संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथतिलांजलिदानम्

और्ध्वदेहिकादिप्रकरणम् - अथतिलांजलिदानम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ततोयत्रोदकमवहत् स्थिरंभवतितत्रसर्वेगत्वाकपालस्फोटानंतरंसपिंडा:सोदका:सगो
त्रिण:स्त्रियश्चापिसर्वेमुक्तकेशाएकवाससोदक्षिणामुखा: महाजलेशरीरमलंपूर्वपरिहितंवस्त्रं
चप्रक्षाल्यपुनस्तत्परिधायसर्वेएकदानिमज्ज्यपुन:कैश्चिदुक्तेनअपनइतिमंत्रेणवामहस्तेन
अनामिकयाजलावलोडनंकृत्वा सचैलंस्नात्वाचम्योत्तीर्ययेनाश्मनाकुंभच्छिद्राणिकृतानितम
श्मानंशुचौतीरेदक्षिणाग्रेषुदर्भेषुस्थापयित्वातस्योपरिसतिलमेकैकंजलांजलिंदक्षिणहस्तपितृ
तीर्थेनसव्योत्तरपाणिनायुगपदयुग्मादध्यु: अपसव्येनअमुकगोत्रअमुकप्रेतैतत्तेतिलोदकमुपति
ष्ठतामिति ॥
ब्रह्मचारीतुनदध्यात् ॥ पितृमातृगुर्वाचार्यमातामहमातामहीभ्य:सोपिदध्यात् ॥
शववाहैश्चांजलिर्देय: ॥ अन्येसुहृदोदध्युर्नवा ॥ दानेपिनाश्मनियम: ॥ पतितव्रात्यादयो
नदध्यु: ॥
ततोऽमुकगोत्रस्यअमुकप्रेतस्यदाहजनिततृषोपशमनार्थंइदंतेवासोदकमुपतिष्ठतामितिकर्ता
श्मनिउत्तरीयोदकंदध्यात् ॥
तत:कर्तृभिन्ना:सर्वेसपिंडादय:शवस्पर्शिनश्चान्यानिवासांसिपरिधायार्द्राण्यधोदशानिसकृ
न्निष्पीडयशोषणार्थमुदग्दशानिनिक्षिप्यदिनदाहेआतारकोदयात् रात्रिदाहेआदित्योदयात्त
त्रैववसीरन् ॥ शववाहकानमष्येवंनियम: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP