शङ्करदिग्विजयम् - अथ तृतीयः सर्गः

शङ्करदिग्विजयम्


इति बालमृगाङ्कशेखरे सति बालत्वमुपागते ततः ।
दिविषत्प्रवराः प्रजज्ञिरे भुवि षट्शास्त्रविदां सतां कुले ॥१॥

कमलानिलयः कलानिधेर्विमलाख्यादजनिष्ट भूसुरात् ।
भुवि पद्मपदं वदन्ति यं सविपद्येन विवादिनां यशः ॥२॥

पवमानोऽप्यजनि प्रभाकरात्सवनोन्मीलितकीर्तिमण्डलात् ।
गलहस्तितभेदवाद्यसौ किल हस्तामलकाभिधामघात् ॥३॥

पवमानदशांशतोऽजनि प्लवमानाऽञ्चति यद्यशोम्बुधौ ।
धरणी मथिता विवादिवाक्तरणी येन स तोटकाह्वयः ॥४॥

उदभावि शिलादसूनुना मदवद्वादिकदम्बनिग्रहैः ।
समुदञ्चितकीर्तिशालिनं यमुदङ्कं ब्रुवते महीतले ॥५॥

विधिरास सुरेश्वरो गिरां निधिरानन् गिरिर्व्यजायत ।
अरुणः समभूत्सनन्दनो वरुणोऽजायत चित्सुखाह्वयः ॥६॥

अपरेऽप्यभवन्दिवौकसः स्वपरेर्ष्यापरविद्विषः प्रभोः ।
चरणं परिसेवितुं जगच्छरणं भूसुरपुङ्गवात्मजाः ॥७॥

चार्वाकदर्शनविधानसरोषधातृ-
शापेन गीष्पतिरभूद्भुवि मण्डनाख्यः ।
नन्दीश्वरः करुणयेश्वरचोदितः स-
न्नानन्द गिर्यभिधया व्यजनीति केचित् ॥८॥

अथावतीर्णस्य विधेः पुरन्ध्री साऽभूद्यदाख्योभयभारतीति ।
सरस्वती सा खलु वस्तुवृत्या लोकोऽपि तां वक्ति सरस्वतीति ॥९॥

पुरा किलाध्यैषत धातुरन्तिके सर्वज्ञकल्पा मुनयो निजं निजम् ।
वेदं तदा दुर्वसनोऽतिकोपनो वेदानधीयन्क्वचिदस्खलत्स्वरे ॥१०॥

तदा जहासेन्दुमुखी सरस्वती यदङ्गमर्णोद्भवशब्दसन्ततिः ।
चुकोप तस्यै दहनानुकारिणा निरैक्षताक्ष्णा मुनिरुग्रशासनः ॥११॥

शशाप तां दुर्विनयेऽवनीतले जायस्व मर्त्येष्वबिभेत्सरस्वती ।
प्रसादयामास निसर्गकोपनं तत्पादमूले पतिता विषादिनी ॥१२॥

दृष्ट्वा विषण्णां मुनयः सरस्वतीं प्रसादयाञ्चक्रुरिमं तमादरात् ।
कृतापराधा भगवन्क्षमस्व तां पितेव पुत्रं विहितागसं मुने ॥१३॥

प्रसादितोऽभूदय सम्प्रसन्नो वाण्या मुनीन्द्रैरपि शापमोक्षम् ।
ददौ यदा मानुषशङ्करस्य सन्दर्शनं स्याद्भवितास्य मर्त्या ॥१४॥

सा शोणतीरेऽजनि विप्रकन्या सर्वार्थवित्सर्वगुणोपपन्ना ।
यस्या बभूवुः सहजाश्च विद्याः शिरोगतं के परिहर्तुमीशाः ॥१५॥

सर्वाणि शास्त्राणि षडङ्गवेदान्काव्यादिकान्वेत्ति परं च सर्वम् ।
तन्नास्ति नो वेत्ति यदत्र बाला तस्मादभूच्चित्रपदं जनानाम् ॥१६॥

सा विश्वरूपं गुणिनं गुणज्ञा मनोऽभिरामं द्विजपुङ्गवेभ्यः ।
शुश्राव तां चापि स विश्वरूपस्तस्मात्तयो दर्शनलालसाऽभूत् ॥१७॥

अन्योन्यसन्दर्शनलालसौ तौ चिन्ताप्रकर्षादधिगम्य निद्राम् ।
अवाप्य सन्दर्शनभाषणानि पुनः प्रबुद्धौ विरहाग्नितप्तौ ॥१८॥

दिदृक्षमाणावपि नेक्षमाणावन्योन्यवार्ताहतमानसौ तौ ।
यथोचिताहारविहारहीनौ तनों तनुत्वं स्मरणादुपेतौ ॥१९॥

दृष्ट्वा तदीयौ पितरौ कदाचिदपृच्छतां तौ परिकर्शिताङ्गौ ।
वपुः कृशं ते मनसोऽप्यगर्वो न व्याधिमीक्षे न च हेतुमन्यम् ॥२०॥

इष्टस्य हानेरनभीष्टयोगाद्भवन्ति दुःखानि शरीरभाजाम् ।
वीक्षे न तौ द्वावपि वीक्षमाणो विना निदानं नहि कार्यजन्म ॥२१॥

न तेऽत्यगादुद्वहनस्य कालः परावपानो न च निःस्वता वा ।
कुटुम्बभारो मयि दुःसहोऽयं कुमारवृत्तेस्तव काऽत्र पीडा ॥२२॥

न मृढभावः परितापहेतुः पराजितिर्वा तव तन्निदानम् ।
विद्वत्सु विस्पष्टतयाऽयपाठात्सुदुर्गमार्थादपि तर्कविद्भिः ॥२३॥

आ जन्मनो विहितकर्मनिषेवणं ते
स्वप्नेऽपि नास्ति विहितेतर कर्मसेवा ।
तस्मान्न भेयमपि नारकयातनाभ्यः
किं ते मुखं प्रतिदिनं गतशोभमास्ते ॥२४॥

निर्बन्धतो बहुदिनं प्रतिपाद्यमानौ
वक्तुं कृपाभरयुताविदमृचतुः स्म ।
निर्बन्धतस्तव वदामि मनोगतं मे
वाच्यं न वाच्यमिति यद्वितनोति लज्जाम् ॥२५॥

शोणाख्यपुन्नदतटे वसतो द्विजस्य
कन्या श्रुतिं गतवती द्विजपुङ्गवेभ्यः ।
सर्वज्ञतापदमनुत्तमरूपवेषां
तामुद्विवक्षति मनो भगवन्मदीयम् ॥२६॥

पुत्रेण सोऽतिविनयं गर्दितोऽन्वशाद् द्वौ
विप्रौ वधूवरणकर्मणि सम्प्रवीणौ ।
तावापतुर्द्विजगृहं द्विजसन्दिदृक्षू
देशानतीत्य बहुलान्निजकार्यसिद्धयै ॥२७॥

भूभृन्निकेतनगतः श्रुतविश्वशास्त्रः
श्रीविश्वरूप इति यः प्रथितः पृथिव्याम् ।
तत्पादपद्मरजसे स्पृहयामि नित्यं
साहाय्यमत्र यदि तात भवान्विद्ध्यात् ॥२८॥

पुत्र्या वचः पिबति कर्णपुटेन ताते
श्री विश्वरूपगुरुणा गुरुणा द्विजानाम् ।
आजग्मतुः सुवसनौ विशदाभयष्टी
सम्प्रेषितौ सुतवरोद्वहनक्रियायै ॥२९॥

तावार्च्य स द्विजवरौ विहितोपचारैरायानकारणमथो शनकैरपृच्छत् ।
श्रीविश्वरूपगुरुवाक्यत आगतौ स्व इत्यूचतुर्वरणकर्मणि कन्यकायाः ॥३०॥

सम्प्रेषितौ श्रुतवयःकुलवृत्तधर्मैः साधारणीं श्रुतवता स्वसुतस्य तेन ।
याचावहे तव सुतां द्विज तस्य हेतोरन्योन्यसङ्घटनमेतु मणिद्वयं तत् ॥३१॥

मह्यं तदुक्तमभिरोचत एव विप्रौ पृष्ट्वा वधूं मम पुनः करवाणि नित्यम् ।
कन्याप्रदानमिदमायतते वधूषु नो चेदमूर्व्यसनसक्तिषु पीडयेयुः ॥३२॥

भार्यामपृच्छदथ किं करवाव भद्रे
विप्रौ वरीतुमनसौ खलु राजगेहात् ।
एतां सुतां सुतनिभा तत्र याऽस्ति कन्या
ब्रूहि त्वमेकमनुमाय पुनर्न वाच्यम् ॥३३॥

दूरे स्थितिः श्रुतवयःकुलवृत्तजातं न ज्ञायते तदपि किं प्रवदामि तुभ्यम् ।
वित्तान्विताय कुलवृत्तसमन्विताय देया सुतेति विदितं श्रुतिलोकयोश्च ॥३४॥

नैवं नियन्तुमनघे तव शक्यमेतत्तां रुक्मिणीं यदुकुलाय कुशस्थलीशे ।
प्रादात्स भीष्मकनृपः खलु कुण्डिनेशस्तीर्थापदेशमटते त्वपरीक्षिताय ॥३५॥

किं केन सङ्गतमिदं सति मा विचारीर्य् वैदिकीं सरणिमप्रहतां प्रयत्नात् ।
प्रातिष्ठिपत्सुगतदुर्जयनिर्जयेन शिष्यं यमेनमशिषत्स च भट्टपादः ॥३६॥

किं वर्ण्यते सुदति यो भविता वरो नो
विद्याधनं द्विजवरस्य न बाह्यवित्तम् ।
याऽन्वेति सन्ततमनन्तदिगन्तभाजं
यां राजचोरवनिता न च हर्तुमीशाः ॥३७॥

वध्वर्जनावनपरिव्ययगानि तानि
वित्तानि चित्तमनिशं परिखेदयन्ति ।
चोरान्नपात्स्वजनतश्च भयं धनानां
शर्मेति जातु न गुणः खलु बालिशस्य ॥३८॥

केचिद्धनं निदधते भुवि नोपभोगं कुर्वन्ति लोभवशगा न विदन्ति केचित् ।
अन्येन गोपितमथान्यजना हरन्ति तच्चेन्नदीपरिसरे जलमेव हर्तृ ॥३९॥

सर्वात्मना दुहितरो न गृहे विधेयास्ताश्चेत्पुरा परिणयाद्रज उद्गतं स्यात् ।
पश्येयुरात्मपितरौ बत पातयन्ति दुःखेषु घोरनरकेष्विति धर्मशास्त्रम् ॥४०॥

मा भूदयं मम सुता कलहः कुमारीं
पृच्छाव सा वदति यं भविता वरोऽस्याः ।
एवं विधाय समयं पितरौ कुमार्याः
अभ्याशमीयतुरितो गदितेष्टकार्यौ ॥४१॥

श्री विश्वरूपगुरुणा प्रहितौ द्विजाती
कन्यार्थिनौ सुतनु किं करवाव वाच्यम् ।
तस्याः प्रमोदनिचयो न ममौ शरीरे
रोमाञ्चपूरमिषतो बहिरुज्जगाम ॥४२॥

तेनैव सा प्रतिवचः प्रददौ पितृभ्यां तेनैव तावपि तयोर्युगलाय सत्यम् ।
आदाय विप्रमपरं पितृगेहतोऽस्यास्तौ जग्मतुर्द्विजवरौ स्वनिकेतनाय ॥४३॥

अस्माच्चतुर्दशदिने भविता दशम्यां
जामित्रभादिशुभयोगयुतो मुहूर्तः ।
एवं विलिख्य गणितादिषु कौशलास्या
व्याख्यापराय दिशति स्म सरस्वती सा ॥४४ ४४॥

तौ हृष्टपुष्टमनसौ विहितेष्टकार्यौ
श्री विश्वरूपगुरुमुत्तममैक्षिषाताम् ।
सिद्धं समीहितमिति प्रथितानुभावो
दृष्ट्वैव तन्मुखमसावथ निश्चिकाय ॥४५॥

अन्यः स्वहस्तगतपत्रमदात्स पत्रं दृष्ट्वा जहास सुखवारिनिधौ ममज्ज ।
विप्रान्यथोचितमपूजयदागतांस्तान्नत्वांऽशुकादिभिरयं बहुवित्तलभ्यैः ॥४६॥

पित्रानुशिष्टवसुधासुरशंसितेन विज्ञापितः सुखमवाप स विश्वरूपः ।
कार्याण्यथाह पृथगात्मजनान्समेतान्बन्धुप्रियः परिणयोचितसाधनाय ॥४७॥

मौहूर्तिकैर्बहुभिरेत्य मुहूर्तकाले सन्दर्शिते द्विजवरैर्बहुविद्भिरिष्टैः ।
माङ्गल्यवस्तुसहितोऽखिलभूषणाढ्यः स प्रापदक्षततनुः पृथुशोणतीरम् ॥४८॥

शोणस्य तीरमुपयातमुपाश‍ृणोत्स जामातरं बहुविधं किल विष्णुमित्रः ।
प्रत्युज्जगाम मुमुदे प्रियदर्शनेन प्रावीविशद गृहममुं बहुवाद्यघोषैः ॥४९॥

दत्त्वाऽऽसनं मृदुवचः समुदीर्य तस्मै पाद्यं ददौ समधुपर्कमनर्धपात्रे ।
अर्घ्यं ददावहमियं तनया ग्रहास्ते गावो हिरण्यमखिलं भवदीयमूचे ॥५०॥

अस्माकमद्य पवितं कुलमादृताः स्मः सन्दर्शनं परिणयव्यपदेशतोऽभूत् ।
नोचेद्भवान्बहुविदग्रसरः क्वचाहं भद्रेण भद्रमुपयाति पुमान्विपाकात् ॥५१॥

यद्यद्गृहेऽत्र भगवन्निह रोचते ते तत्तन्निवेद्यमखिलं भवदीयमेतत् ।
वक्ष्यामि सर्वमभिलाषपदं त्वदीयं युक्तं हि सन्ततमुपासितवृद्धपूगे ॥५२॥

एवं मिथः परिनिगद्य विशेषमृद्वया वाचा युतौ मुदमवापतुरुत्तमां तौ ।
अन्ये च सम्मुमुदिरे प्रियसत्कथाभिः स्वेच्छा विहारहसनैरुभये विधेयाः ॥५३॥

कन्यावरौ प्रकृतिसिद्धसुरूपवेषौ दृष्ट्व्भयेऽपि परिकर्म विलम्बमानाः ।
चक्रुर्विधेयमिति कर्तुमनीश्वरास्ते शोभाविशेषमपि मङ्गलवासरेऽस्मिन् ॥५४॥

एतत्प्रभाप्रतिहतात्मविभूतिभावादाकल्पजातमपि नातिशयं वितेने ।
लोकप्रसिद्धिमनुसृत्य विधेयबुद्धया भूषां व्यधुस्तदुभये न विशेषबुद्धया ॥५५॥

मौहूर्तिका बहुविदोऽपि मुहूर्तकालमप्राक्षुरक्षतधियं खिलतीं सखीभिः ।
पश्चात्तदुक्तशुभयोगयुते शुभांशे मौहूर्तिकाः स्वमतितो जगृहुर्मुहूर्तम् ॥५६॥

जग्राह पाणिकमलं हिममित्रसूनुः श्रीविष्णुमित्रदुहितुः करपल्लवेन ।
भेरीमृदङ्गपटहाध्ययनाब्जघोषैर्दिङमण्डले सुपरिमूर्च्छति दिव्यकाले ॥५७॥

यं यं पदार्थमभिकामयते पुमान्यस्तं तं प्रदाय समतूतुषतां तदीड्यौ ।
देवद्रुमाविव महासुमनस्त्वयुक्तौ सम्भूषितौ सदसि चेरतुरात्मलाभौ ॥५८॥

आधाय वह्निमथ तत्र जुहाव सभ्य-
ग्गृह्योक्तमार्गमनुसृत्य स विश्वरूपः ।
लाजाञ्जुहाव च वधूः परिजिघ्रति स्म
धूमं प्रदक्षिणमथाकृत सोऽपि चाग्निम् ॥५९॥

होमावसानपरितोषितविप्रवर्यः प्रस्थापिताखिल समागतबन्धुवर्गः ।
संरक्ष्य वह्निमनया सममग्निगेहे दीक्षाघरो दिनचतुष्कमुवास हृष्टः ॥६०॥

प्रतिष्ठमाने दयिते वरेऽस्मिन्नुपेत्य मातापितरौ वरायाः ।
आभाषिषातां श‍ृणु सावधानो बालेव बाला न तु वेत्ति किञ्चित् ॥६१॥

बालैरियं क्रीडति कन्दुकाद्यैर्जातक्षुधा गेहमुपैति दुःखात् ।
एकेति बाला गृहकर्म नोक्ता संरक्षणीया निजपुत्रितुल्या ॥६२॥

बालेयमङ्ग वचनैर्मृदुभिर्विधेया कार्या न रूक्षवचनैर्न करोति रुष्टा ।
केचिन्मृदूक्तिवशगा विपरीतभावाः केचिद्विहातुमनलं प्रकृतिं जनो हि ॥६३॥

कश्चिद् द्विजातिरधिगम्य कदाचिदेनामुद्रीक्ष्य लक्षणमवोचदनिन्दितात्म ।
मानुष्यमात्रजननं निजदेवभावेत्यस्माच्च वो वचनमुग्रमयोज्यमस्याम् ॥६४॥

सर्वज्ञतालक्षणमस्ति पूर्णमेषा कदाचिद्वदतोः कथायाम् ।
तत्साक्षिभावं व्रजिताऽनवद्या सन्दिश्य नावेवमसौ जगाम ॥६५॥

श्वश्रूर्वराया वचनेन वाच्या स्नुषाभिरक्षाऽऽयतते हि तस्याम् ।
निक्षेपभूता तव सुन्दरीयं कार्या गृहे कर्म शनैः शनैस्ते ॥६६॥

बाल्येषु बाल्यात्सुलभोऽपराधः स नेक्षणीयो गृहिणीजनेन ।
वयं सुधीभूय हि सर्व एव पश्चाद्गुरुत्वं शनकैः प्रयाताः ॥६७॥

दृष्ट्वाऽभिधातुमनलं च मनोऽस्मदीयं
गेहाभिरक्षणविधौ न हि दृश्यतेऽन्यः ।
दृष्ट्वाऽभिधानफलमेव यथा भवेन्नो
ब्रूयात्तथेष्टजनता जननीं वरस्य ॥६८॥

वत्से त्वमद्य गमिताऽसि दशामपूर्वां
तद्रक्षणे निपुणधीर्भव सुभ्रु नित्यम् ।
कुर्यान्न बालविहृतिं जनतोपहास्यां
सा नाविवापरमियं परितोषयेत्ते ॥६९॥

पाणिग्रहात्स्वाधिपती समीरितौ पुरा कुमार्याः पितरौ ततः परम् ।
पतिस्तमेकं शरणं व्रजानिशं लोकद्वयं जेष्यसि येन दुर्जयम् ॥७०॥

पत्यावभुक्तवति सुन्दरि मा स्म भुङ्क्ष्व
याते प्रयातमपि मा स्म भवेद्विभूषा ।
पूर्वापरादिनियमोऽस्ति निमज्जनादौ
वृद्धाङ्गनाचरितमेव परं प्रमाणम् ॥७१॥

रुष्टे धवे सति रुषेह न वाच्यमेकं
क्षन्तव्यमेव सकलं स तु शाम्यतीत्यम् ।
तस्मिन्प्रसन्नवदने चकितेव वत्से
सिध्यत्यभीष्टमनघे क्षमयैव सर्वम् ॥७२॥

भर्तुः समक्षमपि तद्वदनं समीक्ष्य
वाच्यो न जातु सुभगे परपूरुषस्ते ।
किं वाच्य एष रहसीति तवोपदेशः
शङ्का वधूपुरुषयोः क्षपयेद्धि हार्दम् ॥७३॥

आयाति भर्तरि तु पुत्रि विहाय कार्य-
मुत्थाय शीघ्रमुदकेन पदावनेकः ।
कार्यो यथाभिरुचि हे सति जीवनं वा
नो पेक्षणीयमणुमात्रमपीह कं ते ॥७४॥

धवे परोक्षेऽपि कदाचिदेयुर्गृहं तदीया अपि वा महान्तः ।
ते पूजनीया बहुमानपूर्व नो चेन्निराशाः कुलदाहकाः स्युः ॥७५॥

पित्रोरिव श्वशुरयोरनुवर्तितव्यं
तद्वन्मृगाक्षि सहजेष्वपि देवरेषु ।
ते स्नेहिनो हि कुपिता इतरेतरस्य
योगं विभिद्युरिति मे मनसि प्रतर्कः ॥७६॥

हितोपदेशे विनिविष्टमानसौ वधूवरौ राजगृहं समीयतुः ।
लब्धानुमानौ गुरुबन्धुबर्गतो बभूव संज्ञोभयभारतीति ॥७७॥

सा भारती दुर्वसनेन दत्तं पुनः प्रसन्नेन पुराऽऽत्तहर्षा ।
शापावधिं संसदि वर्त्स्यते यत्सर्वज्ञतानिर्वहणाय साक्ष्यम् ॥७८॥

स भारतीसाक्षिक सर्ववित्त्वोऽप्यात्मीयशक्त्या शिशुवद्विभातः ।
स्वशैशवस्योचितमन्त्रकाङ्क्षीत्स केशवो यद्वदुदारवृत्तः ॥७९॥

शैशवे स्थितवता चपलाशे शाङ्गिणेव वटवृक्षपलाशे ।
आत्मनीदमखिलं विलुलोके भाविभूतमपि यत्खलु लोके ॥८०॥

तं ददर्श जनताऽद्भुतबालं लीलयाऽधिगतनूतनदोलम् ।
वासुदेवमिव वामनलीलं लोचनैरनिमिषैरनुवेलम् ॥८१॥

कोमलेन नवनीरदराजिश्यामलेन नितरां समराजि ।
केशवेशतमसाऽधिकमस्य केशवेशचतुरास्यसमस्य ॥८२॥

शाक्यैः पाशुपतैरपि क्षपणकैः कापालिकैर्वैष्णवै-
रप्यन्यैरखिलैः खलैः खलु खिलं दुर्वादिभिर्वैदिकम् ।
पन्थानं परिरक्षितुं क्षितितलं प्राप्तः परिक्रीडते
घोरे संसृतिकानने विचरतां भद्रङ्करः शङ्करः ॥८३॥

इति श्रीमाधवीये तत्तदेवावतारार्थकः ।
सङ्क्षेपशङ्करजये तृतीयः सर्ग आभवत् ॥

आदितः श्लोकाः २७४

N/A

References : N/A
Last Updated : January 23, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP