संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्| अथवृषोत्सर्ग: और्ध्वदेहिकादिप्रकरणम् अथसर्वप्रायश्चित्तप्रयोग: अथब्रह्मकूर्चपंचगव्यविधि: अथप्रायश्चित्तोत्तरांगानि अथस्त्रीशूद्रप्रायश्चित्तम् अथातुरसन्निधौजाप्यम् अथमरणोत्तरविधि: अथगृहाच्छ्मशानेशवनयनप्रकार: अथप्रेतस्यपुन:संधानम् अथौर्ध्वदेहिकाविधि: अथपंचकादिदाहविधि: अथचितिपूरणम् अथतिलांजलिदानम् अथप्रथमदिनविधि: अथनवश्राध्दम् अथनग्नप्रच्छादनश्राध्दम् अथपाथेयश्राध्दम् अथास्थिसंचयनम् अथास्थिसंचयनश्राध्दम् अथातीर्थेस्थिक्षेपपूर्वांगविधि: अथद्वितीयादिदिनविधि: अथवृषोत्सर्ग: अथमहैकोद्दिष्टम् अथाग्नौमहैकोद्दिष्टम् अथरुद्रगणश्राध्दम् अथवसुगणश्राध्दम् अथषोडशमासिकश्राध्दानि अथदशदानानि अथाष्टदानानि अथोपदानानि अथप्रायश्चित्तगोदानप्रयोग: अथपंचगोदानानि अथाश्वदानम् अथशय्यादानम् अथभूमिदानम् अथसपिंडीकरणम् अथपाथेयश्राध्दम् अथत्रयोदशदिनविधि: अथत्रयोदशश्रवणामान्नविधि: अथउदकुंभश्राध्दम् अथमासिकश्राध्दानि अथजीवच्छ्राध्दविधि: अथपालाशविधि: अथऔर्ध्वदेहिकोपयोगिनारायणबल्यादि अथसर्पहतेव्रतम् अथब्रह्मचारिमरणविधि: अथस्नातकमरणविधि: अथरजस्वलामरणविधि: अथगर्भिणीमरणविधि: अथसूतिकामरणविधि: अथसकेशामरणेविधि: अथप्रसंगात्सकेशावपनविधि: अथसहगमनविधि: अथातुरसंन्यासविधि: अथसंन्यासग्रहणविधि: अथसावित्रीप्रवेश: अथविरजाहोम: अथपर्यंकशौचप्रयोग: अथयोगपट्ट: अथब्रह्मान्वाधानम् अथमृतयतिसंस्कार: अथएकादशेनिपार्वणश्राध्दम् अथव्दादशाहेनारायणबलि: अथयतिधर्मा: अथत्रिंशच्छ्लोकी (आशौचनिर्णय:) और्ध्वदेहिकादिप्रकरणम् - अथवृषोत्सर्ग: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथवृषोत्सर्ग: Translation - भाषांतर श्री: ॥ अयंगृहेनकार्य: ॥ गोष्ठादावितरत्रआचम्यप्राणानायम्यदेशकालौस्मृत्वाप्राचीनावीतीअमुकगोत्रस्य अमुकशर्मण:प्रेतस्यप्रेतत्वनिनिवृत्त्योत्तमलोकप्राप्त्यर्थंवृषोत्सर्गंकरिष्येइतिसंकल्प्य ॥ स्थंडिलादिकृत्वा अध्वरनामानमग्निंप्रतिष्ठाप्यसमिद्द्वयमादायचक्षुष्यंतेरुद्रंचरुणा सोमंपायसेन इंद्रंयावकेनयक्ष्ये शेषेणस्विष्टकृतमित्यादिपरिसमूहनादिपूर्णपात्रनिधानांतंविधायतूष्णींनिर्वापादिक्रमेणहविस्त्रयंसंपाध्यजुहुयात् ॥कद्रुद्रायेतिघौर:कण्वोरुद्रोगायत्री ॥ रौद्रचरुहोमेवि० ॥ ॐ कद्रुद्रायप्रचेतसेमीह्लुष्टमायतव्यसे ॥ वोचेमशंतमहंदेस्वाहा ॥ रुद्रायेदंनमम १ ॥ सोमोधेनुंगोतम:सोमस्त्रिष्टुप् ॥ सौम्यपायसहोमे० ॥ ॐ सोमोधेनुंसोमोअर्वतमाशुंसोमोवीरंकर्मण्यंददाति ॥ सादन्यंविदथ्यंसभेयंपितृश्रवणंयोददाशदस्मैस्वाहा ॥सोमायेदंनमम २ ॥ इंद्रंवोमधुच्छंदाइंद्रोगायत्री ॥ ऐंद्रयावकहोमेवि० ॥ ॐ इंद्रंवोविश्वतस्परिहवामहेजनेभ्य: ॥अस्माकमरतुकेवल:स्वाहा ॥ इंद्रायेदंनमम ३ ॥ एभिर्मंत्रैर्थथाक्रमंहुत्वास्विष्टकृदादिमार्जनांतंकुर्यात् ॥ (अत्रकेचिद्रुद्रायस्वाहेत्यादिनानाममंत्रैरेवहोममाहु:) ॥ततोद्विहायनमेकहायनंजीववत्साया:पयस्विन्या:पुत्रंनीलादिवर्णंयथालाभंवाआनीय ततश्चतस्त्रोद्वे एकांएकवर्षाधिकांवत्सतरीमानीयगोसहितवृषस्यमंत्रैरभिषेक:कार्य: ॥आपोहिष्ठेतिसृणांसिंधुद्वीपआपोगायत्री ॥ वृषवत्सतर्यभिषेकेवि० ॥ कयानइतितिसृणांगौतमोवामदेवंइंद्रोगायत्रीतृतीयापादनिचृत् ॥ वृषवत्स० ॥ ॐ कयानश्चित्रआभुवदूतीसदावृध:सखा ॥ कयाशचिष्ठयावृता ॥ कस्त्वासत्योमदानांमंहिष्ठोमत्सदंधस: ॥ दृह्लाचिदारुजेवसु ॥ अभीषुण:सखीनामविताजरितृणां ॥ शतंभवास्यूतिभि: ॥ वृषवत्सतरीभ्यांनम: वृषवत्सतर्यावावाहयामी त्यावाह्यासनादिवस्त्रगंधाक्षतमाल्यादिभिर्यथाशक्त्यलंकृत्य ॥ ऋषभमितिपंचर्चस्यसूक्तस्यऋषभोविराडनुष्टुप् अंत्यामहापंक्ति: ॥ वृषभोपस्थानेवि० ॥ॐ ऋषभंमासमानानांसपत्ननांविषासहिं ॥ हंतारंशत्रूणांकृधिविराजंगोपतिंगवां ॥ अहमस्मिसपत्नहेंदइवारिष्टोअक्षत: ॥ अध:सपत्नोमेपदोरिमेसर्वेअभिष्ठिता: ॥ अत्रैववोपिनह्याम्युभेआर्त्नीइवज्यया ॥ वाचस्पतेनिषेधेमान्यथामदधरंवदान् ॥ अभिभूरहमागमंविश्वकर्मेणधाम्रा ॥ आवश्चित्तमावोव्रतमावोहंसमितिंददे ॥ योगक्षेमंवआदायाहंभूयासमुत्तमआवोमूर्धानमक्रमीं ॥ अधस्पदान्मउद्वदतमंडूकाऽइवोदकान्मंडूकाउदकादिव ॥ इतिपंचर्चंसूक्तंकृतांजलिपुटोजपेत् ॥ ततोवृषंप्रदक्षिणंअग्निपूर्वतआनीय तस्यदक्षिणबाहुमूलेस्फिचिभस्मनात्रिशूलाकारंवामेचक्राकारमंकयित्वा तदुपरितप्तलोहेनचिह्नंकारयेत् ॥ प्रांच:केचनत्रिशूलांनकनमारमिच्छंति ॥तत:प्रांचमुत्सृजेत् ॥ व्रतंतमनुमंत्रयीत ॥ एतंयुवानमितिमंत्रस्ययाज्ञवल्क्यऋषभस्त्रिष्टुप् वृषोत्सर्गेवि० ॥ ॐ एतंयुवानंपरिवोददामितेनक्रीडंतीश्चरतप्रियेण ॥ मान:शाप्तजनुषासुभागारायस्पोषेणसमिषामदेम ॥ शांतातेपृथिवीशिवमंतरिक्षंध्यौस्तेदेव्यभयंकृणोतु ॥ शिवादिश:प्रतिशउद्दिशआपोविध्युत:परिपांतुसर्वत:शांति:शांति:शांति: ॥सर्वतोव्रजस्वेतिब्रूयात् ॥ ततोवृषंपूर्वाभिमुखंकृत्वा ॥ कद्रुद्रायेतिनवर्चस्यसूक्तस्यघौर:कण्वोरुद्रोगायत्रीतृतीयामैत्रावरुणीअंत्यस्तृच:सौम्योंत्यानुष्टुप् ॥ पूर्वदिगुपस्थानेवि० ॥ ॐ कद्रुद्रायप्रचेतसेमीह्लुष्टमायतव्यसे ॥ वोचेमशंतमंहृदे ॥ यथानोअदिति:करत्पश्वेनृभ्योयथागवे ॥ यथातोकायरुद्रियं ॥ यथानोमित्रोवरुणोयथारुद्रश्चिकेतति ॥ यथाविश्वेसजोषस: ॥ गाथपतिंमेधपतिंरुद्रंजलाषभेषजं ॥ तच्छंयो:सुम्नमीमहे ॥य:शुक्रइवसूर्योहिरण्यमिवरोचते ॥ श्रेष्ठोदेवानांवसु: ॥१॥शंन:करत्यर्वतेसुगंमेषायमेष्ये ॥ नृभ्योनारिभ्योगवे ॥ अस्मेसोमश्रियमधिनिधेहिशतस्यनृणां ॥ महिश्रवस्तुविनृम्णं ॥ मान:सोमपरिबाधोमारातयोजुहुरंत ॥ आनइंद्रोवाजेभज ॥ यास्तेप्रजाऽअमृतस्यपरस्मिन्धामन्नृतस्य ॥ मूर्धानाभासोमवेनऽआभूषंती:सोमवेद: ॥२॥एतत्सूक्तांतेभोवृष (गोभि:सह) अनयावत्सतर्यासहतृणंभक्षजलंपिबयथासुखंक्रीडस्वेतिवदेत् ॥ ततोदक्षिणाभिमुखंकृत्वा ॥ इमारुद्रायेत्येकादशर्चस्यसूक्तस्यकुत्सोरुद्रोजगती ॥ अंत्येत्रिष्टुभौ ॥ दक्षिणदिगुपस्थानेवि० ॥ ॐ इमारुद्रायतवसेकपर्दिनेक्षयद्वीरायप्रभरामहेमती: ॥ यथाशमसद्द्विचतुष्पदेविश्वंपुष्टंग्रामेऽअस्मिन्ननातुरं ॥ मृळानोरुद्रोतनोमयस्कृधिक्षयद्वीरायनमसाविधेमते ॥ यच्छंचयोश्चमनुरायेजेपितातदश्यामतवरुद्रप्रणीतिषु ॥ अश्यामतेसुमतिंदेवयज्ययाक्षयद्वीरस्यतवरुद्रमीढ्व: ॥ सुम्नायन्निद्विशोऽअस्माकमाचरारिष्टवीराजुहवामतेहवि: ॥ त्वेषंवयंरुद्रंयज्ञसाधंवंकुंकुविमवसेनिह्वयामहे ॥ आरेअस्मद्दैव्यंहेळोअस्यतुसुमतिमिद्वययमस्यावृणीमहे ॥ दिवोवराहमरुषंकपर्दिनंत्वेषंरुपंनमसानिह्वयामहे ॥ हस्तेबिभ्रभ्देषजावार्याणिशर्मवर्मच्छर्दिरस्मभ्यंयंसत् ॥१॥इदंपित्रेमरुतामुच्यतेवच:स्वादो:स्वादीयोरुद्रायवर्धनं ॥ रास्वाचनोऽअमृतमर्तभोजनंत्मनेतोकायतनयायमृळ ॥ मानोमहांतमुतमानोअर्भकंमानउक्षंतमुतमानउक्षितं ॥ मानोवधींपितरंमोतमातरंमान:प्रियास्तन्वोरुद्ररीरिष: ॥ मानस्तोकेतनयेमानआयौमानोगोषुमानोअश्वेषुरीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्हविष्मंत:सदमित्वाहवामहे ॥उपतेस्तोमान्पशुपाइवाकरंरास्वापितर्मरुतांसुम्नमस्मे ॥ भद्राहितेसुमतिर्मृळयत्तमाथावयमवइत्तेवृणीमहे ॥ आरेतेगोघ्नमुतपूरुषघ्नंक्षयद्वीरसुम्नमस्मेतेअस्तु ॥ मूळाचनोअधिचब्रूहिदेवाधाचन:शर्मयच्छद्विबर्हा: ॥ अवोचामनमोअस्माअवस्यव:शृणोतनोहवंरुद्रोमरुत्वान् ॥ तन्नोमित्रोवरुणोमामहंतामदिति:सिंधु:पृथिवीउतध्यौ: ॥२॥एतत्सूक्तांते (गोभि:सह) अनयावत्सतर्यासहतृणंभक्षजलंपिबयथासुखंक्रीडस्व ॥ तत:पश्चिमाभिमुखंकृत्वा ॥ आतेपितरितिपंचदशर्चस्यसूक्तस्यगृत्समदोरुद्रस्त्रिष्टुप् ॥पश्चिमदिगुपस्थानेवि० ॥ ॐ आतेपितर्मरुतांसुम्नमेतुमान:सूर्यस्यसंदृशोयुयोथा: ॥ अभिनोवीरोअर्वतिक्षमेतप्रजायेमहिरुद्रप्रजाभि: ॥ त्वादत्तेभीरुद्रशंतमेभि:शतंहिमाअशीयभेषजेभि: ॥ व्य १ स्मद्वेषोवितरंव्यंहोव्यमीवाश्चातयस्वाविषूची: ॥श्रेष्ठोजातस्यरुद्रश्रियासितवस्तमस्तवसांवज्रबाहो ॥ पर्षिण:पारमंहस:स्वस्तिविश्वाअभीतीरपसोयुयोधि ॥ मात्वारुद्रचुक्रुधामानमोभिर्मादुष्टतीवृषभमासहूती ॥ उन्नोवीराँअर्पयभेषजेभिर्भिषक्तमंत्वाभिषजांशृणोमि ॥ हवीमभिर्हवतेयोहविर्भिरवस्तोमेभीरुद्रंदिषीय ॥ ऋदूदर:सुहवोमानोअस्यैबभ्रु:सुशिप्रोरीरधन्मनायै ॥१॥उन्माममंदवृषभोमरुत्वान्त्वक्षीयसावयसानाधमानं ॥ घृणींवच्छायामरपाअशीयाविंवासेयंरुद्रस्यसुम्नं ॥ क्व १ स्यतेरुद्रमृळयाकुर्हस्तोयोअस्तिभेषजोजलाष: ॥ अपभर्तारपसोदैव्यस्याभीनुमावृषभचक्षमीथा: ॥ प्रबभ्रवेवृषभायश्चितीचेमहोमहींसुष्टुतिमीरयामि ॥ नमस्याकल्मलीकिनंनमोभिर्गृणीमसित्वेषंरुद्रस्यनाम ॥ स्थिरेभिरंगै:पुरुरुपउग्रोबभ्रु:शुक्रेभि:पिपिशेहिरण्यै: ॥ ईशानादस्यभुवनस्यभूरेर्नवाउयोषद्रुद्रादसुर्य ॥ अर्हन्बिभर्षिसायकानिधन्वार्हन्निष्कंयजतंविश्वरुपं ॥ अर्हन्निदंदयसेविश्वमभ्यंनवाऽओजीयोरुद्रत्वदस्ति ॥२॥स्तुहिश्रुतंगर्तसदंयुवानंमृगंनभीममुपहत्नुमुग्रं ॥ मृळाजरित्रेरुद्रस्तवानोन्वंतेअस्मन्निवपंतुसेना: ॥ कुमारश्चित्पितरंवंदमानंप्रतिनानामरुद्रोपयंतं ॥ भूरेर्दातारंसत्पतिंगृणीषेस्तुतस्वंभेषजारास्यस्मे ॥ यावोभेषजामरुत:शुचीनियाशंतमावृषणोयामयोभु ॥ यानिमनुरवृणीतापितानस्ताशंचयोश्चरुद्रस्यवश्मि ॥परिणोहेतीरुद्रस्यवृज्या:परित्वेषस्यदुर्मतिर्महीगात् ॥ अवस्थिरामघवभ्ध्यस्तनुष्वमीढ्वस्तोकायतनंयायमृळ ॥एवाबभ्रोवृषभचेकितानयथादेवनहृणीषेनहंसि ॥ हवनश्रुन्नोरुद्रेहबोधिबृहद्वदेमविदथेसुवीरा: ॥३॥एतत्सूक्तांतेअनयावत्सतर्यासहतृणंभक्षजलंपिबयथासुखंक्रीडस्व ॥ उद्ड्मुखंकृत्वा ॥इमारुद्रायेतिचतसृणांवसिष्ठोरुद्रोजगती ॥ अंत्यात्रिष्टुप् ॥ उत्तरदिगुपस्थानेवि० ॥ ॐ इमारुद्रायस्थिरधन्वनेगिर:क्षिप्रेषवेदेवायस्वधाव्रे ॥ अषाह्लायसहमानायवेधसेतिग्मायुधायभरताशृणोतुन: ॥सहिक्षयेणक्षम्यस्यजन्मन:साम्राज्येनदिव्यस्यचेतति ॥ अवन्नवंतीरुप्नोदुरश्चरानमीवोरुद्रजासुनोभव ॥ यातेदिध्युदवसृष्टादिवस्परिक्ष्मयाचरतिपरिसावृणक्तुन: ॥ सहस्त्रंतेस्वपिवातभेषजामानस्तोकेषुतनयेषुरीरिष: ॥ मानोवधीरुद्रमापरादामातेभूमप्रसितौहीळितस्य ॥ आनोभजबर्हिषिजीवशंसेयूयंपातस्वस्तिभि:सदान: ॥१॥एतत्सूक्तांतेअनयावत्सतर्यासहतृणंभक्षजलंपिबयथासुखंक्रीडस्वेतिपूर्ववत् ॥ तत:वृषपुच्छेप्रेतस्यनामगोत्राध्युच्चार्यतर्पणंकुर्यादितिकेचित् ॥ एतावत्कृत्वास्विष्टकृदादिकुर्यादितिवा ॥ तत:परिस्तरणविसर्जनादिकर्मशेषंसमापयेत् ॥ततोरुद्रसोमेंद्रभ्योनुरुपमामान्नत्रयंसदक्षिणंदध्यात् ॥ ततोवृषोत्सर्गसंपूर्णतासिभ्द्यर्थंतिलानुदकुंभंगांवासोहिरण्यंयथाशक्तिदक्षिणांचदध्यात् ॥पतिपुत्रवत्या:सुवासिन्यानवृषोत्सर्ग: तस्थानीकापयस्विनीगौर्देया ॥ इतिवृषोत्सर्गविधि: ॥ N/A References : N/A Last Updated : August 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP