शङ्करदिग्विजयम् - अथ त्रयोदशः सर्गः

शङ्करदिग्विजयम्


ततः कदाचित् प्रणिपत्य भक्त्या सुरेश्वरार्यो गुरुमात्मदेशम् ।
शारीरकेऽत्यन्तगभीरभावे वृत्ति स्फुटं कर्तुमना जगाद ॥१॥

मम यत्करणीयमस्ति ते त्वमिमं मामनुशाध्यसंशयम् ।
तदिदं पुरुषस्य जीवितं यदयं जीवति भक्तिमान् गुरौ ॥२॥

इतीरिते शिष्यवरेण शिष्यं प्रोचे गरीयानतिहृष्टचेताः ।
मत्कस्य भाष्यस्य विधेयमिष्टं निवन्धनं वार्तिकनामधेयम् ॥३॥

द्रष्टुं सतर्कं भवदीयभाष्यं गम्भीरवाक्यं न ममास्ति शक्तिः ।
तथाऽपि भावत्ककटाक्षपाते यते यथाशक्ति निबन्धनाय ॥४॥

अस्त्वेवमित्यार्यपदाभ्यनुज्ञामादाय मूर्ध्ना स विनिर्जगाम ।
अथाम्बुजाङ्ग्रेर्दयिताः सतीर्थ्यास्तं चित्सुखाद्या रहसीत्थमूचुः ॥५॥

योऽयं प्रयत्नः क्रियते हिताय हिताय नायं विफलत्वनर्थम् ।
प्रत्येकमेवं गुरवे निवेद्य बोद्धा स्वयं कर्मणि तत्परश्च ॥६॥

यः सार्वलौकिकमपीश्वरमीश्वराणां प्रत्यादिदेश बहुयुक्तिभिरुत्तरज्ञः ।
कर्मैव नाकनरकादिफलं ददाति नैवं परोऽस्ति फलदो जगदीशितेति ॥७॥

प्रत्येकमस्य प्रलयं वदन्ति पुराणवाक्यानि स तस्य कर्ता ।
व्यासो मुनिर्जैमिनिरस्य शिष्यस्तत्पक्षपाती प्रलयावलम्वी ॥८॥

गुरोश्च शिष्यस्य च पक्षभेदे कथं तयोः स्याद्गुरुशिष्यभावः ।
तथाऽपि यद्यस्ति स पूर्वपक्षः सिद्धान्तभावस्तु गुरूक्त एव ॥९॥

आ जन्मनः स खलु कर्मणि यो जितात्मा
कुर्वन्नवस्थित इहानिशमेव कर्म ।
ब्रूते परांश्च कुरुतावहिताः प्रयत्नात्
स्वर्गादिकं सुखमवाप्स्यथ किं वृथाध्वे ॥१०॥

एवंविधेन क्रियते निबन्धनं यदि त्वदाज्ञामवलम्ब्य भाष्यके ।
भाष्यं परं कर्मपरं स योक्ष्यते मा च्यावि मूलादपि वृद्धिमिच्छता ॥११॥

संन्यासमप्येष न बुद्धिपूर्वकं व्यधत्त वादे विजितो वशो व्यधात् ।
तस्मान्न विश्वासपदं विभाति नो मा चीकरोऽनेन निबन्धनं गुरो ॥१२॥

यः शक्नुयात् कर्म विधातुमीप्सितं सोऽयं न कर्माणि विहातुमर्हति ।
यद्यस्ति संन्यासविधौ दुराग्रहो जात्यन्धमूकादिरमुष्य गोचरः ॥१३॥

एवं सदा भट्टमतानुसारिणो ब्रुवन्त्यसौ तन्मतपक्षपातवान् ।
एवं स्थिते योग्यमदो विधीयतां न नोऽस्ति निर्बन्धनमत्र किञ्चन ॥१४॥

पुरा किलास्मासु सुरापगायाः पारे परस्मिन् विचरत्सु सत्सु ।
आकारयामास भवानशेषान् भक्तिं परिज्ञातुमिवास्मदीयाम् ॥१५॥

तदा तदाकर्ण्य समाकुलेषु नावर्थमस्माप्सु परिभ्रमत्सु ।
सनन्दनस्त्वेष वियत्तटिन्या झरीमभिप्रस्थित एव तूर्णम् ॥१६॥

अनन्यसाधारणमस्य भावमाचार्यवर्ये भगवत्यवेक्ष्य ।
तुष्टा त्रिवर्मा कनकाम्बुजानि प्रादुष्करोति स्म पदे पदे च ॥१७॥

पदानि तेषु प्रणिधाय युष्मत्सकाशमागाद्यदयं महात्मा ।
ततोऽतितुष्टो भगवांश्चकार नाम्ना तमेनं किल पद्मपादम् ॥१८॥

स एव युष्पच्चरणारविन्लसेवाविनिर्घृतसमस्तभेदः ।
आजानसिद्धोऽर्हति सूत्रभाष्येवृत्तिं विधातुं भगवन्नगाधे ॥१९॥

यद्वाऽयमानन्दगिरिर्यदुग्रतपःप्रसन्ना परमेष्टिपत्नी
भवत्प्रवन्धेषु यथाभिसन्धि व्याख्यानसामर्थ्यवरं दिदेश ॥२०॥

कर्मैकतानमतिरेष कथं गुरो ते विश्वासपात्रमभवन्ननु विश्वरूपः ।
भाष्यस्य पद्मपद एव करातु टीकामित्यूचिरे रहसि योगिवरं विधेयाः ॥२१॥

अत्रान्तरेऽभ्यर्णगतः स तूर्णं सनन्दनो वाक्यमुदाजहार ।
आचार्य हस्तामलकोऽपि कल्पो भवत्कृतौ वार्तिकमेष कर्तुम् ॥२२॥

यतः करस्थामलकाविशेषं जानाति सिद्धान्तमसावशेषम् ।
अतो ह्यमुष्मै भवतैव पूर्वमदायि हस्तामलकाभिधानम् ॥२३॥

वार्णी समाकर्ण्य सनन्दनस्य सामिस्मितं भाष्यकृदाबभाषे ।
नैपुण्यमन्यादृशमस्य किन्तु समाहितत्वान्न बहिःप्रवृत्तिः ॥२४॥

अयं तु बाल्ये न पपाठ पित्रा नियोजितः सादरमक्षराणि ।
न चोपनीतोऽपि गुरोः सकाशादध्यैष्ट वेदान् परमार्थनिष्ठः ॥२५॥

बालैर्न चिक्रीड न चान्नमैच्छन्न चारुवाचं ह्यवदत् कदाऽपि ।
निश्चित्य भूतोपहतं तमेनमानिन्यिरेऽस्मन्निकटं कदाचित् ॥२६॥

अस्मानवेक्ष्यैव मुहुः प्रणम्य कृताञ्जलौ तिष्ठति बालकेऽस्मिन् ।
इमामपूर्वां प्रकृतिं विलोक्य विसिष्मिये तत्र जनः समेतः ॥२७॥

कस्त्वं शिशो कस्य सुतः कुतो वेत्यस्माभिराचष्ट किलैष पृष्टः ।
आत्मानमानन्दघनस्वरूपं विस्मापयन् वृत्तमयैर्वचो भिः ॥२८॥

तदा कदाऽप्यश्रुतिगोचरं तदाकर्ण्य वाग्वैभवमात्मजस्य ।
पिता प्रपद्यास्य परं प्रहर्षं सप्रश्रयां वाचमुवाच विज्ञः ॥२९॥

जनैर्जडत्वेन विनिश्चितोऽपि ब्रवीति यद्येष परात्मतत्वम् ।
प्रज्ञोन्नतानामपि दुर्विभाव्यं किं वर्ण्यतेऽर्हन् भवतः प्रभावः ॥३०॥

आ जन्मनः संसृतिपाशमुक्तः शिष्योऽस्त्वयं विश्वगुरोस्तवैव ।
प्रफुल्लराजीववने विहारी कथं रमेत क्षुरके मरालः ॥३१॥

विज्ञाप्य तस्मिन्निति निर्गतेऽसौ तदाप्रभृत्यत्र वसत्युदारः ।
आ शैशवादात्म विलीनचेताः कथं प्रवर्तेत महाप्रबन्धे ॥३२
श्रुत्वेति पच्छुरमुं विनेयाः स्वामिन् विनैव श्रवणाद्युपायैः ।
अलब्ध विज्ञानमयं कथं वा भवानिदं साधु विदाङ्करोतु ॥३३॥

तानब्रवीत् संयमिचक्रवर्ती कश्चित् पुरा यामुनतीरवर्ती ।
बभूव सिद्धः किल साधुवृत्तः सांसारिकेभ्यः सुतरां निवृत्तः ॥३४॥

तस्यान्तिके काचन विप्रकन्या द्विहायनं जातु निवेश्य बालम् ।
क्षणं प्रतीक्षस्व शिशुं द्विजेति स्नातुं सखीभिः सह निर्जगाम ॥३५॥

अत्रान्तरे दैववशात्स बालश्चङ्क्रम्यमाणो निपपात नद्याम् ।
मृतं तमादाय शिशुं तदीयाश्चक्रन्दुरुच्चैः पुरतो महर्षेः ॥३६॥

आक्रोशमाकर्ण्य मुनिः स तेषामत्यन्तखिन्नो निजयोगभूम्ना ।
प्राविक्षदङ्गं पृथुकस्य तस्य स एष हस्तामलकस्तपस्वी ॥३७॥

तस्मादयं वेद विनोपदेशं श्रुतीरनन्ताः सकलाः स्मृतीश्च ।
सर्वाणि शास्त्राणि परं च तत्त्त्रमज्ञातमेतेन न किञ्चिदस्ति ॥३८॥

तत्तादृगात्मा न बहिःप्रवृत्तौ नियोगमर्हत्ययमत्र वृत्तौ ।
स मण्डनस्त्वर्हति बुद्धतत्वः सरस्वतीसाक्षिकसर्ववित्त्वः ॥३९॥

तत्तादृशात्युज्ज्वलकीर्तिराशिः समस्तशास्त्रार्णवपारदर्शी ।
आसादितो धर्महितः प्रयत्नात् स चेन्न रोचेत न दृश्यतेऽन्यः ॥४१॥

अहं बहूनामनभीष्टकार्यं न कारयिष्ये हि महानिबन्धे ।
किञ्चात्र संशीतिरभून्ममातो यदेककार्ये बहवः प्रतीपाः ॥४२॥

भवन्निदेशाद्भगवन् सनन्दनः करिष्यते भाष्यनिबन्धमीप्सितम् ।
स ब्रह्मचर्यादुररीकृताश्रमो मतिप्रकर्षो विदितो हि सर्वतः ॥४२॥

सनन्दनो नन्दयिता जनानां निबन्धमेकं विदधातु भाष्ये ।
न वार्तिकं तत्तु परप्रतिज्ञं व्यधात् प्रतिज्ञां स हि नुत्नदीक्षः ॥४३॥

आदिश्येत्थं शिष्यसङघं यतीन्द्रः प्रोवाचेत्थं नुत्नभिक्षुं रहस्तम् ।
भाष्ये भिक्षो मा कृथा वार्तिकं त्वं नेमे शिष्याः सेहिरे दुर्विदग्धाः ॥४४॥

तात्पर्यं ते गेहिधर्मेषु दृष्ट्वा तत्संस्कारं साम्प्रतं शङ्कमानाः ।
भाष्ये कृत्वा वार्तिकं याजयेत्स भाष्यं प्राहुः स्वीयसिद्धान्तशेषम् ॥४५॥

नास्त्येवासावाश्रमस्तुर्य इत्थं सिद्धान्तोऽयं तावको वेदसिद्धः ।
द्वारि द्वाःस्थैर्वारिता भिक्षमाणा वेश्मान्तस्ते न प्रवेशं लभन्ते ॥४६॥

इत्याद्यां तां किंवदन्तीं विदित्वा तेषां नाऽऽसीत्प्रत्ययस्त्वय्यनल्पे ।
स्वातन्त्र्यात्त्वं ग्रन्थमेकं महात्मन् कृत्वा मह्यं दर्शयाध्यात्मनिष्ठम् ॥४७॥

विद्वन् यद्वत्प्रत्ययः स्यादमीषां शिष्याणां नो ग्रन्थसन्दर्शनेन ।
इत्युक्त्वेमं वार्तिकं सूत्रभाष्ये नाभूद्धाहेत्याप खेदं च किञ्चित् ॥४८॥

शिष्योक्तिभिः शिथिलितात्ममनोरथोऽसा-
वेनं स्वतन्त्रकृतिनिर्मितये न्ययुङक्त ।
नैष्कर्म्यसिद्धिमचिराद्विदधत्स चेत्थं
न्याय्यामविन्दत सुरेश्वरदेशिकाख्याम् ॥४९॥

नैष्कर्म्यसिद्धिमथ तां निरवद्र्ययुक्तिं निष्कर्मतत्त्वविषयावगतिप्रधानाम् ।
आद्यन्तहृद्यपदबन्धवतीमुदारामाद्यन्तमैक्षततरां परितुष्टचेताः ॥५०॥

ग्रन्थं दृष्ट्वा मोदमानो मुनीन्द्रस्तं चान्येभ्यो दर्शयामास हृद्यम् ।
तेषां चाऽऽसीत्प्रत्ययस्तद्वदस्मिन् यद्वच्चान्यस्तत्त्वविद्यः स नेति ॥५१॥

यत्राद्यापि श्रूयते मस्करीन्द्रैर्निष्कर्माऽऽत्मा यत्र नैष्कर्म्यसिद्धिः ।
तन्नाम्नाऽयं ववृधे ग्रन्थवर्यस्तन्माहात्म्यात् सर्वलोकादृतोऽभूत् ॥५२॥

आचार्यवाक्येण विधित्सितेऽस्मिन् विघ्नं यदन्ये व्यधुरुत्ससर्ज ।
शापं कृतेऽस्मिन् कृतमप्युदारैः तद्वार्तिकं न प्रसरेत् पृथिव्याम् ॥५३॥

नैष्कर्म्यसिद्धयाख्यनिबन्धमेकं कृत्वाऽऽत्मपूज्याय निवेद्य चाऽऽप्त्वा ।
विश्वासमुक्त्वाऽथ पुनर्बभाषे स विश्वरूपो गुरुमात्मदेवम् ॥५४॥

न ख्यातिहेतोर्न च लाभहेतोर्नाप्यर्चनायै विहितः प्रबन्धः ।
नोल्लङ्घनीयं वचनं गुरूणां नोल्लङ्घने स्याद्गुरुशिष्यभावः ॥५५॥

पूर्वं गृहीत्वेऽपि न तत्स्वभावो न बाल्यमन्वेति हि यौवनस्थम् ।
न यौवनं वृद्धमुपैति तद्वत् व्रजन् हि पूर्वस्थितिमोज्झ्य गच्छेत् ॥५६॥

अहं गृही नात्र विचारणीयं किं तेन पूर्वं मन एव हेतुः ।
बन्धे च मोक्षे च मनोविशुद्धो गृही भवेद्वाऽप्युत मस्करी वा ॥५७॥

नास्त्येव चेदाश्रम उत्तमाऽऽदिः कथं च तत्प्राप्तिनिवृत्तिगामिनौ ।
प्रतिश्रवौ नौ कथमल्पकालौ न हि प्रतिज्ञा भगवन्निरुद्धा ॥५८॥

सम्भिक्षमाणा न लभन्त एव चेद्गृहप्रवेशं गुरुणा प्रवेशनम् ।
कथं हि भिक्षा विहिता ननुत्तमा को नाम लोकस्य मुखाभिधायकः ॥५९॥

तत्वोपदेशाद्वितितात्मतत्त्वो व्यधामहं संन्यसनं कृतात्मा ।
विरागभावान्न पराजितस्तु वादो हि तत्त्वस्य विनिर्णयाय ॥६०॥

पुरा गृहस्थेन मया प्रबन्धा नैयायिकादौ विहिता महार्थाः ।
इतः परं मे हृदयं चिकीर्षु त्वदङ्घ्रिसेवां न विलङघ्य किञ्चित् ॥६१॥

श्रद्धामद्वैतबद्धादरबुधपरिषच्छेमुषीसन्निषण्णा-
मर्वाग्दुर्वादिगर्वानलविपुलतरज्वालमालावलीढाम् ।
सिक्त्वा सूक्तामृतौघैरहह परिहसञ्जीवयस्यद्य सद्यः
को वा सेवापटुः स्याद्रणतरणविधौ सद्गुरोर्न्नैव जाने ॥६२॥

इत्युक्त्वोपरते सुरेश्वरगुरौ तेनैव शारीरके
नो सम्भाव्यहहात्र वार्तिकमिति प्रौढं शुर्गाग्निं शनैः ।
धीराग्र्यः शमयन्विवेकपयसा देवेश्वरेण त्रयी-
भाष्ये कारयितुं स वार्तिकयुगं बद्धादरोऽभुन्मुनिः ॥६३॥

भावानुकारिमृदुवाक्यनिवेशितार्थ
स्वीयैः पदैः सह निराकृतपूर्वपक्षम् ।
सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं
दृष्ट्वाऽभिनन्ध्य परितोषवशादवोचत् ॥६४॥

सत्यं यदात्थ विनयिन् मम याजुषी या
शाखा तदन्तगतभाष्यनिबन्ध इष्टः ।
तद्वार्तिकं मम कृते भवता प्रणेयं
सच्चेष्टितं परहितैकफलं प्रसिद्धम् ॥६५॥

तद्वत्वदीया खलु काण्वशाखा ममापि तत्रास्ति तदन्तभाष्यम् ।
तद्वार्तिकं चापि विधेयमिष्टं परोपकाराय सतां प्रवृत्तिः ॥६६॥

तत्रोभयत्र कुरु वार्तिकमार्तिहारि
कीर्तिं च याहि जितकार्तिकचन्द्रिकाभाम् ।
मा शङ्कि पूर्वमिव दुःशठवावयरोधो
मद्वाक्यमेव शरणं व्रज मा विचारीः ॥६७॥

इत्थं स उक्तो भगवत्पदेन श्री विश्वरूपो विदुषां वरिष्ठः ।
चकार भाष्यद्वयवार्तिके द्वे ह्याज्ञा गुरूगां ह्यविचारणीया ॥६८॥

आज्ञा गुरोरनुचरैर्न हि लङ्घनीयेत्युक्त्वा तयोर्निगमशेखरयोरुदारम् ।
निर्माय वार्तिकयुगं निजदेशिकाय निःसीमनिस्तुलनधीरुपदां चकार ॥६९॥

सनन्दनो नाम गुरोरनुज्ञया भाष्यस्य टीकां व्यघितेरितः पराम् ।
यत्पूर्वभागः किल पञ्चपादिका तच्छेषगा वृत्तिरिति प्रथीयसी ॥७०॥

व्यासर्षिसूत्र निचयस्य विवेचनाय
टीकाभिधं विजयडिण्डिममात्मकीर्तेः ।
निर्माय पद्मचरणो निरवद्ययुक्ति-
दृब्धं प्रबन्धमकरोद्गुरुदक्षिणां सः ॥७१॥

आलोचयन्नथ तदानुगतिं ग्रहाणा-
मूचे सुरेश्वरसमाह्वमुपह्वरे सः ।
पञ्चैव वत्स चरणाः प्रथिता इह स्यु-
स्तत्रापि सूत्रयुगलद्वयमेव भूम्ना ॥७२॥

प्रारब्धकर्मपरिपाकवशात् पुनस्त्वं
वाचस्पतित्वमधिगम्य वसुन्धरायाम् ।
भव्यां विधास्यसितमां मम भाग्यटीका-
माभूतसंलयमधिक्षिति सा च जीयात् ॥७३॥

इत्येवमुक्त्वऽथ यतीश्वरोऽसावानन्दगिर्यादिमुनीन् स हूत्वा ।
कुरुध्वमद्वैतपरान्निबन्धान्नित्यन्वशान्निर्ममसार्वभौमः ॥७४॥

ते सर्वेऽप्यनुमतिमाप्य देशिकेन्दोरानन्दाचलमुखरा महानुभावाः
आतेनुर्जगति यथास्वमात्मतत्त्वाम्भोजार्कान् विशदतरान् बहून्निबन्धान ॥७५॥

इति श्रीमाधवीये तद्वार्तिकान्तप्रवर्तनः ।
सङ्क्षेपशङ्करजये पूर्णः सर्गस्त्रयोदशः ॥१३॥

आदितः श्लोकाः १३८७।

N/A

References : N/A
Last Updated : January 23, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP