शङ्करदिग्विजयम् - अथ दशमः सर्गः
शङ्करदिग्विजयम्
अथ पुरोहितमन्त्रिपुरःसरैर्नरपतिः कृतशान्तिककर्मभिः ।
विहितमाङ्गलिकः स यथोचितं नगरमास्थितभद्रगजो ययौ ॥१॥
समधिगम्य पुरं परिसान्त्वितप्रियजनः सचिवैः सह सम्प्रतैः ।
भुवमपालयदादृतशासनो नृपतिभिर्दिवमिन्द्र इवाघिराट् ॥२॥
इति नृपत्वमुपेत्य वसुन्धरामवति संयमिभूभृति मन्त्रिणः ।
तमधिकृत्य परं कृतसंशया इति जजलपुरनल्पधियो मिथः ॥३॥
मृतिमुपेत्य यथा पुनरुत्थितः प्रकृतिभाग्यवशेन तथा त्वयम् ।
नरपतिः प्रतिभाति न पूर्ववत्समुदिताखिलदिव्यगुणोदयः ॥४॥
वसु ददाति ययातिवदर्थिने वदति गोष्पतिवद्गिरमर्थवित् ।
जयति फाल्गुनवत्प्रतिपार्थिवान् सकलमप्यवगच्छति शर्ववत् ॥५॥
अनुसवनविसृत्वरैरपूर्वैर्वितरणपौरुषशौर्यधैर्यपूर्वैः ।
अनितरसुलभैर्गुणैर्विभाति क्षितिपतिरेष परः पुमानिवाद्यः ॥६॥
अनृतुषु तरवः सुपुष्पिताग्रा बहुतरदुग्धदुधाश्च गोमहिष्यः ।
क्षितिरभिमतवृष्टिराठ्यसस्या स्वविहितधर्मरताः प्रजाश्च सर्वाः ॥७॥
कालस्तिष्यः सर्वदोषाकरोऽपि त्रेतामत्येत्यद्य राज्ञः प्रभावात्
तस्मादस्मद्राजवर्ष्म प्रविश्य प्राप्तैश्वर्यः शास्ति कश्चिद्धरित्रीम् ॥८॥
तदयं गुणवारिधिर्यथा प्रतिपद्येत न पूर्वकं वपुः ।
करवाम तथेति निश्चयं कृतवन्तः सचिवाः परस्परम् ॥९॥
अथ ते भुवि यस्य कस्यचिद्विगतासोर्वपुरस्ति देहिनः ।
अविचार्य तदाशु दह्यतामिति भृत्यान् रहसि न्ययोजयन् ॥१०॥
अथ राज्यधुरं घराधिपः परमाप्तेषु निवेश्य मन्त्रिषु ।
बुभुजे विषयान् विलासिनीसचिवोऽन्यक्षितिपालदुर्लभान् ॥११॥
स्फटिकफलके ज्योत्स्नाशुभ्रे मनोज्ञशिरोगृहे
वरयुवतिभिर्दीव्यनक्षैर्दुरोदरकेलिषु ।
अधरदशनं बाह्वावाहं महोत्पलताडनं
रतिविनिमयं राजाऽकार्षीद्ग्लहं विजये मिथः ॥१२॥
अधरजसुधाश्लेषाद्रुच्यं सुगन्धि मुखानिल-
व्यतिकरवशात्कामं कान्ताकरात्तमतिप्रियम् ।
मधु मदकरं पायं पायं प्रियाः समपाययत्-
कनकचषकैरिन्दुच्छायापरिष्कृतमादरात् ॥१३॥
मधुमदकलं मन्दस्विन्नं मनोहरभाषणं
निभृतपुलकं सीत्काराढ्यं सरोरुहसौरभम् ।
दरमुकुलिताक्षीषलज्जं विसृत्वरमन्मथं
प्रचरदलकं कान्तावक्त्रं निपीय कृती नृपः ॥१४॥
विवृतजघनं सन्दष्टोष्ठं प्रणुन्नपयोधरं
प्रसृतभणितं प्राप्तोत्साहं रणन्मणिमेखलम् ।
निभृतकरणं नृत्यदूगात्रं गतेतरभावनं
प्रसृमरसुखं प्रादुर्भूतं किमप्यपदं गिराम् ॥१५॥
मनसिजकलातत्त्वाभिज्ञो मनोज्ञविचेष्टितः
सकलविषयव्यावृत्ताक्षः सदानुसृतोत्तमः ।
कृतकुचगुरूपास्त्याऽत्यन्तं सुनिर्वृतमानसो
निधुवनवरब्रह्मानन्दं निरर्गलमन्वभूत् ॥१६॥
पुरेव भोगान् बुभुजे महीभृत्स भोगिनीभिः सहितोऽप्यरंस्त ।
कन्दर्पशास्त्रानुगतः प्रवीणैर्वात्स्यायने तच्च निरैक्षताद्धा ॥१७॥
वात्स्यायनप्रोदितसूत्रजातं तदीयभाष्यं च निरीक्ष्य सम्यक् ।
स्वयं व्यधत्ताभिनवार्थगर्भं निबन्धमेकं नृपवेषधारी ॥१८॥
पाराशर्यवनिभृति प्रविश्य राज्ञो वर्ष्मैवं विहरति तद्विलासिनीभिः ।
दृष्ट्वा तत्समयमतीतमस्य शिष्या रक्षन्तो वपुरितरेतरं जजल्पुः ॥१९॥
आचार्यैरवधिरकारि मासमात्रं सोऽतीतः पुनरपि पञ्चषाश्च घस्राः ।
अद्यापि स्वकरणमेत्य नः सनाथान् कर्तुं तन्मनसि न जायतेऽनुकम्पा ॥२०॥
किं कुर्मः क्व नु मृगयामहे क्व यामः को जानन्निह वसतीति नोऽभिदध्यात् ।
विज्ञातुं कथमिममीश्महे विचिन्त्याप्या सिन्धु क्षितितलमन्यगात्रगूढम् ॥२१॥
गुरुणा करुणानिधिना ह्यधुना यदि नो निहिता विहितास्त्यजिताः ।
जगति क्व गतिर्भजतां त्यजतां स्वपदं विपदन्तकरं तदिदम् ॥२२॥
निःशेषेन्द्रियजाडयहृन्नवनवाह्लादं मुहुस्तन्वती
नित्याश्लिष्टरजोयतीशचरणाम्भोजाश्रया श्रेयसी ।
निष्पत्यूहविजृम्भमाणजिनस्योद्वासना वासना
निःसीमा हृदयेन कल्पितपरीरम्भा चिरं भाव्यते ॥२३॥
फलितैरिव सत्वपादपैः परिणामैरिव योगसम्पदाम् ।
समयैरिव वैदिकश्रियां सशरीरैरिव तत्वनिर्णयैः ॥२४॥
सघनैर्निजलाभवैभवात् सकुटुम्बैरुपशान्तिकान्तया ।
अतदन्यतयाऽखिलात्मकैरनुगृह्येय कदा नु धामभिः ॥२५॥
अविनयं विनयन्नसतां सतामतिरयं तिरयन् भवपावकम् ।
जयति यो यतियोगभृतां वरो जगति मे गतिमेष विधास्यति ॥२६॥
विगतमोहतमोहतिमाप्य यं विधुतमायतमा यतयोऽभवन् ।
अमृतदस्य तदस्य दृशः सृतवावतरेम तरेम शुगर्णवम् ॥२७॥
शुभाशुभविभाजकस्फुरणदृष्टिमुष्टिन्धयः
क्षपान्धमतपान्थ दुष्कथकदम्भकुक्षिम्भरिः ।
कदा भवसि मे पुनःपुनरनाद्यविद्यातमः
प्रमृद्य गलितद्वयं पदमुदञ्चयन्नद्वयम् ॥२८॥
मर्त्यानां निजपादपङ्कजजुषामाचार्य वाचा यया
रुन्धानो मतिकल्मषं त्वमिह किं कुर्वाणनिर्वाणया ।
द्राङ् नायास्यसि चेत्सुधीकृतपरीहासस्य दसस्य ते
दुःखान्तो न भवेदितीड्य स पुनर्जानीहि मीनीहि मा ॥२९॥
इति खेदमुपेयुषि मित्रजने प्रतिपन्नयतिक्षितिभृन्महिमा ।
शुचमर्थवता शमयन्वचसा निजगाद सरोरुहपाद इदम् ॥३०॥
पर्याप्तं नः क्लैब्यमुपेत्यात्र सखायः कृत्वोत्साहं भूमिमशेषामपिघानात् ।
अन्वेष्यामो भूविवराण्यप्यथ च द्यां यद्वद्देवं देवमनुष्यादिषु गूढम् ॥३१॥
अनिर्विण्णचेताः समास्थाय यत्नं सुदुष्प्रापमप्यर्थमाप्नोत्यवश्यम् ।
मुहुर्विघ्न जालैः सुरा हन्यमाना सुधामप्यवापुर्ह्यनिर्विण्णचित्ताः ॥३२॥
यदप्यन्यगात्रप्रतिच्छन्नरूपो दुरन्वेषणः स्याद्गुरुर्नस्तथापि ।
स्वभानुदरस्थः शशीव प्रकाशैस्तदीयैर्गुणैरेव वेत्तुं स शक्यः ॥३३॥
इक्षुचापागमापेक्षया निर्गतो वर्ष्म तस्य्चितं कृष्णवर्त्मद्युतिः ।
विभ्रमाणां पदं सुभ्रुवां भूपतेः प्राप्तुमर्हत्यकामाग्रणीः संयमी ॥३४॥
नित्यतृप्ताग्रयाय्याश्रिते निर्वृताः प्राणिनो रोगशोकादिना नेक्षिताः ।
दस्युपीडोज्झिताः स्वस्वधर्मे रताः कालवर्षी स्वराण्मेदिनी कामसूः ॥३५॥
तदिहाऽऽस्यमपास्य विचेतुं निरवधिसंसृतिजलधेः सेतुम् ।
देशिकवरपदकमलं यामो न वृथाऽनेहसमत्र नयामः ॥३६॥
इति जलरुहपदवचनं सर्वे मनसि निघाय निराकृतगर्वे ।
कांश्चित्तत्र निवेश्य शरीरं रक्षितुमन्ये निरगुरुदारम् ॥३७॥
ते चिन्वन्तः शैलाच्छैलं विषयाद्विषयं भुवमनुवेलम् ।
प्रापुर्धिक्कृतविबुधनिवेशान् स्फीतानमरुकनृपतेर्देशान् ॥३८॥
मृत्वा पुनरप्युत्थितमेनं श्रुत्वा वैन्यदिलीपसमानम् ।
त्यक्त्वा विरहजदैन्यममन्दं मत्वाऽऽचार्यं धैर्यमविन्दन ॥३९॥
ते च ज्ञात्वा गानविलोलं तरुणीसक्तं धरणीपालम् ।
विविशुः स्वीकृतगायकवेषा नगरं विदितसमस्तविशेषाः ॥४०॥
राज्ञे ज्ञापितविद्यातिशयास्ते तत्सङ्ग्रहविघृतातिशयाः ।
रमणीशतमध्यगमवनीन्द्रं ददृशुस्तारावृतमिव चन्द्रम् ॥४१॥
वरचामरकरतरुणीकङ्कणरञ्जितमनोहरपश्चाद्भागम् ।
गीतिगतिज्ञोद्गीतश्रुतिसुखतानसमुल्लसदग्रिमदेशम् ॥४२॥
घृतचामीकरदण्डसितातपवारणरञ्जितरत्नकिरीटम् ।
श्रितविग्रहमिव रतिपतिमाश्रितभुवमिव सान्तःपुरममरेशम् ॥४३॥
रुचिरवेषाः समासाद्य तां संसदं नयनसंज्ञावितीर्णासना भूभुजा ।
समतिसृष्टास्ततः सुखरं मुर्च्छनापदविदस्ते जगुर्मोहयन्तः सभाम् ॥४४॥
भृङ्ग तव सङ्गतिमपास्य गिरिशृङ्गे तुङ्गविटपिनि सङ्गमजुषि त्वदङ्गे ।
स्वाङ्गरचिताः सकलुषान्तरङ्गाः सङ्गमकृते भङ्गमुपयन्ति भृङ्गाः ॥४५॥
पञ्चशरसमयसञ्चयकृते प्राञ्चं मुञ्चन्निवेह सञ्चरसि प्रपञ्चम् ।
पञ्चजनमुख पञ्चमुखमप्यनञ्चंस्त्वं च गतिरिति किञ्च किल वञ्चितोऽसौ ॥४६॥
पर्वशशिमुख सर्वमपहाय पूर्वे कुर्वदिह गर्वमनुसृत्य हृदपूर्वम् ।
न स्मरसि वस्त्वस्मदीयमिति कस्मात्संस्मर तदस्मर परमस्मदुत्त्त्या ॥४७॥
नेतिनेतीत्यादिनिगमवचनेन निपुणं निषिध्य मूर्तमूर्तराशिम् ।
यदशक्यनिह्नवं स्वात्मरूपतया जानन्ति कोविदास्तत्त्वमसि तत्त्वम् ॥४८॥
खाद्यमुत्पाद्य विश्वमनुप्रविश्य गूढमन्नमयादिकोशतुषजाले ।
कवयो विविच्य युक्त्यवघाततो यत्तण्डुलवदाददति तत्वमसि तत्त्वम् ॥४९॥
विषमविषयेषु सञ्चारिणोऽक्षाश्वान् दोषदर्शनकशाभिघाततः ।
स्वैरं सन्निवर्त्य स्वान्तरश्मिभिर्धीरा बध्नन्ति यत्र तत्त्वमसि तत्त्वम् ॥५०॥
व्यावृत्तजाग्रदादिष्वनुस्यूतं तेभ्योऽन्यदिव पुष्पेभ्य इव सुत्रम् ।
इति यदौपाधिकत्रयपृथक्त्वेन विदन्ति सूरयस्तत्त्वमसि तवम् ॥५१॥
पुरुष एवेदमित्यादिवेदेषु सर्वकारणतया यस्य ।
सार्वात्म्यं हाटकस्येव मुकुटादितादाम्यं सरसमाम्नायते तत्त्वमसि तत्त्वम् ॥५२॥
यश्चाहमत्र वर्ष्मणि भामि सोऽसौ योऽसौ विभाति रविमण्डले सोऽहमिति ।
वेदवादिनो व्यतिहारतो यदध्यापयन्ति यत्नतस्तत्वमसि तत्त्वम् ॥५३॥
वेदानुवचनसदानमुखघमः श्रद्धयाऽनुष्ठितैर्विद्यया युक्तैः ।
विविदषन्त्यत्यन्त विमलस्वान्ता ब्राह्मणा यद्ब्रह्म तत्त्वमसि तत्त्वम् ॥५४॥
शमदमोपरमादिसाधनैर्धीराः स्वात्मनाऽऽत्मनि यदन्विष्य कृतकृत्याः ।
अधिगतामितसच्चिदानन्दरूपा न पुनरिह खिद्यन्ते तत्त्वमसि तत्त्वम् ॥५५॥
अविगीतमेवं नरपतिराकर्ण्य वर्णितात्मार्थम् ।
विससर्ज पूरिताशानेतान्निर्ज्ञातकर्तव्यः ॥५६॥
उद्बोधितः सदसि तैरवलम्ब्य मूर्च्छां निर्गत्य राजतनुतो निजमाविवेश ।
गात्रं पुरोदितनयेन स देशिकेन्द्रः संज्ञामवाप्य च पुरेव समुत्थितोऽभूत् ॥५७॥
तदेनु कुहरमेत्य पूर्वदृष्टं नरपतिभृत्यविसृष्टपावकेन ।
निजवपुरवलोक्य दह्यमानं झटिति स योगधुरन्धरो विवेश ॥५८॥
सपदि दहनशान्तये महान्तं नरमृगरूपमधोक्षजं शरण्यम् ।
स्तुतिभिरधिकलालसत्पदाभिस्त्वरितमतोषयदात्मवित्प्रधानः ॥५९॥
नरहरिकृपया ततः प्रशान्ते प्रबलतरे स हुताशने प्रविष्टः ।
निरगमदचलेन्द्रकन्दरान्ताद्विधुरिव वक्त्रबिलाद्विधुन्तुदस्य ॥६०॥
तदनु शमधनाधिपो विनेयैश्चिरविरहादतिवर्धमानहार्दैः ।
सनक इव वृतः सनन्दनाधैर्जिगमिषुराजनि मण्डनस्य गेहम् ॥६१॥
तदनु सदनमेत्य पूर्वदृष्टं गगनपथाद्गलितक्रियाभिमानम् ।
विषयविषनिवृत्ततर्षमुच्चैरतनुत मण्डनमिश्रमक्षिपात्रम् ॥६२॥
तं समीक्ष्य नभश्च्युतं स च प्राञ्जलिः प्रणतपूर्वविग्रहः ।
अर्हणाभिरभिपूज्य तस्थिवानीक्षणैरनिमिषैः पिबन्निव ॥६३॥
स विश्वरूपो बत सत्यवादी पपात पादाम्बुजयोर्यतीशः ।
गृहं शरीरं मम यच्च सर्वं तवेति वादी मुदितो महात्मा ॥६४॥
प्रेयसा प्रथममर्चितं मुनिं प्राप्तविष्टरमुपस्थितं बुधैः ।
प्रश्रयावनतमूर्तिरब्रवीच्छारदाऽभिवदने विशारदा ॥६५॥
ईशानः सर्वविद्यानामीश्वरः सर्वदेहिनाम् ।
ब्रह्मणोऽधिपतिर्ब्रह्मन् भवान् साक्षात्सदाशिवः ॥६६॥
सदसि मामविजित्य तथैव यन्मदनशासन कामकलास्वपि ।
तदवबोधकृते कृतिमाचरस्तदिह मर्त्यचरित्रविडम्बनम् ॥६७॥
त्वया यदावां विजितौ परात्मन्न त्रपामावहतीड्य सर्वथा ।
कृताभिभूतिर्न मयूखशालिना निशाकरादेरपकीर्तये खलु ॥६८॥
आदावात्म्यं धाम कामं प्रयास्याम्यर्हस्यच्छं मामनुज्ञातुमर्हन् ।
इत्यामन्त्र्यान्तर्हितां योगशक्त्या पश्यन् देवीं भाष्यकर्ता बभाषे ॥६९॥
जानामि त्वां देवि देवस्य धातुर्भार्यामिष्टामष्टमूर्तेः सगर्भ्याम् ।
वाचामाद्यां देवतां विश्वगुप्त्यै चिन्मात्रामप्यात्तलक्ष्म्यादिरूपाम् ॥७०॥
तस्मादस्मत्कल्पितेष्वर्च्यमाना स्थानेषु त्वं शारदाख्या दिशन्ती ।
इष्टानर्थानृष्यशृङ्गादिकेषु क्षेत्रेष्वास्स्व प्राप्तसत्सन्निधाना ॥७१॥
तथेति संश्रुत्य सरस्वती सा प्रायात्प्रियं धाम पितामहस्य ।
अदर्शनं तत्र समीक्ष्य सर्व आकस्मिकं विस्मयमीयुरुच्चैः ॥७२॥
तस्या यतीशजितभर्तृयतित्वजातवैधव्यसम्भवशुचा भुवमस्पृशन्त्याः ।
अन्तर्धिमेक्ष्य मुदितोऽजनि मण्डनोऽपि तत्साधु वीक्ष्य मुमुदे यतिशेखरश्च ॥७३॥
मण्डनमिश्रोऽप्यथ विधिपूर्वं दत्वा वित्तं यागे सर्वम् ।
आत्मारोपितशोचिष्केशो भेजे शङ्करमस्तमिताशः ॥७४॥
संन्यासगृह्यविधिना सकलानि कर्माण्यह्नाय शङ्करगुरुर्विदुषोऽस्य कुर्वन् ।
कर्णे जगौ किमपि तत्त्वमसीति वाक्यं कर्णेजपं निखिलसंसृतिदुःखहानेः ॥७५॥
संन्यासपूर्वं विधिवद्बिभिक्षे पश्चादुपादिक्षदथाऽऽत्मतत्त्वम् ।
आचार्यवर्यः श्रुतिमस्तकस्थं तदादिवाक्यं पुनरावभाषे ॥७६॥
त्वं नासि देहो घटवद्ध्यनात्मा रूपादिमत्त्वादिह जातिमत्वात् ।
ममेति भेदप्रथनादभेदसम्प्रत्ययं विद्धि विपर्ययोत्थम् ॥७७॥
लोप्यो हि लोप्यव्यतिरिक्तलोपको दृष्टो घटादिः खलु तादृशी तनुः ।
दृश्यत्वहेतोर्व्यतिरेकसाधने त्वत्तः शरीरं कथमात्मतागतिः ॥७८॥
नापीन्द्रियाणि खलु तानि च साधनानि
दात्रादिवत्कथममीषु तवाऽऽत्मभावः ।
चक्षुर्मदीयमिति भेदगतेरमीषां
स्वप्नादिभावविरहाच्च घटादिसाम्यम् ॥७९॥
यद्यात्मतैषां समुदायगा स्यादेकव्ययेनापि भवेन्न तद्धीः ।
प्रत्येकमात्मत्वमुदीर्यते चेन्नश्येच्छरीरं बहुनायकत्वात् ॥८०॥
आत्मत्वमन्यतमगं यदि चक्षुरादेश्चक्षुर्विनाशसमये स्मरणं न हि स्यात् ।
एकाश्रयत्वनियमात्स्मरणानुभूत्योर्दृष्टश्रुतार्थविषयावगतिश्च न स्यात् ॥८१॥
मनोऽपि नाऽऽत्मा करणत्वहेतोर्मनो मदीयं गतमन्यतोऽभूत् ।
इति प्रतीतेर्व्यभिचारितायाः सुप्तौ च तच्चिन्मनसोर्विविक्तता ॥८२॥
अनयैव दिशा निराकृता न च बुद्धेरपि चाऽऽत्मता स्फुटम् ।
अपि भेदगतेरनन्वयात्करणादाविव बुद्धिमुज्झ भोः ॥८३॥
नाहङ्कृतिश्चरमधातुपदप्रयोगात् प्राणा मदीया इति लोकवादात् ।
प्राणोऽपि नाऽऽत्मा भवितुं प्रगल्भः सर्वोपसंहारिणि सन् सुषुप्ते ॥८४॥
एवं शरीराद्यविविक्त आत्मा त्वंशब्दवाच्योऽभिहितोऽत्र वाक्ये ।
तदोदितं ब्रह्म जगन्निदानं तथा तथैक्यं पदयुग्मबोध्यम् ॥८५॥
कथं तदैक्यं प्रतिपादयेद्वचः सर्वज्ञसम्मृढपदाभिषिक्तयोः ।
न ह्येकता सन्तमसप्रकाशयोः सन्दृष्टपूर्वा न च दृश्यतेऽधुना ॥८६॥
सत्यं विरोधगतिरस्ति तु वाच्यगेयं सोऽयं पुमानितिवदत्र विरोधहानेः ।
आदाय वाच्यमविरोधि पदद्वयं तल्लक्ष्यैक्यबोधनपरं ननु को विरोधः ॥८७॥
जहीहि देहादिगतामहन्धियं चिरार्जितां कर्मशठेः सुदुस्त्यजाम् ।
विवेकबुद्धया परमेव सन्ततं ध्यायाऽऽत्मभावेन यतो विमुक्तता ॥८८॥
साधारणे वपुषि काकशृगालवह्निमात्रादिकस्य ममतां त्यज दुःखहेतुम् ।
तद्वज्जहीहि बहिरर्थगतां च विद्वंश्चित्तं बधान परमात्मनि निर्विशङ्कम् ॥८९॥
तीरात्तीरं सञ्चरन् दीर्घमत्स्यस्तीराद्भिन्नो लिप्यते नापि तेन ।
एवं देही सञ्चरजाग्रदादौ तस्माद्भिन्नो नापि तद्धर्मको वा ॥९०॥
जाग्रत्स्वप्नसुषुप्तिलक्षणमदोऽवस्थात्रयं चित्तनौ
त्वय्येवानुगते मिथो व्यभिचरद्धीसंज्ञमज्ञानतः ।
क्लृप्तं रज्ज्विदमंशके वसुमतीच्छिद्राहिदण्डादिवत्
तद्ब्रह्मासि तुरीयमुज्झितभयं मा त्वं पुरेव भ्रमीः ॥९१॥
प्रत्यक्तमं परपदं विदुषोऽन्तिकस्थं
दूरं तदेव परिमूढमतेर्जनस्य ।
अन्तर्बहिश्च चितिरस्ति न वेति कश्चि-
चिचन्वन् बहिर्बहिरहो महिमाऽऽत्मशक्तेः ॥९२॥
यथा प्रपायां बहवो मिलन्ते क्षणे द्वितीये बत भिन्नमार्गाः ।
प्रयान्ति तद्वद्बहुनामभाजो गृहे भवन्त्यत्र न कश्चिदन्ते ॥९३॥
सुखाय यद्यत् क्रियते दिवानिशं सुखं न किञ्चिद्धहुदुःखमेव तत् ।
विना न हेतुं सुखजन्म दृश्यते हेतुश्च हेत्वन्तरसन्निधौ भवेत् ॥९४॥
परिपक्वमतेः सकृच्छ्रुतं जनयेदात्मधियं श्रुतेर्वचः ।
परिमन्दमतेः शनैः शनैर्गुरुपादाब्जनिषेवणादिना ॥९५॥
प्रणवाभ्यसनोक्तकर्मणोः करणेनापि गुरोर्निषेवणात् ।
अपगच्छति मानसं मलं क्षमते तत्त्वमुदीरितं ततः ॥९६॥
मनोऽनुवर्तेत दिवानिशं गुरौ गुरुर्हि साक्षाच्छिव एव तत्त्ववित् ।
निजानुवृत्या परितोषितो गुरुर्विनेयववक्त्रं कृपया हि वीक्षते ॥९७॥
सा कल्पवल्लींव निजेष्टमर्थं फलत्यवश्यं किमकार्यमस्याः ।
आज्ञा गुरोस्तत्परिपालनीया सा मोदमानीय विधातुमिष्टा ॥९८॥
गुरूपदिष्टा निजदेवता चेत्कुप्येत्तदा पालयिता गुरुः स्यात् ।
रुष्टे गुरौ पालयिता न कश्चिद्गुरौ न तस्माज्जनयेत कोपम् ॥९९॥
पुमान् पुमर्थं लभतेऽपि चोदितं भजजन्निवृत्तः प्रतिषिद्धसेवनात् ।
विधिं निषेधं च निवेदयत्यसौ गुरोरनिष्टच्युतिरिष्टसम्भवः ॥१००॥
आराधितं दैवतमिष्टमर्थं ददाति तस्याधिगमो गुरोः स्यात् ।
नो चेत्कथं वेदितुमीश्वरोऽयमतीन्द्रियं दैवतमिष्टदं नः ॥१०१॥
तुष्टे गुरौ तुष्यति देवतागणो रुष्टे गुरौ रुष्यति देवतागणः ।
सदाऽऽत्मभावेन सदात्मदेवताः पश्यन्नसौ विश्वमयो हि देशिकः ॥१०२॥
एवं पुराणगुरुणा परमात्मतत्त्वं शिष्टो गुरोश्चरणयोर्निपपात तस्य ।
धन्योऽस्म्यहं तव गुरो करुणाकटाक्षपातेन पातिततमा इति भाषमाणः ॥१०३॥
ततः स सम्प्राप्य सुरेश्वराख्यां दिगङ्गनाभिः क्रियमाणसख्याम् ।
सच्छिष्यतां भाष्यकृतश्च मुख्यामवाप तुच्छीकृतधातृसौख्याम् ॥१०४॥
निखिलनिगमचूडाचिन्तया हन्त यावत्
स्वमनवधिकसौख्यं निर्विशन्निर्विशङ्कम् ।
बहुतिथमभितोऽसौ नर्मदां नर्मदां तां
मगधभुवि निवासं निर्ममे निर्ममेन्द्रः ॥१०५॥
इति वशीकृतमण्डनपण्डितः प्रणतसत्करणत्रयदण्डितः ।
सकलसद्गुणमण्डलमण्डितः स निरगात् कृतदुर्मतखण्डितः ॥१०६॥
कुसुमितविविधपलाशभ्रमदलिकुलगीतमधुरस्वनम् ।
पश्यन् विपिनमयासीदाशां कीनाशपालितामेषः ॥१०७॥
तत्र महाराष्ट्रमुखे देशे ग्रन्थान् प्रचारयन् प्राज्ञतमः ।
शमितपतान्तरमानः शनकैः सनकोपमोऽगमच्छ्रीशैलम् ॥१०८॥
प्रफुल्लमल्लिकावनप्रसङ्गसङ्गतामितप्रकाण्ड गन्धबन्धुरप्रवातधूतपादपम् ।
सदामदद्विपाधिपप्रहारशूरकेसरिव्रजं भुजङ्गभूषणप्रियं स्वयम्भुकौशलम् ॥१०९॥
कलिकल्मषभङ्गायां सोऽद्रेराराच्चलत्तरङ्गायाम् ।
अधरीकृततुङ्गायां सस्नौ पातालगामिगङ्गायाम् ॥११०॥
नमन्मोहभङ्गं नमोलेहिशृङ्गं त्रुटत्पापसङ्गं रटत्पक्षिभृङ्गम् ।
समाश्लिष्टगङ्गं प्रहृष्टान्तरङ्गं तमारुह्य तुङ्गं ददर्शेशलिङ्गम् ॥१११॥
प्रणमद्भवबीजभर्जनं प्रणिपत्यामृतसम्पदार्जनम् ।
प्रमुमोद स मल्लिकार्जुनं भ्रमराम्बासचिवं नतार्जुनम् ॥११२॥
तीररुहैः कृष्णायास्तीरेऽवात्सीत्तिरोहितोष्णायाः ।
आवर्जिततृष्णाया आचार्येन्द्रो निरस्तकार्ष्यायाः ॥११३॥
तत्रातिचित्रपदमत्रभवान् पवित्रकीर्तिर्विचित्रसुचरित्रनिधिः सुधीन्द्रान् ।
अग्राहयत्कृतमसद्ग्रहनिग्रहार्थमग्र्यान् समग्रसुगुणान् महदग्रयायी ॥११४॥
अध्यापयन्तमसदर्थनिरासपूर्वं किन्त्वन्यतीर्थयशसं श्रुतिभाष्यजातम् ।
आक्षिप्य पाशुपतवैष्णववीरशैवमाहेश्वराश्च विजिता हि सुरेश्वराद्यैः ॥११५॥
के चद्विसृज्य मतमात्म्यममुष्य शिष्य-
भावं गता विगतमत्सरमानदोषाः ।
अन्ये तु मन्युवशमेत्य जघन्यचित्ता
निन्युः क्षणं निधनमस्य निरीक्षमाणाः ॥११६॥
वेदान्तीकृतनीचशूद्रवचसो वेदाः स्वयं कल्पनाः
पापिष्ठाः स्वमपि त्रयीपथमपि प्रायो दहन्तः खलाः ।
साक्षाद्ब्रमणि शङ्करे विदधति स्पर्धानिबद्धां मतिं
कृष्णे पौण्ड्रकवत्तथा न चरमां किं ते लभन्ते गतिम् ॥११७॥
वाणी काणभुजी च नैव गणिता लीना क्वचित्कापिली
शैवं चाशिवभावमेति भजते गर्हापदं चार्हतम् । -
दौगं दुर्गतिमश्नुते भुवि जनः पुष्णाति को वैष्णवं
निष्णातेषु यतीशसूक्तिषु कथाकेलीकृतासूक्तिषु ॥११८॥
तथागतकथा गता तदनुयायि नैयायिकं
वचोऽजनि न चोदितो वदति जातु तौतातितः ।
विदग्धति न दग्धघीर्विदितचापलं कापिलं
विनिर्दयविनिर्दलद्विमतसङ्करे शङ्करे ॥११९॥
इति श्रीमाधवीये तत्कलाज्ञत्वप्रपञ्चनम् ।
सङ्क्षेपशङ्करजये सर्गोऽयं दशमोऽभवत् ॥१०॥
आदितः श्लोकाः ११४८
N/A
References : N/A
Last Updated : January 23, 2026

TOP