संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|शङ्करदिग्विजयम्| अथ त्रयोदशः सर्गः शङ्करदिग्विजयम् अनुक्रमणिका अथ प्रथमः सर्गः अथ द्वितीयः सर्गः अथ तृतीयः सर्गः अथ चतुर्थः सर्गः अथ पञ्चमः सर्गः अथ षष्ठः सर्गः अथ सप्तमः सर्गः अथ अथाष्टमः सर्गः अथ नवमः सर्गः अथ दशमः सर्गः अथ एकादशः सर्गः अथ द्वादशः सर्गः अथ त्रयोदशः सर्गः अथ चतुर्दशः सर्गः अथ पञ्चदशः सर्गः अथ षोडशः सर्गः शङ्करदिग्विजयम् - अथ त्रयोदशः सर्गः शङ्करदिग्विजयम् Tags : shankar digvijayशङ्कर दिग्विजय ब्रह्मविद्याविचारः Translation - भाषांतर ततः कदाचित् प्रणिपत्य भक्त्या सुरेश्वरार्यो गुरुमात्मदेशम् ।शारीरकेऽत्यन्तगभीरभावे वृत्ति स्फुटं कर्तुमना जगाद ॥१॥मम यत्करणीयमस्ति ते त्वमिमं मामनुशाध्यसंशयम् ।तदिदं पुरुषस्य जीवितं यदयं जीवति भक्तिमान् गुरौ ॥२॥इतीरिते शिष्यवरेण शिष्यं प्रोचे गरीयानतिहृष्टचेताः ।मत्कस्य भाष्यस्य विधेयमिष्टं निवन्धनं वार्तिकनामधेयम् ॥३॥द्रष्टुं सतर्कं भवदीयभाष्यं गम्भीरवाक्यं न ममास्ति शक्तिः ।तथाऽपि भावत्ककटाक्षपाते यते यथाशक्ति निबन्धनाय ॥४॥अस्त्वेवमित्यार्यपदाभ्यनुज्ञामादाय मूर्ध्ना स विनिर्जगाम ।अथाम्बुजाङ्ग्रेर्दयिताः सतीर्थ्यास्तं चित्सुखाद्या रहसीत्थमूचुः ॥५॥योऽयं प्रयत्नः क्रियते हिताय हिताय नायं विफलत्वनर्थम् ।प्रत्येकमेवं गुरवे निवेद्य बोद्धा स्वयं कर्मणि तत्परश्च ॥६॥यः सार्वलौकिकमपीश्वरमीश्वराणां प्रत्यादिदेश बहुयुक्तिभिरुत्तरज्ञः ।कर्मैव नाकनरकादिफलं ददाति नैवं परोऽस्ति फलदो जगदीशितेति ॥७॥प्रत्येकमस्य प्रलयं वदन्ति पुराणवाक्यानि स तस्य कर्ता ।व्यासो मुनिर्जैमिनिरस्य शिष्यस्तत्पक्षपाती प्रलयावलम्वी ॥८॥गुरोश्च शिष्यस्य च पक्षभेदे कथं तयोः स्याद्गुरुशिष्यभावः ।तथाऽपि यद्यस्ति स पूर्वपक्षः सिद्धान्तभावस्तु गुरूक्त एव ॥९॥आ जन्मनः स खलु कर्मणि यो जितात्माकुर्वन्नवस्थित इहानिशमेव कर्म ।ब्रूते परांश्च कुरुतावहिताः प्रयत्नात्स्वर्गादिकं सुखमवाप्स्यथ किं वृथाध्वे ॥१०॥एवंविधेन क्रियते निबन्धनं यदि त्वदाज्ञामवलम्ब्य भाष्यके ।भाष्यं परं कर्मपरं स योक्ष्यते मा च्यावि मूलादपि वृद्धिमिच्छता ॥११॥संन्यासमप्येष न बुद्धिपूर्वकं व्यधत्त वादे विजितो वशो व्यधात् ।तस्मान्न विश्वासपदं विभाति नो मा चीकरोऽनेन निबन्धनं गुरो ॥१२॥यः शक्नुयात् कर्म विधातुमीप्सितं सोऽयं न कर्माणि विहातुमर्हति ।यद्यस्ति संन्यासविधौ दुराग्रहो जात्यन्धमूकादिरमुष्य गोचरः ॥१३॥एवं सदा भट्टमतानुसारिणो ब्रुवन्त्यसौ तन्मतपक्षपातवान् ।एवं स्थिते योग्यमदो विधीयतां न नोऽस्ति निर्बन्धनमत्र किञ्चन ॥१४॥पुरा किलास्मासु सुरापगायाः पारे परस्मिन् विचरत्सु सत्सु ।आकारयामास भवानशेषान् भक्तिं परिज्ञातुमिवास्मदीयाम् ॥१५॥तदा तदाकर्ण्य समाकुलेषु नावर्थमस्माप्सु परिभ्रमत्सु ।सनन्दनस्त्वेष वियत्तटिन्या झरीमभिप्रस्थित एव तूर्णम् ॥१६॥अनन्यसाधारणमस्य भावमाचार्यवर्ये भगवत्यवेक्ष्य ।तुष्टा त्रिवर्मा कनकाम्बुजानि प्रादुष्करोति स्म पदे पदे च ॥१७॥पदानि तेषु प्रणिधाय युष्मत्सकाशमागाद्यदयं महात्मा ।ततोऽतितुष्टो भगवांश्चकार नाम्ना तमेनं किल पद्मपादम् ॥१८॥स एव युष्पच्चरणारविन्लसेवाविनिर्घृतसमस्तभेदः ।आजानसिद्धोऽर्हति सूत्रभाष्येवृत्तिं विधातुं भगवन्नगाधे ॥१९॥यद्वाऽयमानन्दगिरिर्यदुग्रतपःप्रसन्ना परमेष्टिपत्नीभवत्प्रवन्धेषु यथाभिसन्धि व्याख्यानसामर्थ्यवरं दिदेश ॥२०॥कर्मैकतानमतिरेष कथं गुरो ते विश्वासपात्रमभवन्ननु विश्वरूपः ।भाष्यस्य पद्मपद एव करातु टीकामित्यूचिरे रहसि योगिवरं विधेयाः ॥२१॥अत्रान्तरेऽभ्यर्णगतः स तूर्णं सनन्दनो वाक्यमुदाजहार ।आचार्य हस्तामलकोऽपि कल्पो भवत्कृतौ वार्तिकमेष कर्तुम् ॥२२॥यतः करस्थामलकाविशेषं जानाति सिद्धान्तमसावशेषम् ।अतो ह्यमुष्मै भवतैव पूर्वमदायि हस्तामलकाभिधानम् ॥२३॥वार्णी समाकर्ण्य सनन्दनस्य सामिस्मितं भाष्यकृदाबभाषे ।नैपुण्यमन्यादृशमस्य किन्तु समाहितत्वान्न बहिःप्रवृत्तिः ॥२४॥अयं तु बाल्ये न पपाठ पित्रा नियोजितः सादरमक्षराणि ।न चोपनीतोऽपि गुरोः सकाशादध्यैष्ट वेदान् परमार्थनिष्ठः ॥२५॥बालैर्न चिक्रीड न चान्नमैच्छन्न चारुवाचं ह्यवदत् कदाऽपि ।निश्चित्य भूतोपहतं तमेनमानिन्यिरेऽस्मन्निकटं कदाचित् ॥२६॥अस्मानवेक्ष्यैव मुहुः प्रणम्य कृताञ्जलौ तिष्ठति बालकेऽस्मिन् ।इमामपूर्वां प्रकृतिं विलोक्य विसिष्मिये तत्र जनः समेतः ॥२७॥कस्त्वं शिशो कस्य सुतः कुतो वेत्यस्माभिराचष्ट किलैष पृष्टः ।आत्मानमानन्दघनस्वरूपं विस्मापयन् वृत्तमयैर्वचो भिः ॥२८॥तदा कदाऽप्यश्रुतिगोचरं तदाकर्ण्य वाग्वैभवमात्मजस्य ।पिता प्रपद्यास्य परं प्रहर्षं सप्रश्रयां वाचमुवाच विज्ञः ॥२९॥जनैर्जडत्वेन विनिश्चितोऽपि ब्रवीति यद्येष परात्मतत्वम् ।प्रज्ञोन्नतानामपि दुर्विभाव्यं किं वर्ण्यतेऽर्हन् भवतः प्रभावः ॥३०॥आ जन्मनः संसृतिपाशमुक्तः शिष्योऽस्त्वयं विश्वगुरोस्तवैव ।प्रफुल्लराजीववने विहारी कथं रमेत क्षुरके मरालः ॥३१॥विज्ञाप्य तस्मिन्निति निर्गतेऽसौ तदाप्रभृत्यत्र वसत्युदारः ।आ शैशवादात्म विलीनचेताः कथं प्रवर्तेत महाप्रबन्धे ॥३२श्रुत्वेति पच्छुरमुं विनेयाः स्वामिन् विनैव श्रवणाद्युपायैः ।अलब्ध विज्ञानमयं कथं वा भवानिदं साधु विदाङ्करोतु ॥३३॥तानब्रवीत् संयमिचक्रवर्ती कश्चित् पुरा यामुनतीरवर्ती ।बभूव सिद्धः किल साधुवृत्तः सांसारिकेभ्यः सुतरां निवृत्तः ॥३४॥तस्यान्तिके काचन विप्रकन्या द्विहायनं जातु निवेश्य बालम् ।क्षणं प्रतीक्षस्व शिशुं द्विजेति स्नातुं सखीभिः सह निर्जगाम ॥३५॥अत्रान्तरे दैववशात्स बालश्चङ्क्रम्यमाणो निपपात नद्याम् ।मृतं तमादाय शिशुं तदीयाश्चक्रन्दुरुच्चैः पुरतो महर्षेः ॥३६॥आक्रोशमाकर्ण्य मुनिः स तेषामत्यन्तखिन्नो निजयोगभूम्ना ।प्राविक्षदङ्गं पृथुकस्य तस्य स एष हस्तामलकस्तपस्वी ॥३७॥तस्मादयं वेद विनोपदेशं श्रुतीरनन्ताः सकलाः स्मृतीश्च ।सर्वाणि शास्त्राणि परं च तत्त्त्रमज्ञातमेतेन न किञ्चिदस्ति ॥३८॥तत्तादृगात्मा न बहिःप्रवृत्तौ नियोगमर्हत्ययमत्र वृत्तौ ।स मण्डनस्त्वर्हति बुद्धतत्वः सरस्वतीसाक्षिकसर्ववित्त्वः ॥३९॥तत्तादृशात्युज्ज्वलकीर्तिराशिः समस्तशास्त्रार्णवपारदर्शी ।आसादितो धर्महितः प्रयत्नात् स चेन्न रोचेत न दृश्यतेऽन्यः ॥४१॥अहं बहूनामनभीष्टकार्यं न कारयिष्ये हि महानिबन्धे ।किञ्चात्र संशीतिरभून्ममातो यदेककार्ये बहवः प्रतीपाः ॥४२॥भवन्निदेशाद्भगवन् सनन्दनः करिष्यते भाष्यनिबन्धमीप्सितम् ।स ब्रह्मचर्यादुररीकृताश्रमो मतिप्रकर्षो विदितो हि सर्वतः ॥४२॥सनन्दनो नन्दयिता जनानां निबन्धमेकं विदधातु भाष्ये ।न वार्तिकं तत्तु परप्रतिज्ञं व्यधात् प्रतिज्ञां स हि नुत्नदीक्षः ॥४३॥आदिश्येत्थं शिष्यसङघं यतीन्द्रः प्रोवाचेत्थं नुत्नभिक्षुं रहस्तम् ।भाष्ये भिक्षो मा कृथा वार्तिकं त्वं नेमे शिष्याः सेहिरे दुर्विदग्धाः ॥४४॥तात्पर्यं ते गेहिधर्मेषु दृष्ट्वा तत्संस्कारं साम्प्रतं शङ्कमानाः ।भाष्ये कृत्वा वार्तिकं याजयेत्स भाष्यं प्राहुः स्वीयसिद्धान्तशेषम् ॥४५॥नास्त्येवासावाश्रमस्तुर्य इत्थं सिद्धान्तोऽयं तावको वेदसिद्धः ।द्वारि द्वाःस्थैर्वारिता भिक्षमाणा वेश्मान्तस्ते न प्रवेशं लभन्ते ॥४६॥इत्याद्यां तां किंवदन्तीं विदित्वा तेषां नाऽऽसीत्प्रत्ययस्त्वय्यनल्पे ।स्वातन्त्र्यात्त्वं ग्रन्थमेकं महात्मन् कृत्वा मह्यं दर्शयाध्यात्मनिष्ठम् ॥४७॥विद्वन् यद्वत्प्रत्ययः स्यादमीषां शिष्याणां नो ग्रन्थसन्दर्शनेन ।इत्युक्त्वेमं वार्तिकं सूत्रभाष्ये नाभूद्धाहेत्याप खेदं च किञ्चित् ॥४८॥शिष्योक्तिभिः शिथिलितात्ममनोरथोऽसा-वेनं स्वतन्त्रकृतिनिर्मितये न्ययुङक्त ।नैष्कर्म्यसिद्धिमचिराद्विदधत्स चेत्थंन्याय्यामविन्दत सुरेश्वरदेशिकाख्याम् ॥४९॥नैष्कर्म्यसिद्धिमथ तां निरवद्र्ययुक्तिं निष्कर्मतत्त्वविषयावगतिप्रधानाम् ।आद्यन्तहृद्यपदबन्धवतीमुदारामाद्यन्तमैक्षततरां परितुष्टचेताः ॥५०॥ग्रन्थं दृष्ट्वा मोदमानो मुनीन्द्रस्तं चान्येभ्यो दर्शयामास हृद्यम् ।तेषां चाऽऽसीत्प्रत्ययस्तद्वदस्मिन् यद्वच्चान्यस्तत्त्वविद्यः स नेति ॥५१॥यत्राद्यापि श्रूयते मस्करीन्द्रैर्निष्कर्माऽऽत्मा यत्र नैष्कर्म्यसिद्धिः ।तन्नाम्नाऽयं ववृधे ग्रन्थवर्यस्तन्माहात्म्यात् सर्वलोकादृतोऽभूत् ॥५२॥आचार्यवाक्येण विधित्सितेऽस्मिन् विघ्नं यदन्ये व्यधुरुत्ससर्ज ।शापं कृतेऽस्मिन् कृतमप्युदारैः तद्वार्तिकं न प्रसरेत् पृथिव्याम् ॥५३॥नैष्कर्म्यसिद्धयाख्यनिबन्धमेकं कृत्वाऽऽत्मपूज्याय निवेद्य चाऽऽप्त्वा ।विश्वासमुक्त्वाऽथ पुनर्बभाषे स विश्वरूपो गुरुमात्मदेवम् ॥५४॥न ख्यातिहेतोर्न च लाभहेतोर्नाप्यर्चनायै विहितः प्रबन्धः ।नोल्लङ्घनीयं वचनं गुरूणां नोल्लङ्घने स्याद्गुरुशिष्यभावः ॥५५॥पूर्वं गृहीत्वेऽपि न तत्स्वभावो न बाल्यमन्वेति हि यौवनस्थम् ।न यौवनं वृद्धमुपैति तद्वत् व्रजन् हि पूर्वस्थितिमोज्झ्य गच्छेत् ॥५६॥अहं गृही नात्र विचारणीयं किं तेन पूर्वं मन एव हेतुः ।बन्धे च मोक्षे च मनोविशुद्धो गृही भवेद्वाऽप्युत मस्करी वा ॥५७॥नास्त्येव चेदाश्रम उत्तमाऽऽदिः कथं च तत्प्राप्तिनिवृत्तिगामिनौ ।प्रतिश्रवौ नौ कथमल्पकालौ न हि प्रतिज्ञा भगवन्निरुद्धा ॥५८॥सम्भिक्षमाणा न लभन्त एव चेद्गृहप्रवेशं गुरुणा प्रवेशनम् ।कथं हि भिक्षा विहिता ननुत्तमा को नाम लोकस्य मुखाभिधायकः ॥५९॥तत्वोपदेशाद्वितितात्मतत्त्वो व्यधामहं संन्यसनं कृतात्मा ।विरागभावान्न पराजितस्तु वादो हि तत्त्वस्य विनिर्णयाय ॥६०॥पुरा गृहस्थेन मया प्रबन्धा नैयायिकादौ विहिता महार्थाः ।इतः परं मे हृदयं चिकीर्षु त्वदङ्घ्रिसेवां न विलङघ्य किञ्चित् ॥६१॥श्रद्धामद्वैतबद्धादरबुधपरिषच्छेमुषीसन्निषण्णा-मर्वाग्दुर्वादिगर्वानलविपुलतरज्वालमालावलीढाम् ।सिक्त्वा सूक्तामृतौघैरहह परिहसञ्जीवयस्यद्य सद्यःको वा सेवापटुः स्याद्रणतरणविधौ सद्गुरोर्न्नैव जाने ॥६२॥इत्युक्त्वोपरते सुरेश्वरगुरौ तेनैव शारीरकेनो सम्भाव्यहहात्र वार्तिकमिति प्रौढं शुर्गाग्निं शनैः ।धीराग्र्यः शमयन्विवेकपयसा देवेश्वरेण त्रयी-भाष्ये कारयितुं स वार्तिकयुगं बद्धादरोऽभुन्मुनिः ॥६३॥भावानुकारिमृदुवाक्यनिवेशितार्थस्वीयैः पदैः सह निराकृतपूर्वपक्षम् ।सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपंदृष्ट्वाऽभिनन्ध्य परितोषवशादवोचत् ॥६४॥सत्यं यदात्थ विनयिन् मम याजुषी याशाखा तदन्तगतभाष्यनिबन्ध इष्टः ।तद्वार्तिकं मम कृते भवता प्रणेयंसच्चेष्टितं परहितैकफलं प्रसिद्धम् ॥६५॥तद्वत्वदीया खलु काण्वशाखा ममापि तत्रास्ति तदन्तभाष्यम् ।तद्वार्तिकं चापि विधेयमिष्टं परोपकाराय सतां प्रवृत्तिः ॥६६॥तत्रोभयत्र कुरु वार्तिकमार्तिहारिकीर्तिं च याहि जितकार्तिकचन्द्रिकाभाम् ।मा शङ्कि पूर्वमिव दुःशठवावयरोधोमद्वाक्यमेव शरणं व्रज मा विचारीः ॥६७॥इत्थं स उक्तो भगवत्पदेन श्री विश्वरूपो विदुषां वरिष्ठः ।चकार भाष्यद्वयवार्तिके द्वे ह्याज्ञा गुरूगां ह्यविचारणीया ॥६८॥आज्ञा गुरोरनुचरैर्न हि लङ्घनीयेत्युक्त्वा तयोर्निगमशेखरयोरुदारम् ।निर्माय वार्तिकयुगं निजदेशिकाय निःसीमनिस्तुलनधीरुपदां चकार ॥६९॥सनन्दनो नाम गुरोरनुज्ञया भाष्यस्य टीकां व्यघितेरितः पराम् ।यत्पूर्वभागः किल पञ्चपादिका तच्छेषगा वृत्तिरिति प्रथीयसी ॥७०॥व्यासर्षिसूत्र निचयस्य विवेचनायटीकाभिधं विजयडिण्डिममात्मकीर्तेः ।निर्माय पद्मचरणो निरवद्ययुक्ति-दृब्धं प्रबन्धमकरोद्गुरुदक्षिणां सः ॥७१॥आलोचयन्नथ तदानुगतिं ग्रहाणा-मूचे सुरेश्वरसमाह्वमुपह्वरे सः ।पञ्चैव वत्स चरणाः प्रथिता इह स्यु-स्तत्रापि सूत्रयुगलद्वयमेव भूम्ना ॥७२॥प्रारब्धकर्मपरिपाकवशात् पुनस्त्वंवाचस्पतित्वमधिगम्य वसुन्धरायाम् ।भव्यां विधास्यसितमां मम भाग्यटीका-माभूतसंलयमधिक्षिति सा च जीयात् ॥७३॥इत्येवमुक्त्वऽथ यतीश्वरोऽसावानन्दगिर्यादिमुनीन् स हूत्वा ।कुरुध्वमद्वैतपरान्निबन्धान्नित्यन्वशान्निर्ममसार्वभौमः ॥७४॥ते सर्वेऽप्यनुमतिमाप्य देशिकेन्दोरानन्दाचलमुखरा महानुभावाःआतेनुर्जगति यथास्वमात्मतत्त्वाम्भोजार्कान् विशदतरान् बहून्निबन्धान ॥७५॥इति श्रीमाधवीये तद्वार्तिकान्तप्रवर्तनः ।सङ्क्षेपशङ्करजये पूर्णः सर्गस्त्रयोदशः ॥१३॥आदितः श्लोकाः १३८७। N/A References : N/A Last Updated : January 23, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP