संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीक्षेत्रमाहात्म्यम्| अध्याय ३७ अवन्तीक्षेत्रमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ विषयानुक्रमणिका अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ३७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३७ Translation - भाषांतर सनत्कुमार उवाच ॥भिन्नेंऽधके त्रिशूलेन ध्वनी रुद्रस्य निर्गतः ॥तत्रोंकारः समुत्पन्नो देवदेवो महेश्वरः ॥१॥तत्र स्नात्वा शुचिर्भूत्वा समाधिनियमेन च ॥दृष्ट्वोंकारं महादेवं मुच्यते सर्वपातकैः ॥२॥हत्वांधके त्रिशूलश्च भोगवत्या जले ययौ ॥दृष्ट्वा शूलं सुतेजस्कं हाटको विस्मयं गतः ॥पप्रच्छ केन कार्येण भवानिह समागतः ॥३॥कथयामास शूलोसौ शंकरेणाहमीरितः ॥अंधकस्य वधार्थाय पापवृत्तेः सुदु र्मतेः॥४॥भित्त्वा तमहमायातो भोगवत्या जले शुभे ॥गमिष्यामि पुनस्तत्र यत्र तिष्ठति शंकरः ॥५॥शूलोक्तं वचनं श्रुत्वा परमेशदिदृक्षया ॥हाटकः शूलमार्गेण निर्जगाम जवेन सः ॥बहुवक्त्रसमाकीर्णं सुप्रभं सुमनोरमम्॥६॥तं दृष्ट्वा त्रिदशाः सर्वे शूलेशं हाटकेश्वरम्॥।प्रणम्य हृष्टरोमाणो यथा प्रोत्फुल्लपंकजम् ॥७॥तुष्टुवुर्विविधैः स्तोत्रैर्ब्रह्मविष्णुपुरोगमाः ॥हाटकेश्वरनामासीत्पाताले यो व्यवस्थितः ॥८॥निर्गतः शूलमार्गेण तेन शूलेश्वरः स्मृतः ॥धूतपापं च यत्तीर्थं देवदेवस्य चोत्तरे ॥९॥तत्र पापः स दैत्येंद्रो धूतः शूलेन वीर्यवान् ॥तेन तीर्थमिदं व्यास धूतपापं निगद्यते ॥१०॥अष्टम्यां वा पौर्णमास्यां चतुर्दश्यां शनौ तथा ॥उपोष्य रजनीमेकां शिवभक्तो जितेंद्रियः ॥११॥धूतपापं तु यः पश्येद्देवदेवं महेश्वरम्॥विमुक्तः सर्वपापैः स सप्तजन्मकृतैरपि ॥१२॥कुलानां शतमुद्धृत्य शिवलोकं च गच्छति ॥कृताभिषेकं यः पश्येत्पौषे मासि स वै नरः ॥१३॥शूलेश्वरप्रभावेन मुच्यते ब्रह्महत्यया ॥विमानानां सहस्रेण मृतो याति परं पदम् ॥१४॥इति चांधकशूलोयं यावद्भोगवतीं गतः ॥तावत्समुत्थिता घोरा असुरा रुधिरोद्भवाः ॥१५॥खड्गहस्ता महावीर्या अनेकशतसंख्यया ॥चतुर्दिक्षु स्थितैर्घोरैर्हन्य मानो महेश्वरः ॥सिंहनादं मुमोचाथ पीडितस्तैर्दुरात्मभिः ॥१६॥सिंहनादेन ते पापा मूर्छिताः पतिता भुवि ॥पुनः समुत्थिता जग्मुर्देवदेवं महेश्वरम् ॥वित्रस्ताश्च ततो देवा ब्रह्मविष्णुपुरोगमाः ॥१७॥असाध्यांस्तांस्तथा मत्वा मंत्रं कृत्वा हितैषिणः ॥ततो देवा विचार्याथ स्त्रीं सृजाम इति स्वयम् ॥१८॥इत्युक्त्वोत्पादयामास ब्रह्मा हंसासनां शुभाम् ॥चतुर्वक्त्रां चतुर्हस्तां ब्रह्माणीं रूपधारिणीम् ॥१९॥कुमारश्चैव कौमारीं मयूरवरवाहनाम् ॥रक्तमाल्याबरधरां शक्तिकुक्कुटधारिणीम् ॥२०॥पुनः कुमारः कौमारीं पक्षींद्रवरवाहनाम् ॥कृष्णां करालदशनां धर्मराजस्य वाहनीम् ॥२१॥दैत्यदेहप्रमथनीं दंडमुद्गरधारिणीम् ॥ललाटलोचनां नीलां कपालकरभूषिताम् ॥२२॥सिंहाजिनधरां कृष्णां सर्वभूषणभूषिताम्॥कर्त्रीहस्तां खड्गहस्तां खेटखट्वांगधारिणीम् ॥चर्मास्थिकेशवपुषं चामुंडाममृजत्प्रभुः ॥२३॥वटस्य निकटे पूर्वं निर्मिता लोकमातरः ॥ततो लोके सुविख्याताः प्रत्यक्षा वटमातरः ॥२४॥तत्र स्नात्वा शुचिर्भूत्वा मातॄः पश्यति यो नरः ॥स मुक्तः सर्वपापेभ्यो मातृलोके महीयते ॥२५॥सिंहनादोऽपि देवेन कृतो यत्र महामुने ॥तत्र सिंहेश्वरो देवः सर्वदुष्कृतनाशनः ॥२६॥दर्शनात्तस्य देवस्य सिंहवत्स बली भवेत् ॥सिंहनादे कृते यत्र जातं कण्टकितं वपुः ॥२७॥तत्र कण्टेश्वरो देवो भक्तानां सर्वदः सदा ॥तत्र तीर्थे नरः स्नात्वा दृष्ट्वा कण्टेश्वरं शिवम् ॥२८॥ग्रहभूतपिशाचेभ्यो न भयं प्राप्नुयात्क्वचित् ॥ततस्ता मातरः सर्वा आदिष्टास्तु हरेण वै ॥२९॥अन्धासुरस्य रौद्रस्य पिबध्वं रुधिरं द्रुतम् ॥एतस्मिन्नन्तरे व्यास प्रज्वलज्ज्वलनोपमः ॥३०॥अभयं शक्र मा भैस्त्वं यत्रोवाचेति शंकरः ॥तत्र लिंगं समुद्भूतमभयेश्वरमुत्तमम् ॥३१॥वंदितं देवगंधर्वैः सिद्धविद्याधरोरगैः ॥तत्र स्नात्वा शुचिर्भूत्वा सोपवासो जितेन्द्रियः ॥३२॥अर्चये द्देवदेवेशमश्वमेधफलं लभेत् ॥भूतप्रेतपिशाचेभ्यो भयं तस्य न विद्यते ॥३३॥सिंहयुक्तेन यानेन शिवलोकं स गच्छति ॥अन्धकस्य तु या माया रक्तासुरसमुद्भवा ॥३४॥मातृभिर्युध्यमानाभिः क्षयमाशु जगाम सा ॥देव्यः पिबन्त्यो रक्तौघं दैतेयतनुतश्च्युतम् ॥३५॥षट्तृप्तिं परमा जग्मुर्न तु तृप्ता ललाटजा ॥हतमायः शिष्टकस्तु भिन्नशूलतनुच्छदः ॥३६॥उत्तराभिमुखं शूलमंधकोऽकर्षयद्बली ॥संनिरुद्धो महादेहो वारितो गणपेन सः ॥३७॥महाविनायकः ख्यातस्तस्माल्लोकेऽभवन्मुने ॥दर्शनात्तस्य देवस्य न विघ्नैः पीड्यते नरः ॥३८॥मासेमासे चतुर्थ्यां यो गणेशं पूजयेद्द्विज ॥न तस्य विघ्नं जायेत इह लोके परत्र च ॥३९॥स्वेदबिंदुरथो तस्य ललाटादपतद्भुवि ॥तस्मादंगारको जातो रक्तमाल्यानुलेपनः ॥४०॥आवन्त्ये विषये जातो लोहितांगो धरासुतः ॥अंगारकस्तु रक्ताक्षो महादेवसुतस्तथा ॥४१॥नामभिर्ब्रह्मणा स्तुत्वा ग्रहमध्येऽधिरोपितः ॥तत्र तीर्थमथोत्पन्नमंगारेश्वरमुत्तमम् ॥४२॥ब्रह्मणा स्थापितं लिंगं गणगंधर्वसेवितम् ॥शुचिस्तत्र च यः स्नाति नरो ह्यंगारवासरे ॥४३॥दृष्ट्वांगारेश्वरं सोथ मुच्यते सर्वपातकैः ॥चतुर्थ्यां मंगलदिने नक्ते चार्घ्यं निवेदयेत् ॥४४॥यावत्पूर्णाश्चतस्रः स्युस्तावत्कार्याः प्रयत्नतः ॥पञ्च वै करकाः कार्यास्ताम्रपात्रेण संयुताः ॥४५॥गुडपीठमयाः कार्या रक्तवस्त्रसमन्विताः ॥रक्तचंदनसंयुक्ता रक्तपुष्पैश्च पूजिताः ॥४६॥तिलतण्डुलसंपूर्णमेकं तत्रैव कारयेत् ॥द्वितीयं लड्डुकैश्चैव तृतीयं पयसा तथा ॥४७॥उत्तरीभिश्चतुर्थं च पञ्चमं मूलकैस्तथा ॥कृत्वा ह्येवं विधानेन मंत्रेणार्घ्यं निवेदयेत् ॥४८॥कुजाय लोहितांगाय ग्रहमघ्यस्थिताय च ॥कार्तिकेयानुरूपाय सुरूपाय नमो नमः ॥४९॥शिवललाटसंभूत धरणीगर्भसंभव ॥रूपार्थं त्वां प्रपन्नोस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥५०॥ज्वलितांगारवर्णाभ स्निग्धविद्रुमभा सुर ॥पुत्रार्थी त्वां प्रपन्नोस्मि गृहाणार्घ्यं धरात्मज ॥५१॥आवन्त्यमण्डले जातो धरण्यां च शिवेन वै ॥पुत्रं देहि धनं देहि यशो देहि नमोऽस्तु ते ॥५२॥एवं संपूजितो भौमश्चतुर्थ्यां मुनिसत्तम ॥भुक्त्वा भोगांस्तथा पुत्रान्प्राप्य वै क्षितिमंडले ॥५३॥मृतः स्वर्गमवाप्नोति यावदिन्द्राश्चतुर्दश ॥५४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽङ्गारकीचतुर्थी व्रतमाहात्म्यवर्णनंनाम सप्तत्रिंशोऽध्यायः ॥३७॥ N/A References : N/A Last Updated : December 01, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP