कर्मयन्त्रमधिरुह्य तपःश्रुतगेहदारसुतभृत्यधनैः ।
अतिरूढमानभरितः पतितो भवतोद्धृतोऽस्मि भवकूपबिलात् ॥३५॥

अहमचरं बहुतपोऽसुकरं ननु पूर्वजन्मसु न चेदधुना ।
जगदीश्वरेण करुणानिधिना भवता कथा मम कथं घटते ॥३६॥

शान्तिप्राक्सुकृताङकुरं दमसमुल्लासोल्लसत्पल्लवं
वैराग्यद्रुमकोरकं सहनतावल्लीप्रसूनोत्करम् ।
ऐकाग्रीसुमनोमरन्दविसृतिं श्रद्धासमुद्यत्फलं
विन्देयं सुगुरोर्गिरां परिचयं पुण्यैरगण्यैरहम् ॥३७॥

त्रिदिवौकसामपि पुमर्थकरीमिह संसरज्जनविमुक्तिकरीम् ।
करुणोर्मिलां तव कटाक्षझरीमवगाहतेऽत्र खलु धन्यतमः ॥३८॥

केचिच्चञ्चललोचनाकुचतटीचेलाञ्चलोच्चालन-
स्पर्शद्राक्परिरम्भसम्भ्रमकलालीलासु लोलाशयाः ।
सन्त्वेते कृतिनस्तु निस्तुलयशः कोशादयः श्रीगुरु-
व्याहारक्षरितामृताब्धिलहरीदोलासु खेलन्त्यमी ॥३९॥

चिन्तासन्तानतन्तुग्रथितनवभवत्सुक्तिमुक्ताफलौघै-
रुद्यद्वैशद्यसद्यःपरिहृततिमिरैर्हारिणो हारिणोऽमी ।
सन्तः सन्तोषवन्तो यतिवर किमतो मण्डनं पण्डितानां
विद्या हृद्या स्वयं तान् शतमखमुखरान् वारयन्ती वृणीते ॥४०॥

सन्तः सन्तोषपोषं दधतु तव कृताम्नायशोभैर्यशोभिः
सौरालोकैरुलूका इव निखिलखला मोहमाहो वहन्तु ।
धीरश्रीशङ्करार्यप्रणतिपरिणतिभ्रश्यदन्तर्दुरन्त -
ध्वान्ताः सन्तो वयं तु प्रचुरतरनिजानन्दसिन्धौ निमग्नाः ॥४१॥

चिन्तासन्तानशाखी पदसरसिजयोर्वन्दनं नन्दनं ते
सङ्कल्पः कल्पवल्ली मनसि गुणनुतेर्वर्णना स्वर्णदीयम् ।
स्वर्गो दृग्गोचरस्त्वत्पदभजनमतः संविचार्येदमार्या
मन्यन्ते स्वर्गमन्यं तृणवदतिलघुं शङ्करार्य त्वदीयाः ॥४२॥

तदहं विसृज्य सुतदारगृहं द्रविणानि कर्म च गृहे विहितम् ।
शरणं वृणोमि भगवच्चरणावनुशाधि किङ्करममुं कृपया ॥४३॥

इति सूनृतोक्तिभिरुदीर्णगुणः सुधियाऽऽत्मवाननुजिघृक्षुरसौ ।
समुदैक्षतास्य सहधर्मचरीं विदिताशया मुनिमवोचत सा ॥४४॥

यतिपुण्डरीक तव वेद्मि मनो ननु पूर्वमेव विदितं च मया ।
इह भावि तापसमुखादखिलं तदुदीर्यते श‍ृणु ससभ्यजनः ॥४५॥

मयि जातु मातुरुपकण्ठजुषि प्रभया तडित्प्रतिभटोच्चजटः ।
सितभूतिरूषितसमस्ततनुः श्रमणोऽभ्ययादपरसूर्य इव ॥४६॥

परिगृह्य पाद्यमुखयाऽर्हणया रचिताञ्जलिर्नमितपूर्वतनुः
जननी तदाऽऽत्तवरिवस्यममुं मुनिमन्वयुङत मम भाव्यखिलम् ॥४७॥

भगवन्न वेद्मि दुहिर्तुमम भाव्यखिलं च वेत्ति तपसा हि भवान् ।
प्रणते जने हि सुधियः कथयन्त्यपि गोप्यमार्यसदृशाः कृपया ॥४८॥

कियदायुरवाप्स्यति सुतान् कति वा दयितं कथंविधमुपैष्यति च ।
अथ च क्रतूनपि करिष्यति मे दुहिता प्रभूतधनधान्यवती ॥४९॥

इति पृष्टभाविचरितः प्रसुवा क्षणमात्रमीलितविलोचनकः ।
सकलं क्रमेण कथयन्निदमप्यपरं जगाद सुरहस्यमपि ॥५०॥

निगमाध्वनि प्रबलबाह्यमतैरमितैरधिक्षिति खिले द्रुहिणः ।
पुनरुद्दिधीर्षुरवतीर्य खलु प्रतिभाति मण्डनकवीन्द्रमिषात् ॥५१॥

तमवाप्य रुद्रमिव साऽद्रिसुता दुहिता तवाच्युतमिवाब्धिसुता ।
अनुरूपमाहृतसमस्तमखा ससुता भविष्यति चिरं मुदिता ॥५२॥

अथ नष्टमौपनिषदं प्रबलैः कुमतैः कृतान्तमिह साधयितुम् ।
ननु मानुषं वपुरुपेत्य शिवः समलङ्करिष्यति धरां स्वपदैः ॥५३॥

सह तेन वादमुपगम्य चिरं दुहितुः पतिस्तु यतिवेषजुषा ।
विजितस्तमेव शरणं जगतां शरणं गमिष्यति विसृष्टगृहः ॥५४॥

इति गामुदीर्य स मुनिः प्रययौ सकलं यथातथमभूच्च मम ।
भवदीयशिष्यपदमस्य कथं वितथं भविष्यति मुनेर्वचसि ॥५५॥

अपि तु त्वयाऽद्य न समग्रजितः प्रथिताग्रणीर्मम पतिर्यदहम् ।
वपुरर्धमस्य न जिता मतिमन्नपि मां विजित्य कुरु शिष्यमिमम् ॥५६॥

यदपि त्वमस्य जगतः प्रभवो ननु सर्वविच्च परमः पुरुषः ।
तदपि त्वयैव सह वादकृते हृदयं बिभर्ति मम तूत्कलिकाम् ॥५७॥

इति यायजूकसहधर्मचरीकथितं वचोर्थवगर्ह्यपदम् ।
मधुरं निशम्य मुदितः सुतरां प्रतिवक्तुमैहत यतिप्रवरः ॥५८॥

यदवादि वादकलहोत्सुकतां प्रतिपद्यते हृदयमित्यबले ।
तदसासाम्प्रतं न हि महायशसो महिलाजनेन कथयन्ति कथाम् ॥५९॥

स्वमतं प्रभेत्तुमिह यो यतते स वधूजनोऽस्तु यदि वाऽस्त्वितरः ।
यतितव्यमेव खलु तस्य जये निजपक्षरक्षणपरैर्भगवन् ॥६०॥

अत एव गार्ग्यभिधया कलहं सह याज्ञवल्क्यमुनिराडकरोत् ।
जनकस्तथा सुलभयाऽबलया किममी भवन्ति न यशोनिधयः ॥६१॥

इति युक्तिमद्गदितमाकलयन्मुदितान्तरः श्रुतिसरिज्जलधिः ।
स तया विवादमधिदेवतया वचसामियेष विदुषां सदसि ॥६२॥

अथ सा कथा प्रववृते स्म तयोरुभयोः परस्परजयोत्सुकयोः ।
मतिचातुरीरचितशब्दझरी श्रुतिविस्मयीकृतविचक्षणयोः ॥६३॥

अनयोर्विचित्रपदयुक्तिभरैर्निशमय्य सङ्कथनमाकलितम् ।
न फणीशमप्यतुलयन्न पपीं न गुरुं कविं किमपरं जगति ॥६४॥

न दिवा न निश्यपि च वादकथा विरराम नैयमिककालमृते ।
इति जल्पतोः सममनल्पधियोर्दिवसाश्च सप्त दश चात्यगमन् ॥६५॥

अथ शारदाऽकृतकवाक्प्रमुखेष्वखिलेषु शास्त्रनिचयेषु परम् ।
तमजय्यमात्मनि विचिन्त्य मुनिं पुनरप्यचिन्तयदिदं तरसा ॥६६॥

अतिबाल्य एव कृतसंन्यसनो नियमैः परैरविधुरश्च सदा ।
मदनागमेष्वकृतबुद्धिरसौ तदनेन सम्प्रति जयेयमहम् ॥६७॥

इति सम्प्रधार्य पुनरप्यमुना कथने प्रसङ्गमथ सङ्गतितः ।
यमिनं सदस्यमुमपृच्छदसौ कुसुमास्त्रशास्त्रहृदयं विदुषी ॥६८॥

कलाः कियन्त्यो वद पुष्पधन्वनः किमात्मिकाः किञ्च पदं समाश्रिताः ।
पूर्वे च पक्षे कथमन्यथा स्थितिः कथं युवत्यां कथमेव पुरुषे ॥६९॥

नेतीरितः किञ्चिदुवाच शङ्करो विचिन्तयन्नत्र चिरं विचक्षणः ।
तासामनुक्तौ भविताऽल्पवेदिता भवेत्तदुक्तौ मम धर्मसङ्क्षयः ॥७०॥

इति संविचिन्त्य स हृदाऽऽशु तदाऽनवबुद्धपुष्पशरशास्त्र इव ।
विदितागमोऽपि सुरिरक्षयिषुर्नियमं जगाद जगति व्रतिनाम् ॥७१॥

इह मासमात्रमवधिः क्रियतामनुमन्यते हि दिवसस्य गणः ।
तदनन्तरं सुदति हास्यसि भोः कुसुमास्त्रशास्त्रनिपुणत्वमपि ॥७२॥

उररीकृते सति तथेति तयाऽऽक्रमते स्म योगिमृगराड् गगनम् ।
श्रुतविग्रहः श्रुतविनेययुतो दधदभ्रचारमथ योगदृशा ॥७३॥

स ददर्श कुत्रचिदमर्त्यमिव त्रिदिवच्युतं विगतसत्त्वमपि ।
मनुजेश्वरं परिवृतं प्रलपत्प्रमदाभिरार्तिमदमात्यजनम् ॥७४॥

अथो निशाखेटवशादटव्यां मूले तरोर्मोहवशात्परासुम् ।
तं वीक्ष्य मार्गेऽमरुकं नृपालं सनन्दनं माह स संयमीन्द्रः ॥७५॥

सौन्दर्यसौभाग्यनिकेतसीमाः परःशता यस्य पयोरुहाक्ष्यः ।
स एव राजाऽमरुकाभिधानः शेते गतासुः श्रमतो धरण्याम् ॥७६॥

प्रविश्य कायं तमिमं परासोर्नृपस्य राज्येऽस्य सुतं निवेश्य ।
योगानुभावात्पुनरप्युपैतुमुत्कण्ठते मानसमस्मदीयम् ॥७७॥

अन्यादृशानामदसीयानाकुशेशयाक्षीकिलकिञ्चितानाम् ।
सर्वज्ञतानिर्वहणाय सोऽहं साक्षित्वमप्याश्रयितुं समीहे ॥७८॥

इत्यूचिवांसं यतितल्लजं तं सनन्दनः प्राह ससान्त्वमेनम् ।
सर्वज्ञ नैवाविदितं तवास्ति तथाऽपि भक्तिर्मुखरं तनोति ॥७९॥

मत्स्येन्द्रनामा हि पुरा महात्मा गोरक्षमादिश्य निजाङ्गगुप्त्यै ।
नृपस्य कस्यापि तनुं परासोः प्रविश्य तत्पत्तनमाससाद ॥८०॥

भद्रासनाध्यासिनि योगिवर्ये भद्राण्यनिद्राण्यभववन्प्रजानाम् ।
ववर्ष कालेषु बलाहकोऽपि सस्यानि चाशास्यफलान्यभूवन् ॥८१॥

विज्ञाय विज्ञाः सचिवा नृपस्य काये प्रविष्टं कमपीह दिव्यम् ।
समादिशन् राजसरोरुहाक्षीः सर्वात्मना तस्य वशीक्रियायै ॥८२॥

सङ्गीतलास्याभिनयादिकेषु संसक्तचेता ललितेषु तासाम् ।
स एष विस्मृत्य पुनः समाधिं सर्वात्मना प्राकृतवद्बभूव ॥८३॥

गोरक्ष एषोऽथ गुरोः प्रवृत्तिं विज्ञाय रक्षन् बहुधाऽस्य देहम् ।
निशान्तकान्तानटनोपदेष्टा नितान्तमस्याभवदन्तरङ्गः ॥८४॥

तत्रैकदा तत्वनिबोधनेन निवृत्तरागं निजदेशिकं सः ।
योगानुपूर्वीमुपदिश्य निन्ये यथापुरं प्राक्तनमेव देहम् ॥८५॥

हन्तेदृशोऽयं विषयानुरागः किञ्चोर्ध्वरेतोव्रतखण्डनेन ।
किं नोदयेत्किल्बिषमुल्बणं ते कृत्यं भवानेव कृतीं विवेक्तुम् ॥८६॥

व्रतमस्मदीयमतुलं क्व महत् क्व च कामशास्त्रमतिगर्ह्यमिदम् ।
तदपीष्यते भगवतैव यदि ह्यनवस्थितं जगदिहैव भवेत् ॥८७॥

अधिमेदिनि प्रथयितुं शिथिलं घृतकङ्कणस्य यतिधर्ममिमम् ।
भवतः किमस्त्य विदितं तदपि प्रणयान्मयोदितमिदं भगवन् ॥८८॥

स निशम्य पद्मचरणस्य गिरं गिरति स्म गीष्पतिसमप्रतिभः ।
अविगीतमेव भवता फणितं श‍ृणु सौम्य वच्मि परमार्थमिदम् ॥८९॥

असङ्गिनो न प्रभवन्ति कामा हरेरिवाभीरवधूसखस्य ।
वज्रोलियोगप्रतिभूः स एष वत्सावकीर्णित्वविपर्ययो नः ॥९०॥

सङ्कल्प एवाखिलकाममूलं स एव मे नास्ति समस्य विष्णोः ।
तन्मूलहानौ भवपाशनाशः कर्तुः सदा स्याद्भवदोषदृष्टेः ॥९१॥

अविचार्य यस्तु वपुराद्यहमित्यभिमन्यते जडमतिः सुदृढम् ।
तमबुद्धतत्त्वमधिकृत्य विधिप्रतिषेधशास्त्रमखिलं सफलम् ॥९२॥

कृतधीस्त्वनाश्रममवर्णमजात्यववोधमात्रमजमेकरसम् ।
स्वतयाऽवगत्य न भजेन्निवसन्निगमस्य मूर्ध्नि विधिकिङ्करताम् ॥९३॥

कलशादि मृत्प्रभवमस्ति यथा मृदमन्तरा न जगदेवमिदम् ।
परमात्मजन्यमपि तेन विना समयत्रयेऽपि न समस्ति खलु ॥९४॥

कथमज्यते जगदशेषमिदं कलयन्मृषेति हृदि कर्मफलैः ।
न फलाय हि स्वपनकालकृतं सुकृतादि जात्वनृतबुद्धिहतम् ॥९५॥

तदयं करोतु हयमेधशतान्यमितानि विप्रहननान्यथवा ।
परमार्थविन्न सुकृतैर्दुरितैरपि लिप्यतेऽस्तमितकर्तृतया ॥९६॥

अवधीत्त्रिशीर्षमददाच्च यतीन् वृकमण्डलाय कुपितः शतशः ।
बत लोमहानिरपि तेन कृता न शतक्रतोरिति हि बह्वृचगीः ॥९७॥

बहुदक्षिणैरयजत क्रतुभिर्विबुधानतर्पयदसङ्ख्यधनैः ।
जनकस्तथाऽप्यभयमाप परं न तु देहयोगमिति काण्ववचः ॥९८॥

न विहीयतेऽहिरिपुवदुरितैर्न च वर्धते जनकवत्सुकृतैः ।
न स तापमेत्यकरवं दुरितं किमहं न साध्वकरवं त्विति च ॥९९॥

तदनङ्गशास्त्रपरिशीलनमप्यमुनैव सौम्य करणेन कृतम् ।
न हि दोषकृत्तदपि शिष्टसरण्यवनार्थमन्यवपुरेत्य यते ॥१००॥

इति सत्कथः स कथनीययशा भवभीतिभञ्जनकरीः कययन् ।
सुदुरासदं चरणचारिजनैर्गिरिश‍ृङ्गमेत्य पुनरेव जगौ ॥१०१॥

अधिसानु पश्यत विभाति गुहा पुरतःशिला समतला विपुला ।
सरसी च तत्परिसरेऽच्छजला फलभारनम्रतरुरभ्यतटा ॥१०२॥

परिपालयतामिह वसद्भिरिदं वपुरप्रमादमनवद्यगुणाः ।
अहमास्थितस्तदुचितं करणं कलयामि यावदसमेषुकलाम् ॥१०३॥

इति शिष्यवर्गमनुशास्य यतिमवरो विसृष्टकरणोऽधिगुहम् ।
महिपस्य वर्ष्म गुरुयोगवलोऽविशदातिवाहिकशरीरयुतः ॥१०४॥

अङ्गुष्टमारभ्य समीरणं नयन् करन्ध्रमार्गाद्बहिरेत्य योगवित् ।
करन्ध्रमार्गेण शनैः प्रविष्टवान् मृतस्य यावच्चरणाग्रमेकधीः ॥१०५॥

गात्रं गतासोर्वसुधाधिपस्य शनैः समास्पन्दत हृत्प्रदेशे ।
तथोदमीलन्नयनं क्रमेण तथोदतिष्ठत्स यथापुरैव ॥१०६॥

आदौ तदङ्गमुदयन्मुखकान्ति पश्चान्नासान्तनिर्यदनिलं शनकैः परस्तात् ।
उन्मीलदङ्घ्रिचलनं तदनुद्यदक्षिव्याकोचमुत्थितमुपात्तबलं क्रमेण ॥१०७॥

तं प्राप्तजीवमुपलभ्य पतिं प्रभूतहर्षस्वनाः प्रमुदिताननपङ्कजास्ताः ।
नार्यो विरेजुररुणोदयसम्प्रफुल्लपद्माः ससारसरवा इव वारिजिन्यः ॥१०८॥

हर्षं तासामुदितमतुलं वीक्ष्य वामेक्षणाना-
मात्तप्राणं नृपमपि महामात्यमुख्याः प्रहृष्टाः ।
दध्मुः शङ्खान् पणवपटहान् दुन्दुभीश्चाभिजघ्नु-
स्तेषां घोषाः सपदि बधिरीचक्रिरे द्यां भुवं च ॥१०९॥

इति श्रीमाधवीये तत्सार्वज्ञ्योपायगोचरः ।
सङ्क्षेपशङ्करजये सर्गोऽयं नवमोऽभवत् ॥९॥

आदितः श्लोकाः १०२९

N/A

References : N/A
Last Updated : January 23, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP