संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीक्षेत्रमाहात्म्यम्| अध्याय ५६ अवन्तीक्षेत्रमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ विषयानुक्रमणिका अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ५६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ५६ Translation - भाषांतर ॥ सनत्कुमार उवाच ॥तीर्थमन्यतरं व्यास क्षातासंगमसंभवम् ॥यत्र तु स्नानमात्रेण महापापैः प्रमुच्यते ॥१॥अमा वै शनिवारेण यदायाति समाहितः ॥पितॄनुद्दिश्य यः कुर्याच्छ्राद्धं चैव तिलोदकम् ॥२॥पश्येच्छनैश्चरं देवं स्थावरं लिंगमुत्तमम् ॥तस्य शानैश्चरी पीडा न भवेत्तु कदाचन ॥३॥॥ व्यास उवाच ॥महातीर्थं समाख्यातं महाकालवने शुभे ॥भूयस्तु श्रोतुमिच्छामि विस्तरेण तपोधन ॥४॥॥ सनत्कुमार उवाच ॥श्रूयतां भो द्विजश्रेष्ठ कथा पौराणिकी शुभा ॥यस्याः श्रवणमात्रेण महापापक्षयो भवेत् ॥५॥रेवा चर्मण्वती क्षाता तिस्रो नद्यः पुराऽनघ ॥जातास्त्रैलोक्यपावन्यो भुवि चामरकंटकात् ॥६॥पुण्याः पुण्यजला रम्याः पवित्राः पापहारकाः ॥पुनंत्यः सर्वलोकानां स्नानात्पानात्तथापगाः॥ ७॥एकदोपवने रम्ये मांधातृक्षेत्र उत्तमे ॥मिथो रमंति संहृष्टाः परस्परजिगीषया ॥८॥किंचिद्दोषप्रसंगेन मिथो भेदो ह्यजायत ॥रेवासंगं परित्यक्ता भित्त्वा विंध्यगिरिं वरम् ॥९॥महाकालवने रम्ये समा याता सरिद्वरा ॥यत्र शिप्रा महापुण्या पुरी ह्येषाऽमरावती ॥१०॥सर्वतीर्थवरं श्रेष्ठं नामा रुद्रसरः स्मृतम् ॥भुक्तिमुक्तिप्रदं नित्यं सिद्धर्षिगण सेवितम्॥ ११॥तत्रागत्य पुरा क्षाता शिप्रासंगं समाश्रिता ॥तत्र तीर्थं परं जातं क्षातासंगमसंज्ञितम् ॥यत्र धूतरजा जातः सद्यः प्रोक्तो विभावसुः ॥१२॥॥ व्यास उवाच ॥कथं सूर्यस्त्वया प्रोक्तो विरजो ह्यभवत्पुरा ॥एतद्वेदितुमिच्छामि त्वत्तो ब्रह्मविदांवर ॥१३॥॥ सनत्कुमार उवाच ॥पुरानुसूर्यां सावित्रीं त्वष्टा स्वतनयां ददौ ॥१४॥पतिधर्मरता नित्यं सिषेवे लोकचक्षुषे ॥तस्यां वै मिथुनं जज्ञे लोकसाक्षिविभावसोः ॥१५॥यमो वैवस्वतो जातो यमुना लोकपावनी ॥ततस्त्वष्टाऽब्रवीच्छायां स्वकीयां सूनृतां गिरम् ॥१६॥मिथुनं मे तवोत्संगे धृतं त्वं परिपालय ॥तावदेवमिह च्छाये यावत्पितुर्गृहेचरी ॥१७॥रविभक्तिरता नित्यं चर त्वं मम वेश्मनि ॥नो वाच्याहं कदा च्छाये पितुर्वेश्मगता रवेः ॥१८॥एवं सा समयं कृत्वा सावित्री ह्यगमत्तदा ॥पितुर्वेश्मगता बाला सवितुर्भयविह्वला ॥१९॥पित्र निवारिता सद्यो वडवारूपधारिणी ॥विचचार वने रम्ये बहुलोदकशाड्वले ॥२०॥एकदा याचिता तेन वैवस्वतेन बुभुक्षता ॥नोदनं वै तया दत्तं याचमानाय तत्क्षणात् ॥२१॥तदा पदाहता तेन च्छाया तं च शशाप ह ॥यतस्त्वं मे पदाघातं कृतवान्बालभावनात् ॥२२॥तस्मात्त्वं च पदा खंजो भविष्यसि न संशयः ॥एवं शप्तो रुजाक्रांतो विललाप शुचार्दितः ॥२३॥एतस्मिन्नंतरे व्यास परिभूय वसुंधराम् ॥भावयन्सकलाँल्लोकान्ग्रहचारी विभावसुः ॥२४॥दृष्ट्वा च तनयं पंगुमित्युवाच विभावसुः ॥किमिदं वत्स ते कष्टं कुतः प्राप्तं त्वयाऽनघ ॥२५॥इति पृष्टो यदा तेन सवित्रा लोकभास्वता ॥उवाच गद्गदा वाचं यमः संयमिनीपतिः ॥२६॥प्रातराशाय मे नाथ याचितं मातुरंतिकात् ॥नो दत्तं भोजनं क्षिप्रं बालभावेन ताडिता ॥२७॥पादौ मे गलितौ सद्यो मातुः शापपराभवौ ॥तच्छ्रुत्वा मोहमापन्नो रविर्ध्यानपरायणः ॥२८॥विचित्रमिदमाख्यातं मातुः शापस्य कारणम् ॥एवं ध्यात्वा चिरं कालं ज्ञातवान्रविरंशुमान् ॥२९॥नेयं सा रुचिरापांगी त्वाष्ट्री लोकस्य पावनी ॥केयं वा कुत आयाता कासि त्वं च शुचिस्मिते ॥३०॥॥ छायोवाच ॥नानुसूर्या महाराज छाया तस्याः स्वसंभवा ॥गता वै सा पितुर्गेहे वारिताहं तयाऽनघ ॥३१॥सवित्रे नैव वक्तव्यं छाये किंचित्कथंचन ॥एष मे समयो नाथ तेनाहं मौनमास्थिता ॥३२॥तच्छ्रुत्वा भगवांस्त्वष्टुः समीपं रोषमास्थितः ॥जगाम सहसा भानुर्बहुरोषसमन्वितः ॥३३॥तं दृष्ट्वा सहसोत्थाय त्वष्टा लोकपितामहः ॥पाद्यार्घ्याचमनीयं च मधुपर्कैरपूजयत् ॥३४॥नत्वा पादौ परिक्रम्य बहुमानपुरः सरम् ॥उवाच मधुरया वाचा प्रियं ते करवाम किम् ॥३५॥॥ रविरुवाच ॥क्व सानुसूर्या सावित्री ममानुप्रियकारिणी ॥आगता ते गृहं तात मम मार्गानुमोदिनी ॥३६॥॥ त्वष्टोवाच ॥न जानीमो वयं तात प्रिया मे क्व गता सुता ॥इत्युक्ते वचने त्वष्ट्रा रविर्दुश्चिंतमानसः ॥३७॥किं करोमि क्व गच्छामि क्व च प्रियतरा मम ॥इति संभाषमाणे तु त्वष्टा वाक्यमथाब्रवीत् ॥३८॥तव तेजः परिभ्रष्टा भग्ना क्वापि गताबला ॥यदि ते वल्लभा भार्या तेजस्त्वं परिशामय ॥३९॥॥ सूर्य उवाच ॥यद्येवं दुस्सहं तेजो मम पूर्वपितामह ॥तदा ते रोचते सम्यग्यथा स्याद्वै तथा कुरु॥४०॥इति सूर्यवचः श्रुत्वा शाणं कृत्वा सुदर्शनम्॥घृष्टितः क्षुरधारेण लघीयान्निर्मलोऽभवत्॥४१॥तस्य घृष्टितमात्रेण त्वष्टा चक्रे विवस्वतः ॥शाणं सुदर्शनं चक्रं सैकता मणिजातयः ॥४२॥तदा त्वष्टाऽब्रवीद्वाक्यं मधुरं सूर्यसंनिधौ ॥महाकाल वने रम्ये वडवारूपगीरणी ॥४३॥गृह्यतां भोः सुरश्रेष्ठ शीघ्रं गच्छतु शाड्वले ॥यत्र शिप्रा सरिच्छ्रेष्ठा यत्र क्षाता समागता ॥४४॥उभयोः संगमो यत्र तत्र मुक्तिर्न संशयः ॥तत्र तां सुभगां पत्नीं प्राप्स्यसि त्वं न संशयः ॥४५॥इति तस्य वचः श्रुत्वा सविता सर्वतापनः ॥तत्रागमद्वनं यत्र महाकालस्य पावनम् ॥४६॥क्षातासंगमसंयुक्ता यत्र शिप्रा पयस्विनी ॥तत्र भुक्तिश्च मुक्तिश्च धनधान्यसमागमः ॥४७॥तत्रागत्य प्रियां भार्यां वडवारूपधारिणीम् ॥ददर्श तां पुनः श्यामां हरिरूपधरो हरिः ॥४८॥नासिकाघ्राणमात्रेण यत्र जातौ सुतावुभौ ॥दर्शनीयौ सुनृम्णांगौ भिषजौ तौ दिवौकसाम् ॥४९॥छाया च सुषुवे तत्र मिथुनं द्विजसत्तम ॥तापीं शनैश्चरं चैव सर्वलोकप्रतापनम् ॥५०॥शनि योगे यदामा वै जायते सर्वकामदा ॥तदा स्नानं च दानं च श्राद्धं चैव तु कारयेत् ॥५१॥तस्य हस्तगता लक्ष्मीर्जायते सर्वदा भुवि ॥क्षाता संगमे नरः स्नात्वा दानं दत्त्वा च शक्तितः ॥५२॥स्थावरेशं समभ्यर्च्य तस्य पापक्षयो भवेत् ॥सौरिः शनैश्चरो मंदः कृष्णोऽनंतोंऽतको यमः ॥५३॥पिंगश्छायासुतो बभ्रुः स्थावरः पिप्पलायनः ॥एतानि शनिनामानि प्रातःकाले पठेन्नरः ॥५४॥तस्य शानैश्चरी पीडा न भवेत्तु कदाचन ॥यमधर्मोऽपि चात्रैव तपस्तेपे सुदुस्तरम् ॥५५॥यज्ञकुण्डोत्तरे भागे यत्र तिष्ठति मारुतिः ॥धर्मसरेति विख्यातं नाम्ना तत्तीर्थमुत्तमम् ॥५६॥यत्र सिद्धिं परां प्राप्तस्तपसा पवनात्मजः ॥तस्मिंस्तीर्थे नरः स्नात्वा दत्त्वा वै कांस्यभाजनम् ॥५७॥सवासो मणिमु क्ताभिः कांचनालंकृतं वरम् ॥ब्राह्मणेभ्यः स्वलंकृत्य वेदविद्भ्यश्च सादरम् ॥५८॥मातृलोकं समुत्तीर्णो ब्रह्मलोके महीयते ॥श्रावणे मास्युभे पक्षे एकादश्यां तु यो नरः ॥५९॥धर्मतीर्थे सदाचारी स्नानदानादिकाः क्रियाः ॥करोति सततं तस्य विष्णुलोकः सनातनः ॥६०॥च्यवनाश्रमे नरः स्नात्वा च्यवनेश्वरं विलोकयेत् ॥यत्र सिद्धिं गतौ पुण्यावश्विनौ भिषजां वरौ ॥६१॥च्यवनस्य प्रसादेन देवपंक्तिमवापतुः ॥च्यवनेन पुरा दृष्टिः प्राप्ता वै देवभेषजात् ॥६२॥तस्मिंस्तीर्थे द्विजश्रेष्ठ दिव्यदृष्टिर्भवेन्नरः ॥अत्रैव प्राप्तवान्सूर्यः साग्निहोत्राश्रमं परम् ॥६३॥अनु सूर्यां महाभागां सावित्रीं लोकविश्रुताम्॥सूर्यलोकं समासाद्य बुभुजे विपुलां श्रियम्॥६४॥तस्माद्व्यास परं तीर्थं क्षातासंगमसंज्ञितम्॥सर्वपापहरं पुण्यं सर्वकामवरप्रदम्॥६५॥य एतां तु कथां पुण्यां शृणोति भुवि भक्तितः॥पठेद्वा प्रातरुत्थाय तस्य पुण्यफलं शृणु॥६६॥कपिलागोसहस्रेण फलं भवति पर्वणि ॥तत्फलं समवाप्नोति नात्र कार्या विचारणा ॥६७॥इति श्रीस्कान्दे महापुराण एकाशीतिसा हस्र्यां संहितायां पंचम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये क्षातासंगममाहात्म्यवर्णनंनाम षट्पंचाशत्तमोऽध्यायः ॥५६॥ N/A References : N/A Last Updated : December 01, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP