संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्| अथपालाशविधि: और्ध्वदेहिकादिप्रकरणम् अथसर्वप्रायश्चित्तप्रयोग: अथब्रह्मकूर्चपंचगव्यविधि: अथप्रायश्चित्तोत्तरांगानि अथस्त्रीशूद्रप्रायश्चित्तम् अथातुरसन्निधौजाप्यम् अथमरणोत्तरविधि: अथगृहाच्छ्मशानेशवनयनप्रकार: अथप्रेतस्यपुन:संधानम् अथौर्ध्वदेहिकाविधि: अथपंचकादिदाहविधि: अथचितिपूरणम् अथतिलांजलिदानम् अथप्रथमदिनविधि: अथनवश्राध्दम् अथनग्नप्रच्छादनश्राध्दम् अथपाथेयश्राध्दम् अथास्थिसंचयनम् अथास्थिसंचयनश्राध्दम् अथातीर्थेस्थिक्षेपपूर्वांगविधि: अथद्वितीयादिदिनविधि: अथवृषोत्सर्ग: अथमहैकोद्दिष्टम् अथाग्नौमहैकोद्दिष्टम् अथरुद्रगणश्राध्दम् अथवसुगणश्राध्दम् अथषोडशमासिकश्राध्दानि अथदशदानानि अथाष्टदानानि अथोपदानानि अथप्रायश्चित्तगोदानप्रयोग: अथपंचगोदानानि अथाश्वदानम् अथशय्यादानम् अथभूमिदानम् अथसपिंडीकरणम् अथपाथेयश्राध्दम् अथत्रयोदशदिनविधि: अथत्रयोदशश्रवणामान्नविधि: अथउदकुंभश्राध्दम् अथमासिकश्राध्दानि अथजीवच्छ्राध्दविधि: अथपालाशविधि: अथऔर्ध्वदेहिकोपयोगिनारायणबल्यादि अथसर्पहतेव्रतम् अथब्रह्मचारिमरणविधि: अथस्नातकमरणविधि: अथरजस्वलामरणविधि: अथगर्भिणीमरणविधि: अथसूतिकामरणविधि: अथसकेशामरणेविधि: अथप्रसंगात्सकेशावपनविधि: अथसहगमनविधि: अथातुरसंन्यासविधि: अथसंन्यासग्रहणविधि: अथसावित्रीप्रवेश: अथविरजाहोम: अथपर्यंकशौचप्रयोग: अथयोगपट्ट: अथब्रह्मान्वाधानम् अथमृतयतिसंस्कार: अथएकादशेनिपार्वणश्राध्दम् अथव्दादशाहेनारायणबलि: अथयतिधर्मा: अथत्रिंशच्छ्लोकी (आशौचनिर्णय:) और्ध्वदेहिकादिप्रकरणम् - अथपालाशविधि: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथपालाशविधि: Translation - भाषांतर श्री: ॥ आचम्यप्राणानायम्यदेशकालौसंकीर्त्यप्राचीनावीतीअमुकगोत्रस्यअमुकप्रेतस्यपेतत्वविमुक्त्योत्तमलोकप्राप्त्यर्थंमृताहात् विदेशस्थस्यमरणेनप्रेतस्यमंत्राग्निरहितस्य अस्थिरहिताश्मरहितउत्तरीरहितनिमित्तंऔर्ध्वदेहिकक्रियाधिकारार्थंपालाशविधिंकरिष्येइतिसंकल्प्ययवपिष्टेनशरीरनिर्माणं ॥ शिरसिचत्वारिंशत् ग्रीवायांदश बाह्वो:प्रत्येकंपंचाशत् एवंशतं करांगुलिषुसर्वासुदशउदरेत्रिंशत् जठरेविंशति: शिश्नेचत्वारिअंडयोस्त्रयस्त्रय:ऊर्वो:प्रत्येकंपंचाशत् जंघांत:पादतलांतंयावत्पादयो:प्रत्येकंपंचदशसर्वासुपादांगुलिषुदशएवंषष्ठयधिकशतयमित ३६० पालाशपर्णै:शरीरंनिर्मायऊर्णासूत्रेणशरीरंबध्वादाजललोडितयवपिष्टेनानुलिंपेत् ॥ तत:शक्तौसत्यांवक्ष्यमाणान्यपिकार्याणि मूर्धस्थानेकदलीफलं शिरसिफलंवर्तुलंलंबंवा ललाटेकदलीपत्रंदंतेदाडिमबीजानिकर्णेकंकणंनेत्रयो:कपर्दकौ नासिकायांतुलपुष्पं नाभौअभ्रकं स्तनयोर्जंबीरफलद्वयं वातेमन:शिलां पित्तेहरितालं कफेसुमुद्रफेनं रुधिरेमधु पुरीषेगोमयं मूत्रेगोमूत्रं रेतसिपारदं वृषणयोर्वृंताकद्वयं शिश्नेगृंजरं केशेषुसूकरकेशा: रोमावलीषुऊर्णावस्त्रं मांसस्थानेयवपिष्टेनमाषपिष्टेनवातंडुलपिष्टेनवालिंपेत् ॥ तत:पंचगव्येनप्रोक्ष्यपंचामृतमंत्रै:पंचामृतेनप्रोक्ष्य ॥ पुनर्नोअसुमितिबृहदुक्थ:प्राणास्त्रिष्टुप् प्राणप्रवेशनेवि० ॥ॐ पुनर्नोअसुंपृथिवीददातुपुनर्ध्यौर्देवीपुनरंतरिक्षं ॥ पुनर्न:सोमस्तन्वंददातुपुन:पूषापथ्यं १यास्वस्ति ॥ इतिप्राणप्रवेशनंभावयेत् ॥ यद्वा यत्तेयममितिद्वादशर्चस्ययमोनुष्टुप् प्राणप्रवेशनेवि० ॥ ॐ यत्तेयमंवैवस्वतंमनोजगामदूरकं ॥ तत्त:आवर्तयामसीहक्षयायजीवसे ॥ यत्तेदिवंयत्पृथिवींमनो० ॥ तत्तआवर्त० ॥ यत्तेभूमिंचतुर्भृष्टिंमनो० ॥ तत: ॥ यत्तेचतस्त्र:प्रदिशोमनो० ॥ तत्त: ॥ यत्तेसमुद्रमर्णवंमनो० ॥ तत्त० ॥ यत्तेमरीची:प्रवतोमनो० तत्त० ॥ यत्तेअपोयदोषधीर्मनो० ॥तत्त० ॥ यत्तेसूर्यंयदुषसंमनो० ॥ तत्तआ० ॥ यत्तेपर्वतान्बृहतोमनो० ॥ तत्त० ॥ यत्तेविश्वमिदंजगन्मनो० ॥ तत्त० ॥ यत्तेपरा:परावतोमनो० ॥ तत्त० ॥ यत्तेभूतंचभव्यंचमनो० ॥ तत्तआवर्त० ॥ इतिद्वादशर्चेनसूक्तेनप्राणानानीय ॥ शुक्रमसिज्योतिरसितेजोसि ॥ इतिमंत्रेणपादेक्षिप्त्वा ॥ अक्षीभ्यांइतिषळर्चेनसूक्तेनशरीरंस्पर्शेत् ॥ अक्षीभ्यांतेनासिकाभ्यांकर्माभ्यांछुबुकादधि ॥यक्ष्मंशीर्षण्यंमस्तिष्काजिह्वायाविवृहामिते ॥ ग्रीवाभ्यस्तउष्णिहाभ्य:कीकसाभ्योऽअनूक्यात् ॥ यक्ष्मंदोषण्य१मंसाभ्यांबाहुभ्यांविवृहामिते ॥ अंगादंगाल्लोम्नोलोम्नोजातंपर्वणिपर्वणि॥यक्ष्मंसर्वस्मादात्मनस्तमिदंविवृहामिते ॥ इत्येतै:स्पृष्ट्वाशरीरंभावयित्वास्नापयित्वाचंदनेनानुलिप्यवस्त्रेपरिधाय्ययज्ञोपवीतेधारयित्वा शुभ्रसुगंधमाल्यादिभिरलंकृत्यअयंसदेवदत्तइत्यभिमृश्य ॥ इदंचास्योपानं ॥इत्यग्निंध्यात्वापूर्वोक्तवैतरण्यादिदानपूर्वकंऊर्णासूत्रेणवेष्टयित्वाकृष्णाजिनेनाच्छाध्यचितिस्थानमाधायपूर्वोक्तविधिनाशवद्दहेत् ॥पालाशवृंताभावेकुशै:प्रतिकृतिंकुर्यात् ॥ आहिताग्ने:प्रतिकृतिदाहेअस्थिदाहेवादशाहमेवाशौचं ॥ पत्नीसंस्कारेपत्युश्चैवमेव ॥ सपत्न्यो:परस्परंचैवमेवशौचं ॥ सापत्नमातुर्दशाहानंतरंत्र्यहंकार्यंसपत्नीपुत्रेण ॥ अहिताग्नौविदेशस्थेमृतेयावद्विधिनानसंस्कारस्तावत्पुत्रादीनांनाशौचं ॥ इतिपालाशविधि: ॥ N/A References : N/A Last Updated : August 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP