संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्| अथत्रिंशच्छ्लोकी (आशौचनिर्णय:) और्ध्वदेहिकादिप्रकरणम् अथसर्वप्रायश्चित्तप्रयोग: अथब्रह्मकूर्चपंचगव्यविधि: अथप्रायश्चित्तोत्तरांगानि अथस्त्रीशूद्रप्रायश्चित्तम् अथातुरसन्निधौजाप्यम् अथमरणोत्तरविधि: अथगृहाच्छ्मशानेशवनयनप्रकार: अथप्रेतस्यपुन:संधानम् अथौर्ध्वदेहिकाविधि: अथपंचकादिदाहविधि: अथचितिपूरणम् अथतिलांजलिदानम् अथप्रथमदिनविधि: अथनवश्राध्दम् अथनग्नप्रच्छादनश्राध्दम् अथपाथेयश्राध्दम् अथास्थिसंचयनम् अथास्थिसंचयनश्राध्दम् अथातीर्थेस्थिक्षेपपूर्वांगविधि: अथद्वितीयादिदिनविधि: अथवृषोत्सर्ग: अथमहैकोद्दिष्टम् अथाग्नौमहैकोद्दिष्टम् अथरुद्रगणश्राध्दम् अथवसुगणश्राध्दम् अथषोडशमासिकश्राध्दानि अथदशदानानि अथाष्टदानानि अथोपदानानि अथप्रायश्चित्तगोदानप्रयोग: अथपंचगोदानानि अथाश्वदानम् अथशय्यादानम् अथभूमिदानम् अथसपिंडीकरणम् अथपाथेयश्राध्दम् अथत्रयोदशदिनविधि: अथत्रयोदशश्रवणामान्नविधि: अथउदकुंभश्राध्दम् अथमासिकश्राध्दानि अथजीवच्छ्राध्दविधि: अथपालाशविधि: अथऔर्ध्वदेहिकोपयोगिनारायणबल्यादि अथसर्पहतेव्रतम् अथब्रह्मचारिमरणविधि: अथस्नातकमरणविधि: अथरजस्वलामरणविधि: अथगर्भिणीमरणविधि: अथसूतिकामरणविधि: अथसकेशामरणेविधि: अथप्रसंगात्सकेशावपनविधि: अथसहगमनविधि: अथातुरसंन्यासविधि: अथसंन्यासग्रहणविधि: अथसावित्रीप्रवेश: अथविरजाहोम: अथपर्यंकशौचप्रयोग: अथयोगपट्ट: अथब्रह्मान्वाधानम् अथमृतयतिसंस्कार: अथएकादशेनिपार्वणश्राध्दम् अथव्दादशाहेनारायणबलि: अथयतिधर्मा: अथत्रिंशच्छ्लोकी (आशौचनिर्णय:) और्ध्वदेहिकादिप्रकरणम् - अथत्रिंशच्छ्लोकी (आशौचनिर्णय:) ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथत्रिंशच्छ्लोकी (आशौचनिर्णय:) Translation - भाषांतर श्री: ॥ षण्मासाभ्यंतरेषुस्वपुरुषनिहितेगर्भमात्रेविनष्टेमातातन्माससंख्यासमदिनमशुचि:स्नानशुध्दा:सपिंडा: ॥ अंत्येमासव्दयेतुत्रिदिनमशुचयोऽत:परंसूतिवत्स्याच्चातुर्वर्ण्यस्यतुल्यंभवतिवयसियत्प्रोच्यतेशौचमात्रं ॥१॥जन्माशौचांतरालेयदिशिशुनशनंनालवृध्द्यूर्ध्वकालेनि:प्राणोनि:पतेव्दाजननजनितमाशौचमस्त्येवकृत्स्त्रम् ॥ प्राड्नालच्छेदनाच्चेन्निधनमुपगतस्तत्र्यहेणैवशुध्दि:सर्वेषांसूतिकायास्त्विहचसकलकंप्रेतशुध्दिस्तुसध्य: ॥२॥सच्चौलेतुत्रिरात्रंत्रिदिनमितरथाप्याव्रताज्जात्यशौचंमातापित्रोस्तुपुत्रेत्रिदनमदशनेसन्निधौनष्टचेष्टे ॥३॥ऊनव्दयब्देत्वसंज्ञेजनिकरजननीसोदराणांदशाहंयव्दाऽस्पृश्यत्वमेवाधिकमिहविषयेसूतकंतुत्रिरात्रम् ॥ स्त्रीषुस्त्रानेनशुध्द्येत्रिपुरुषविषयेज्ञातिराक्षौरकालादर्वाग्वादानतोन्हांत्रिभिरुपयमनाभ्दर्तृगोत्रंस्वकंच ॥४॥जन्ममन्यौपेतमृत्यावपिचदशनिशाव्दादशाहानिपक्षंमासंवर्णा:क्रमेणाशुचयउचितकृच्छूद्रजातिस्तुपक्षम् ॥ वानप्रस्थेयतौचोपरमतिकुलजेषंधकेचाप्लव:स्याध्योषिग्दोविप्रगुप्त्यैमृतवतिचदिनंयुध्दविध्देतुसध्य: ॥५॥शावेतीतेदशाहात्प्रभृतिविषयकेप्राक् त्रिमासात्रिरात्रंपक्षिण्याषष्ठमासाद्दिनमिहनवमात्स्यात्तत:स्नानमात्रं ॥ स्नानंदेशांतरस्थेत्वथपितृविषयेदेशकालाविशेषात्स्वंस्वंमातु:सपत्न्यास्त्रिदिनमिदमतिक्रांतशौचंसमानम् ॥६॥पित्रोर्गेहेसमूढाप्रसवमरणयोरेकरात्रत्रिरात्रेस्यातांपित्रादिकानामथपितृमरणेप्यूढपुत्र्यास्त्रिरात्र्यम् ॥ प्रेतेष्वाचार्यमातामहदुहितृसुतश्रोत्रियर्त्विक् सयाज्यस्वस्त्रीयेषुत्रिरात्रंदिवसमशुचि:सोदकस्तूभयत्र ॥७॥पक्षिण्याशौचमृत्विग्दुहितृसुतसहाध्यायिबंधुत्रयांतेवासिश्वश्रूसुमित्रश्वशुरभगिनिकाभागिनेयप्रयाणे ॥ मातामह्यांचपित्रो:स्वसरिचविरतेमातुलेमातुलान्यांचाथोसज्योतिरेवस्वविषयनृपतौग्रामनाथेचनष्टे ॥८॥शिष्योपाध्यायबंधुत्रयगुरुतनयाचार्यभार्यासगोत्रानूचानश्रोत्रियेषुस्वगृहपुरमृतौमातुलेचैकरात्रम् ॥ रात्रिंसब्रह्मचारिण्यथतुकथमपिस्वल्पसंबंधयुक्तेस्नानंवासोयुतंस्यादिदमपिसकलंसर्ववर्णेषुतुल्यम् ॥९॥बध्दाशौचस्य्मध्येत्वपरमपिसमंस्वल्पकंवासजातिप्रेतेजात्यंतरंवायदिभवतितदापूर्वशेषेणशुध्दि: ॥ व्दाभ्यांतद्रात्रिशेषेत्रिभिरपरदिनैर्यामिनीयामशेषेनैवाशौचेनपित्र्यंपितुरुपशमनेपक्षिणीमातृमृत्यौ ॥१०॥सर्वंत्वाशौचमंतर्यदिविदितमिदंशेषमात्रेणशुध्दिर्दाहाहादाग्नौमरणदिवसतोऽन्यत्रकुर्याद्दशाहम् ॥ पूर्वेस्नानात्वासचैलंविहितहितकृतावर्हकासूतिकातुत्रिंशद्रात्रंनयोग्यासुरपितृकरणेविंशतिंपुत्रसूस्तु ॥११॥निर्हृत्यान्यंप्रमीतंदिवसमशुचिकोऽथासवर्णंतदुक्ताशौचोथानाथमाध्यक्रतुशतफलभागाप्लवेनैवशुध्द्येत् ॥ नीत्वोपाध्यायमातापितृपरमगुरुन्ब्रह्मचारीनदोषीतेभ्योन्यंनिर्हृतोऽस्यव्रतमपिविततंभ्रश्यतेऽवश्यमेव ॥१२॥तुल्योत्कृष्टानुयानेवसनसहितकोंभस्यवप्लुत्यवन्हिंस्पृष्ट्वाज्यंप्राश्यशुध्येदथदिनमशुचिर्हीनवर्णानुयाने ॥ पक्षिण्येकांतरानुव्रजनइहभवेद्द्वयंतरत्वेत्रिरात्रंकृत्वास्नात्वासुनध्यामसुयमनशतंसर्पिराशंचकुर्यु: ॥१३॥तातांबाचार्यकेभ्योनलजलतिदोब्रह्मचारीतदीयाशौचोऽन्येभ्यस्तुतव्दत्पुनरुपनयनंचाधिकंकारयेत्तु ॥अन्येत्वज्ञातिकेभ्योयदिददतितदात्त्प्रयुक्ता:शुभा:स्यु:कुर्यु:कृच्छ्रत्रयंवाधमदहनविधौतंतमेवाप्नुवंति ॥१४॥पालाशीमाहिताग्ने:प्रतिकृतिमथवास्थीनिदग्ध्वादशाहाध्याशौचाज्ञातय:स्युस्तत इतरनृणांत्रीण्यहान्येवकुर्यु: ॥ अन्योविप्राध्यशौचेसकृददनमदंस्तावदाशौचकृत्स्याध्यावत्तेषांदंतेव्रतमपिचचरेद्रोदनेत्वेकरात्रम् ॥१५॥जन्मन्यस्पृश्यतानोभवतिकुलभुवांमातृवर्जंपितुस्तुस्नानादूर्ध्वंसचैलदथनिधनकृताशौचकेऽल्पेत्रिभागे ॥पूर्वांशस्योपरीत्थंमहतिचयदिसंचायनंवृत्तमासीन्नोचेत्तस्योपरिष्टादथतुगृहजयोर्दासयोराप्लवोर्ध्वं ॥१६॥अन्नेनोपात्तयोस्तुत्रिरजनिचरणाद्दत्तदासादिकांस्वाम्याशौचाहसेव्यासमदिनगमनादूर्ध्वमन्यत्तुसूक्तं ॥जातेऽपत्येतुतस्मिन्नहनिनिशिचतंमंगलार्थेषुयोग्या:सर्वाशौचंसदानोभवतियतिवनिब्रह्मचर्यस्थितानाम् ॥१७॥तत्तत्कार्येषुसत्रिव्रतिनृपनृपवद्दीक्षितर्त्विक्स्वदेशभ्रंशापत्स्वप्यनेकश्रुतिपठनभिषक्कारुशिल्पातुराणां ॥ संप्रारब्धेषुदानोपनयनयजनश्राध्दयुध्दप्रतिष्ठाचूडातीर्थार्थयात्राजपपरिणयनाध्युत्सवेष्वेतदर्थे ॥१८॥नाशौचाज्ञातय:स्यु:पतितपतिसुतब्रह्मविट्घातिनीषुदोषात्पाखंडिचौराश्रमरहितसुरापेयहीनो पगासु ॥संदर्पात्सर्पविप्रक्षितिपपशुदिवाकीर्तीकाध्यैर्हतेषुस्वेच्छापूर्वंचशस्त्रज्वलनजलविषानाशकाप्तैर्मृतेषु ॥१९॥नाशौचंशाककाष्ठाजिनलवणतृणक्षीरनीरामिषेषुपुष्पेमूलेफलेचौषधिदधिमधुषुस्यात्तिलेक्ष्वामभोज्ये ॥दध्यादध्यादिमानिस्वयमनुमननास्त्वामिनोयातिजाताशौचेवाकृणिमेवापाणितमपणितंचापिसर्वंशुचिस्यात् ॥२०॥जातारण्याग्निनार्वाक् परिणयनविधेदग्धिराधानकालाद्गृह्येणोर्ध्वंतुविध्याहितहुतवहनैर्लौकिकेनान्यभावे ॥चांडालाग्निंचिताग्निंपतितहुतभुजंसूतिकामेध्यवन्हीन्जह्याच्छूद्राहृतेनेंधनदहनघृताध्येनदाहोप्यदाह: ॥२१॥सर्वंतूष्णींविदध्यादुपनयनविधे:प्राक् परंतुस्वशाखागृह्योक्तस्तव्दिधानै:सकलशवविधिंज्येष्ठपुत्रोऽवरोवा ॥ पुत्राभावेक्रमेणस्वकुलजजननीवंश्यशिष्यर्त्विजोवाचार्योवायत्रकुर्यात्प्रथमदिनविधिंसोपितत्सूतकांते ॥२२॥आनाम्न:खातमात्रंनजलहुतवहौनामवर्षत्रयांत:कामंचोर्ध्वंतुनित्यौभवतउपरतेचौलकेचौलयुक्ते ॥ नित्यौकालाविशेषादथपितृमुखरा:स्नापयित्वांबरस्त्रग्गंधाध्यै:शोभयित्वामृतमथखननेयोग्यमाज्यैर्विलिप्य ॥२३॥प्रत्यग्व्दारान्नगर्याब्दहिरवनिसुरंक्षत्रियंतूत्तरेणप्राग्व्दारेणैववैश्यंपितृदिशिवृषलंनाययित्वानुआयु: ॥ वर्षीय:पूर्वमूनव्दिशरदुपरतौनानुयानेनियाम:शूद्रै:स्पृष्टोथवोढोयदिभवतिमृत:प्रेतभावान्नमुक्ति: ॥२४॥ज्ञातीनांमातृपित्रोरपिपरमगुरोर्नित्यमंथोथमित्रप्रत्तास्वस्त्रीययाज्यश्वशुरगुरुसुहृध्याजकानांयथेष्टं ॥ नव्रात्यब्रह्मचारिव्रतियतिपतितक्लीबपाखंडचोरादध्युर्येत्वत्रपिंडानलजलकथनानर्हकास्तेतुसूक्ता: ॥२५॥संस्कृत्यानीक्ष्यमाणा:सकलकुलभुवोबालपूर्वंव्रजित्वनादेयेवृध्दपूर्वंपयसिसवसनाएकवारंनिमज्ज्य ॥ पाषाणेत्रि:सकृव्दाप्रतिदिनमुदकंब्राह्मणेदक्षिणास्या:क्षत्रेतूदड्मुखावैमृतवतिविशितुप्राड्मुखास्तेददीरन् ॥२६॥स्त्रायुर्भूयोपितत्रत्रिदिनमनशनाज्ञातयोहर्निशंवाक्रीतोत्पन्नाशनावामिषलवणपय:क्षीरमन्नंत्यजेयु: ॥ स्त्रीसंगंमंगलानिव्यसनहसनमुद्रोदनोच्चासनानितार्णास्तीर्णक्षितौतेपृथगतिनियता:संविशेयुर्निशायाम् ॥२७॥संस्कर्तादर्भपुंजेसमधुदहनत:प्रत्यहंपिंडमेकंभूमावेवावपेतप्रथमदिनचरुद्रव्यमेवोपरिष्टात् ॥दाहान्हादेवगण्यंचयनदिनमिदंचादितोन्हाच्चतुर्णामेकस्मिन्सप्तमेवाहनिनवमदिनेवानुपेतेतुनैतत् ॥२८॥वर्षीयस्युग्दतेतूपरिवपनखच्छेदनंसूतकांतेमध्येवाकेचिदूचु:पितृपरमगुरुष्वेववापादिनित्यम् ॥ अत्रस्मार्तंशुभार्थेभणितमभणितंतत्स्वगृह्यैर्विदित्वाकृत्वादानंचदध्यादशुभभयभिदेभूसुरेभ्य:शुभार्थं ॥२९॥दत्त्वापिंडंसपिंडा:परशववहनंस्नातकाश्चव्रजित्वातव्देश्मव्दारिचास्यप्रशमितमनसोनिंबपत्रंविदश्य ॥आचम्यांग्न्यंबुदूर्वांकुरवरवृषभानक्षतान् गोमयंचस्पृष्ट्वासिध्दार्थतैलान्यथदृषदिपदंन्यस्यसर्वेविशेयु: ॥३०॥इतित्रिंशच्छ्लोकीसमाप्ता ॥ N/A References : N/A Last Updated : August 25, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP