संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्| अथषोडशमासिकश्राध्दानि और्ध्वदेहिकादिप्रकरणम् अथसर्वप्रायश्चित्तप्रयोग: अथब्रह्मकूर्चपंचगव्यविधि: अथप्रायश्चित्तोत्तरांगानि अथस्त्रीशूद्रप्रायश्चित्तम् अथातुरसन्निधौजाप्यम् अथमरणोत्तरविधि: अथगृहाच्छ्मशानेशवनयनप्रकार: अथप्रेतस्यपुन:संधानम् अथौर्ध्वदेहिकाविधि: अथपंचकादिदाहविधि: अथचितिपूरणम् अथतिलांजलिदानम् अथप्रथमदिनविधि: अथनवश्राध्दम् अथनग्नप्रच्छादनश्राध्दम् अथपाथेयश्राध्दम् अथास्थिसंचयनम् अथास्थिसंचयनश्राध्दम् अथातीर्थेस्थिक्षेपपूर्वांगविधि: अथद्वितीयादिदिनविधि: अथवृषोत्सर्ग: अथमहैकोद्दिष्टम् अथाग्नौमहैकोद्दिष्टम् अथरुद्रगणश्राध्दम् अथवसुगणश्राध्दम् अथषोडशमासिकश्राध्दानि अथदशदानानि अथाष्टदानानि अथोपदानानि अथप्रायश्चित्तगोदानप्रयोग: अथपंचगोदानानि अथाश्वदानम् अथशय्यादानम् अथभूमिदानम् अथसपिंडीकरणम् अथपाथेयश्राध्दम् अथत्रयोदशदिनविधि: अथत्रयोदशश्रवणामान्नविधि: अथउदकुंभश्राध्दम् अथमासिकश्राध्दानि अथजीवच्छ्राध्दविधि: अथपालाशविधि: अथऔर्ध्वदेहिकोपयोगिनारायणबल्यादि अथसर्पहतेव्रतम् अथब्रह्मचारिमरणविधि: अथस्नातकमरणविधि: अथरजस्वलामरणविधि: अथगर्भिणीमरणविधि: अथसूतिकामरणविधि: अथसकेशामरणेविधि: अथप्रसंगात्सकेशावपनविधि: अथसहगमनविधि: अथातुरसंन्यासविधि: अथसंन्यासग्रहणविधि: अथसावित्रीप्रवेश: अथविरजाहोम: अथपर्यंकशौचप्रयोग: अथयोगपट्ट: अथब्रह्मान्वाधानम् अथमृतयतिसंस्कार: अथएकादशेनिपार्वणश्राध्दम् अथव्दादशाहेनारायणबलि: अथयतिधर्मा: अथत्रिंशच्छ्लोकी (आशौचनिर्णय:) और्ध्वदेहिकादिप्रकरणम् - अथषोडशमासिकश्राध्दानि ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथषोडशमासिकश्राध्दानि Translation - भाषांतर श्री: ॥ तानिच । आध्यमासिक १ ऊनमासिक २ द्वितीयमासिक ३ त्रैपक्षिक ४ तृतीयमासिक ५ चतुर्थमासिक ६ पंचममासिक ७ षष्ठमासिक ८ ऊनषाण्मासिक ९ सप्तमासिक १० अष्टममासिक ११ नवममासिक १२ दशममासिक १३ एकादशमासिक १४ द्वादशमासिक १५ ऊनाब्दिकानि १६ तत्तत्कालेकर्तव्यानिद्वादशेह्निसपिंडीकरणाधिकारसिध्यर्थमपकृष्यएकादशेद्वादशेवाह्निकार्याण्येकोद्दिष्टविधिना । यदिमरणादारभ्यद्वादशमासमध्येकश्चिदधिकस्तदातन्मासिकंद्विवारंकार्यं एवंसप्तदशश्राध्दानिभवंति ॥अथप्रयोग: । तस्मिन्नेवाहनिप्रात:षोडशब्राह्मणान्निमंत्र्यतेषांश्मश्रुकर्माभ्यंगौकारयित्वा कृतमाध्यान्हिक: षोडशपाकान् निष्पाध्य अशक्तौओदनमात्रभेदंकृत्वाश्राध्दमुपक्रमेत् ।अत्यशक्तौआमान्नेनवाकुर्यात् ॥ देशकालौस्मृत्वाऽमुकगोत्रस्यामुकप्रेतस्यप्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थंअतिक्रांतमाध्यमासिकं सपिंडयधिकारार्थमपकृष्योनमासिकादीन्यूनाब्दिकांतानिपंचदशमासिकानिच अन्नेनामान्नेवाएकोद्दिष्टविधिनातंत्रेणकरिष्यइतिसंकल्प्य । अमुकगोत्रामुकप्रेतआध्यमासिकेक्षण:क्रियतां । एवंद्वितीयमासिकइत्यादिषोडशस्थानेषुक्षणंदत्त्वा अमुकगोत्रामुकप्रेताध्यमासिकेद्वीतीयमासिकइत्यादिइदंतेपाध्यमुपतिष्ठतामित्येवंषोडशब्राह्मणेषुपाध्यंदध्यात् ॥ एवमासनार्घ्यगंधपुष्पाच्छादनानिप्रत्येकंषोडशभ्योदध्यात् । अर्घ्येतिलावापेतिलोसीतिमंत्रेमंत्रेमहैकोद्दिष्टवदूह: । एकैकमर्घ्यंप्रत्येकं । षोडशपात्रेषुघृताक्तमन्नंप्रत्येकमादायमहैकोद्दिष्टवदमुकशर्मणेप्रेतायस्वाहेतिएकैकामाहुतिंतत्तदन्नेनकरेहुत्वाहुतमन्नमग्नौप्रक्षिप्य तत्तदाहुत्यर्थमन्नंयतोगृहीतंतत्तदन्नंतत्रतत्रपरिविष्यांगुष्ठनिवेशनांतंकृत्वा अमुकप्रेतायाध्यमासिकश्राध्देइदमन्नंयथाशक्तिसोपस्करंसोदकुंभममृतरुपमुपतिष्ठतामितिसंकल्पयेत् ।एवंद्वितीयमासिकादौ । भुक्तवत्सुद्विजेषुतत्तदन्नंषोडशसुपात्रेषुगृहीत्वातत्तत्कराहुतिशिष्टमन्नंतत्रतत्रप्रक्षिप्यतत्तद्विप्रसमीपेदर्भशिखायाममुकगोत्रायामुकप्रेतायाध्यमासिकादावयंतेपिंडउपतिष्ठतामितिषोडशपिंडान्दध्यात् । आमपक्षेआमान्नस्यसंकल्प: । सक्तुपिष्टेनचपिंडदानं । पिंडोपरितिलोदकंभृंगराजपत्रादिमहैकोद्दिष्टवत् । अंजनादिकंसर्वंप्राकृतं । अक्षय्येउपतिष्ठामितिवदेत् । यथाशक्ति दक्षिणांदत्त्वाऽभिरम्यतामितिविसर्जयेत् । अन्यत्सरंविहितनिषिध्दादिमहैकोद्दिष्टवत् ।एवंएकदेशकालकर्तृत्वात्तंत्रेणषोडशश्राध्दानिकुर्यात् । आध्यमासिकंसर्वंसमाप्यव्दितीयादीनिप्रत्येकंपृथगेवसर्वाणिनतुतंत्रेणेतिकेचित् । एतनंतरमाध्याब्दिकमप्येकोद्दिष्टविधानाकार्यं । आध्यमासिकेनतंत्रेणसिध्देर्नपृथक्कार्यंकिंतुआध्यमासिकं आध्याब्दिकंचतंत्रेणकरिष्य इतिसंकल्पयेदितिकेचित् ॥इतिषोडशमासिकश्राध्दानि ॥ N/A References : N/A Last Updated : August 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP