संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्| अथजीवच्छ्राध्दविधि: और्ध्वदेहिकादिप्रकरणम् अथसर्वप्रायश्चित्तप्रयोग: अथब्रह्मकूर्चपंचगव्यविधि: अथप्रायश्चित्तोत्तरांगानि अथस्त्रीशूद्रप्रायश्चित्तम् अथातुरसन्निधौजाप्यम् अथमरणोत्तरविधि: अथगृहाच्छ्मशानेशवनयनप्रकार: अथप्रेतस्यपुन:संधानम् अथौर्ध्वदेहिकाविधि: अथपंचकादिदाहविधि: अथचितिपूरणम् अथतिलांजलिदानम् अथप्रथमदिनविधि: अथनवश्राध्दम् अथनग्नप्रच्छादनश्राध्दम् अथपाथेयश्राध्दम् अथास्थिसंचयनम् अथास्थिसंचयनश्राध्दम् अथातीर्थेस्थिक्षेपपूर्वांगविधि: अथद्वितीयादिदिनविधि: अथवृषोत्सर्ग: अथमहैकोद्दिष्टम् अथाग्नौमहैकोद्दिष्टम् अथरुद्रगणश्राध्दम् अथवसुगणश्राध्दम् अथषोडशमासिकश्राध्दानि अथदशदानानि अथाष्टदानानि अथोपदानानि अथप्रायश्चित्तगोदानप्रयोग: अथपंचगोदानानि अथाश्वदानम् अथशय्यादानम् अथभूमिदानम् अथसपिंडीकरणम् अथपाथेयश्राध्दम् अथत्रयोदशदिनविधि: अथत्रयोदशश्रवणामान्नविधि: अथउदकुंभश्राध्दम् अथमासिकश्राध्दानि अथजीवच्छ्राध्दविधि: अथपालाशविधि: अथऔर्ध्वदेहिकोपयोगिनारायणबल्यादि अथसर्पहतेव्रतम् अथब्रह्मचारिमरणविधि: अथस्नातकमरणविधि: अथरजस्वलामरणविधि: अथगर्भिणीमरणविधि: अथसूतिकामरणविधि: अथसकेशामरणेविधि: अथप्रसंगात्सकेशावपनविधि: अथसहगमनविधि: अथातुरसंन्यासविधि: अथसंन्यासग्रहणविधि: अथसावित्रीप्रवेश: अथविरजाहोम: अथपर्यंकशौचप्रयोग: अथयोगपट्ट: अथब्रह्मान्वाधानम् अथमृतयतिसंस्कार: अथएकादशेनिपार्वणश्राध्दम् अथव्दादशाहेनारायणबलि: अथयतिधर्मा: अथत्रिंशच्छ्लोकी (आशौचनिर्णय:) और्ध्वदेहिकादिप्रकरणम् - अथजीवच्छ्राध्दविधि: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथजीवच्छ्राध्दविधि: Translation - भाषांतर श्री: ॥ तत्रशौनक: ॥ जीवच्छ्राध्दंप्रवक्ष्यामिशौनकोहंद्विजन्मनां ॥ कृष्णपक्षेत्रयोदश्यांस्त्रात्वोपोष्यस माहित: ॥ तस्मिन्नहनिसंभारानुपकल्प्ययथाक्रमं ॥ विड्वस्त्रंहेमसूचींवैअंकुशंतांवतंतथा ॥ पाशंकेशांश्चपालाशंवृंतंकृष्णाजिनंतथा ॥ औदुंबरसमिब्दर्हिरासनंकलशान्नवान् ॥ ग्रीवामात्रजलेतीर्थेस्त्रात्वामध्यंदिनेजपेत् ॥ गायत्रीमित्यर्थ: ॥ उत्थायब्राह्मणान्भोज्यकृत्वापुण्याहसुव्रतं ॥ वस्त्रांगुलीयकादीनिदत्त्वाचार्यायभक्तित: ॥सघृतंपायसान्नंचसभुक्त्वादक्षिणामुख: ॥ सायंकालेग्निमाधायपुरस्तात्तत्रसंस्कृतं ॥ घृताप्लुतंचरुंहुत्वामंत्रै:षड्रभिर्यथाक्रमं ॥ द्वाभ्यांचत्वारिश्रृंगेतितत्सवितुऋचैकया ॥अग्नेनयेतिद्वाभ्यांचजातवेदसइत्यृचा ॥ हुत्वापुरुषसूक्तेनप्रत्यृचंषोडशाहुती: ॥ अतोदेवादिषड्भिश्चसावित्र्याष्टशतानिच ॥ अष्टाविंशतिसंख्यांहोमशेषंसमापयेत् ॥गत्वाचतुष्पथंसूचींरज्जुकाध्यंकुशांस्तथा ॥ प्रीयतांकिंकरायेतिदध्यात्कृष्णायवैमुने ॥कृष्णायकिंकरायैतद्दत्तंनमम अनेनसप्रीयतामितियमकिंकरोद्देशेनत्याग: ॥ निधायकलशान्प्रीत:सोदकांस्तंतुवेष्टितान् ॥ पुरुषाकृतिवत्कुर्याच्छिरसित्रीन्मुखेतथा ॥ग्रीवैकंचतुरोवक्षोबाह्वोर्व्दौव्दौतथैवच ॥ एकंलिंगेपादयोश्चपंचपंचेतिकथ्यते ॥ एकमेकविंशतिकलशा: ॥ यन्मेप्रीतोसिभगवन्नित्याहृत्यसुसंस्कृतान् ॥ पंचगव्येनप्रक्षाल्यएतोन्विंद्रादिभिस्तथा ॥ पालाशवृंतानीविशेष: ॥ कृष्णाजिनेतुपालाशवृंतै:कृत्वानराकृतिं ॥ चत्वारिंशच्छिरोग्रीवेदशत्रिंशदुरस्यपि ॥ बाह्वोश्चैवशतंदध्यात्पंचपंचतथांगुलौ ॥ जठरेविंशतिंदध्याज्जंघयोर्विंशतिद्वयं ॥ ऊर्वोश्चषष्टिर्दध्याव्दैमेढ्रेचत्वारिविन्यसेत् ॥ त्रीणित्रीणिवृषणयो:पादयोस्त्रिंशतंतथा ॥ विन्यसेच्छेदवृंतानिदशपादांगुलीषुच ॥ शतानित्रीणिषष्टिश्चपालाशंवृंतमाहेरत् ॥अलाभेयज्ञवृक्षाणांवृंतान्यपिसमाहरेत् ॥ निवेश्यकलशेप्राणान्वृंतेदेहंनिवेश्यच ॥कलशेइत्येकवचनमविवक्षितं ॥ कलशेषुप्राणनिवेशनंचिंतयित्वेत्यर्थ: ॥ मध्येशयित्वास्वंदेहंविवस्वत्युदितेसति ॥ सुस्त्राप्यसकलंऋग्भि:स्वंदेहंस्वयमेवतु ॥सम्यक्पुरुषसूक्तेनश्रीसूक्तेनसमाप्यच ॥ अन्नेनब्राह्मणान्भोज्ययमकिंकरतृप्तये ॥ दाहश्चतकर्तव्य:पितृमेधविधानत: ॥ होतृप्रीत्याचवरयेब्दालवृध्दातुरान्जनान् ॥ नध्यादितीरेकर्तव्यंदशाहंवादिनेगृहे ॥ दिनेचेग्दृहएवेत्यर्थ: ॥ एकादश्यांतुकर्तव्यंश्राध्दंसुब्राह्मणायच ॥ सर्वमेकान्हिवाकुर्यात्सपिंडीकरणंविना ॥ एकादश्यांचनोकुर्यात्त्पिंडान्मंत्रवत्तथा ॥ मंत्रकर्माणिजीवेनश्राध्दंकुर्याच्चसत्स्वपि ॥ यथाविधिप्रकर्तव्यंपिंडीकरणादृते ॥ अन्येनस्त्रीचशूद्रश्चवृंतैर्दग्ध्वास्वकांतनुं ॥तदन्हयेवक्रिया:सर्वा:कुर्याच्छक्त्यनुसारत: ॥ देशांतरमृतस्यैवंचंडालाध्यैर्हतस्यच ॥ यध्येकादशेन्हिकुर्यात्तद्ब्राह्मणस्यैव ॥ चकारादन्यवर्णयोश्चैकादशेन्हिकुर्याद्दिनांतरेवासपिंडीकरणवर्जं ॥ स्त्रीशूद्रौप्रत्याहएकादश्यामिति ॥ स्त्रियाशूद्रेणचैकादश्यांपिंडोपलक्षितमौर्ध्वदेहिकंनकार्यं ॥सर्वकर्माणितूष्णींकार्याणि ॥ सत्सुपिंडादिष्वधिकारिषुजीवच्छ्राध्दंनकार्यं असत्स्वाहयथेति ॥ अनेनकृतप्रायश्चित्तइत्यर्थ: ॥ देशांतरमृतादेरस्न्थामलाभेपर्णवृंतदाहमात्रमितिदृश्यते ॥इतिशौनकोक्तोजीवच्छ्राध्दविधि: ॥ N/A References : N/A Last Updated : August 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP