संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथौर्ध्वदेहिकाविधि:

और्ध्वदेहिकादिप्रकरणम् - अथौर्ध्वदेहिकाविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ततोदाहगर्तादीशानेजानुमात्रंवितस्तिमात्रंवागर्तंकृत्वाजलमापूर्यतत्रावकांशीपालं
(शैवालं) चनिक्षिपेत् ॥
अस्मिन्कर्मणिप्राय:प्राचीनावीतित्वमाग्नेय्यभिमुखतादक्षिणापवर्गत्वंचज्ञेयं ॥
तत:कर्ताहस्तौपादौप्रक्षाल्य आचम्य अमंत्रकंप्राणायामंकृत्वादेशकालौसंकीर्त्य ॥
अमुकगोत्रस्यामुकप्रेतस्यप्रेतत्वविमोक्षार्थंऔर्ध्वदेहिकंकरिष्येइतिसंकल्प्य ॥
प्राचीनावीती ॥ उपसर्पेतिसंकुसुक:पितृमेधस्त्रिष्टुप् ॥ भूमिप्रार्थनेविनियोग: ॥
ॐ उपसर्पमातरंभूमितामुरुव्यचसंपृथिवींसुशेवां ॥ ऊर्णम्रदायुवतिर्दक्षिणावतएषात्वापातुनि
ऋतेरुपस्थात् ॥
ॐ अपसर्पंतुतेप्रेतायेकेचिदिहपूर्वजा: ॥ स्वस्तिन:कृणुतामाशुआपात:पुनरागमत् ॥
इतिभूमिंप्रार्थ्य ॥ ॐ दिविजाताअप्सुजातायाओषधीभ्य: ॥ अथोयाअद्रिजाआपस्तान:शुंधुं
तुशंधनी: ॥ इतिस्थलशुध्दिकृत्वा ॥ अपेतेतियम:पितरस्त्रिष्टुप् ॥ भूमिप्रोक्षणेवि० ॥
ॐ अपेतवीतविचसर्पतातोस्माऽएतंपितरोलोकमक्रन् ॥
अहोभिरभ्दिरक्तुभिर्व्यक्तंयमोददात्यवसानमस्मै ॥ इतिमंत्रेणपूर्वोक्तगर्तोदकेनान्यजलेन
वाशमीशाखयात्रिरप्रदक्षिणंपरिव्रजन्खातंप्रोक्षेत् ॥ प्रतिपरिव्रजनंमंत्रावृत्ति: ॥
ततोवायव्यांखातांतरेतब्दहिर्वात्रिकोणंस्थंडिलंकृत्वोपलिप्योल्लिख्य अग्नेत्वंक्रव्यादनामासी
तिऔपासनाग्निंप्रतिष्ठापयेत् ॥
कुशमूलेनखातमध्येयमायदहनपतयेचोल्लिखामित्येकांरेखामुल्लिख्य ॥ यमायदहनपतये
पितृभ्य:स्वधानम:इतिमध्यरेखायां ॥
कालायदहनपतयेपितृभ्य:स्वधानम:इतिमध्यादुत्तरस्यां ॥ मृत्यवेदहनपतयेपितृभ्य:स्वधा
नमइतिमध्याद्दक्षिणस्यां ॥
तत:खातेहिरण्यशकलानितिलांश्चप्रक्षिप्य सजातीयाहृतैर्यज्ञियकाष्ठैश्चितिंकुशल:कुर्यात् ॥
तत:कर्तातस्यांबर्हिरास्तीर्यतदुपरिऊर्ध्वलोमकृष्णाजिनमास्तीर्यप्रेतमग्नेरुत्तरेणनीत्वादक्षिण
शिरस्कंचितौनिवेशयेत् ॥
तत:प्रेतस्यमुखेनासिकाद्वयेचक्षुर्द्वयेश्रोत्रद्वये एवंसप्तछिद्रेषुहिरण्यशकलानि तदभावेआ
ज्यबिंदून्वानिक्षिप्य प्रेतशरीरेघृताक्तांस्तिलान्प्रक्षिप्य ॥
ततोदेशकालौसंकीर्त्यप्रेतोपासनंकरिष्येइतिसंकल्प्य समिद्वयमादाय अग्निंकामंलोकंअनु
मतिंएता:प्रधानदेवता:अग्नावाज्येनप्रेतंतोरसिआज्येनयक्ष्ये ॥
व्याहृतीनांपरमेष्ठीप्रजापति:प्रजापतिर्बृहती अन्वाधानसमिध्दोमेविनियोग: ॥
ॐ भूर्भुव:स्व:स्वाहाप्रजापातयइदंनमम ॥ अग्निंपरिसमुह्यचितिसहितमग्निंपरिस्तीर्यपर्यु
क्ष्यदक्षिणतोऽग्रे:प्रोक्षणींस्त्रुवंचमसंआज्यभाजनंचेतिएकैकश: उत्तानानिपात्राण्यासादयेत्
ततोगर्तोदकंचमसेआसिच्यदर्भैराच्छाध्यप्रणयेत् ॥ इममग्नइतिदमनोग्निस्त्रिष्टुप् चमसा
नुमंत्रेणविनियोग: ॥
ॐ इममग्नेचमसंमाविजिह्वर:प्रियोदेवानामुतसोम्यानां ॥ एषयश्चमसोदेवपानस्तस्मिन्दे
वाअमृतामादयंते ॥
इतिचमसानुमंत्रणंकृत्वा प्रोक्षण्यांकुशैकरुपंपवित्रंनिधायजामापूर्यगंधादिक्षिप्त्वाअपस्त्रिरुत्पू
यपात्राणिसंप्रोक्ष्यअन्यदर्भेणाच्छाध्य तत्पवित्रंआज्यपात्रेनिधाय आज्यपात्रंपुरत:संस्थाप्यत
स्मिन्नाज्यमासिच्यस्वस्थानेनिधायज्वलतादर्भोल्मुकेनावज्वल्य अंगुष्ठपर्वमात्रंप्रक्षालितंद
र्भाग्रद्वयमाज्येप्रक्षिप्यपुनर्ज्वलतातेनैवदर्भोल्मुकेनाज्यंत्रि:पर्यग्निकृत्वातदुल्मुकंनिरस्याप:
स्पृष्ट्वातत्रस्थमेवाज्यंतूष्णीमुत्पूयपवित्रमभ्दि:प्रोक्ष्याग्नौप्रहरेत् ॥
ततआत्मनोग्रतोभूमिंप्रोक्ष्यतत्रदर्भेषुआज्यपात्रंनिधायस्त्रुवंदक्षिणहस्तेनगृहीत्वासव्येनदर्भानादायसहैवाग्नौप्रताप्य दर्भाग्रै:स्त्रुवस्यबिलंपृष्ठंचत्रि:संमृज्यमूलैर्मूलंचप्रोक्ष्यप्रताप्यआज्या
दुत्तरत:संस्थाप्यतूष्णीमग्निमलंकृत्यवामंजान्वाच्य प्राचीनावीतीपराचीनपाणि:स्त्रुवेणाज्यं
जुहुयात् ॥
ॐ अग्नयेस्वाहा अग्नयइदं० ॥ ॐ कामायस्वाहा कामायेदं० ॥ ॐ लोकायस्वाहा लोकायेदं० ॥
ॐ अनुमतयेस्वाहा अनुमतयइदं० ॥ एवंचतस्त्रआज्याहुतीर्हुत्वा ॥ ॐ अस्माद्वैत्वमजा
यथाअयंत्वदभिजायतां ॥
असौस्वर्गायलोकायस्वाहेतिमंत्रेणप्रेतस्योरसिपंचमींजुहुयात् ॥ असावित्यत्रसंबुध्दयाप्रेतना
मनिर्दिशेत् ॥
अमुकप्रेतायेदंनममेतित्यजेत् ॥ अत्रस्विष्टकृध्दोम:पात्रसंयोजनंचनास्ति ॥ एवंप्रेतौपासनं
कृत्वातत:सक्तुभिरपूपपंचकंकृत्वापृषदाज्येनाभिघार्य ॥
अग्नेर्वमेतिदमनोग्निस्त्रिष्टुप् प्रेतस्यललाटेमुखेचसक्तुपिंडदानेविनियोग: ॥
ॐ अग्नेर्वर्मपरिगोभिर्व्ययस्वसंप्रोर्णुष्वपीवसामेदसाच ॥ नेत्वाधृष्णुर्हरसाजर्हषाणोदधृग्वि
धक्ष्यन्पर्यंखयाते ॥
इतिललाटेमुखेचद्वौपिंडौदत्त्वा ॥ अतिद्रवेतिमंत्रद्वयस्ययमश्वानौत्रिष्टुप् बाहुद्वयेहृदयेच
सक्तुपिंडदानेवि० ॥
ॐ अतिद्रवसारमेयौश्वानौचतुरक्षौशबलौसाधुनापथा ॥ अथापितृन्त्सुविदत्राँउपेहियमेनयेस
धमादंमदंति ॥
यौतेश्वानौयमरक्षितारौचतुरक्षौपथिरक्षीनृचक्षसौ ॥ ताभ्यामेनंपरिदेहिराज्स्न्स्वस्तिचास्मा
अनमीवंचधेहि ॥
इतिबाहुद्वयेपिंडद्वयंहृदयेएक:पिंडइत्येवंपंचसक्तुपिंडान्दध्यात् ॥ ततोधनिष्ठापंचकत्रिपा
न्नक्षत्रादौमरणेतद्विधिंकृत्वानंतरंचितिपूरणंकार्यं ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP