संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गोलोकखण्डः| अध्यायः २० गोलोकखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० गोलोकखण्डः - अध्यायः २० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता भगवज्जन्मवर्णनं दुर्वाससो मायादर्शनं श्रीनंदनंदनस्तोत्रवर्णनम् Translation - भाषांतर श्रीनारद उवाच -एकदा कृष्णचंद्रस्य दर्शनार्थं परस्य च ।दुर्वासा मुनिशार्दूलो व्रजमंडलमाययौ ॥१॥कालिंदीनिकटे पुण्ये सैकते रमणस्थले ।महावनसमीपे च कृष्णमाराद्ददर्श ह ॥२॥श्रीमन्मदनगोपालं लुठंतं बालकैः सह ।परस्परं प्रयुद्ध्यंतं बालकेलिं मनोहरम् ॥३॥धूलिधूसरसर्वांगं वक्रकेशं दिगंबरम् ।धावंतं बालकैः सार्द्धं हरिं वीक्ष्य स विस्मितः ॥४॥श्रीमुनिरुवाच -स ईश्वरोऽयं भगवान्कथं बालैर्लुठन् भुवि ।अयं तु नंदपुत्रोऽस्ति न श्रीकृष्णः परात्परः ॥५॥श्रीनारद उवाच -इत्थं मोहं गते तत्र दुर्वाससि महामुनौ ।क्रीडन्कृष्णस्तत्समीपे तदंके ह्यागतः स्वयम् ॥६॥पुनर्विनिर्गतो ह्यंकाद्बालसिंहावलोकनः ।हसन्कलं ब्रुवन्कृष्णः संमुखः पुनरागतः ॥७॥हसतस्तस्य च मुखे प्रविष्टः श्वसनैर्मुनिः ।ददर्शान्यं महालोकं सारण्यं जनवर्जितम् ॥८॥अरण्येषु भ्रमंस्तत्र कुतः प्राप्त इति ब्रुवन् ।तदैवाजगरेणापि निगीर्णोऽभून्महामुनिः ॥९॥ब्रह्मांडं तत्र ददृशे सलोकं सबिलं परम् ।भ्रमन्द्वीपेषु स मुनिः स्थितोऽभूत्पर्वते सिते ॥१०॥तपस्तताप वर्षाणां शतकोटीः प्रभुं भजन् ।नैमित्तिकाख्ये प्रलये प्राप्ते विश्वभयंकरे ॥११॥आगच्छंतः समुद्रास्ते प्लावयंतो धरातलम् ।वहंस्तेषु च दुर्वासा न प्रापांतं जलस्य च ॥१२॥व्यतीते युगसाहस्त्रे मग्नोऽभूद्विगतस्मृतिः ।पुनर्जलेषु विचरन्नंडमन्यं ददर्श ह ॥१३॥तच्छिद्रे च प्रविष्टोऽसौ दिव्यां सृष्टिं गतस्ततः ।तडंडमूर्ध्नि लोकेषु विधेरायुःसमं चरन् ॥१४॥एव्ं छिद्रं तत्र वीक्ष्य प्राविशत्स हरिं स्मरन् ।बहिर्विनिर्गतो ह्यंडाद्ददर्शाशु महाजलम् ॥१५॥तस्मिन् जले तु लक्ष्यंते कोटिशो ह्यंडराशयः ।ततो मुनिर्जलं पश्यन् ददर्श विरजां नदीम् ॥१६॥तत्पारं प्रगतः साक्षाद्गोलोकं प्राविशन्मुनिः ।वृंदावनं गोवर्द्धनं यमुनापुलिनं शुभम् ॥१७॥दृष्ट्वा प्रसन्नः स मुनिर्निकुंजं प्राविशत्तदा ।गोपगोपीगणवृतं गवां कोटिभिरन्वितम् ॥१८॥असंख्यकोटिमार्तंड ज्योतिषां मंडले ततः ।दिव्ये लक्षदले पद्मे स्थितं राधापतिं हरिम् ॥१९॥परिपूर्णतमं साक्षाच्छ्रीकृष्णं पुरुषोत्तमम् ।असंख्यब्रह्मांडपतिं गोलोकं स्वं ददर्श ह ॥२०॥श्रीकृष्णास्यापि हसतः प्रविष्टस्तन्मुखे मुनिः ।पुनर्विनिर्गतोऽपश्यद्बालं श्रीनंदनंदनम् ॥२१॥कालिंदीनिकटे पुण्ये सैकते रमणस्थले ।बालकैः सहितं कृष्णं विचरंतं महावने ॥२२॥तदा मुनिश्च दुर्वासा ज्ञात्वा कृष्णं परात्परम् ।श्रीनंदनंदनं नत्वा नत्वा प्राह कृतांजलिः ॥२३॥मुनिरुवाच -बालं नवीनशतपत्रविशालनेत्रंबिंबाधरं सजलमेघरुचिं मनोज्ञम् ।मंदस्मितं मधुरसुंदरमंदयानंश्रीनंदनंदनमहं मनसा नमामि ॥२४॥मंजीरनूपुररणन्नवरत्नकांचीश्रीहारकेसरिनखप्रतियंत्रसंघम् ।दृष्ट्याऽऽर्तिहारिमषिबिन्दुविराजमानंवंदे कलिंदतनुजातटबालकेलिम् ॥२५॥पूर्णेन्दुसुंदरमुखोपरि कुंचिताग्राःकेशा नवीनघननीलनिभाः स्फुरंति ।राजंत आनतशिरःकुमुदस्य यस्यनंदात्मजाय सबलाय नमो नमस्ते ॥२६॥श्रीनंदनंदनस्तोत्रं प्रातरुत्थाय यः पठेत् ।तन्नेत्रगोचरो याति सानंदं नंदनंदनः ॥२७॥श्रीनारद उवाच -इति प्रणम्य श्रीकृष्णं दुर्वासा मुनिसत्तमः ।तं ध्यायन्प्रजपन्प्रागाद्बदर्याश्रममुत्तमम् ॥२८॥इत्थं देवर्षिवर्येण नारदेन महात्मना ।कथितं कृष्नचरितं बहुलाश्वाय धीमते ॥२९॥मया थे कथितं ब्रह्मन् यशः कलिमलापहम् ।चतुष्पदार्थदं दिव्यं किं भूयः श्रोतुमिच्छसि ॥३०॥श्री शौनक उवाच -बहुलाश्वो मैथिलेंद्रः किं पप्रच्छ महामुनिम् ।नारदं ज्ञानदं शांतं तन्मे ब्रूहि तपोधन ॥३१॥श्रीगर्ग उवाच -नारदं ज्ञानदं नत्वा मानदो मैथिलो नृपः ।पुनः पप्रच्छ कृष्णस्य चरितं मंगलायनम् ॥३२॥श्रीबहुलाश्व उवाच -श्रीकृष्णो भगवान्साक्षात्परमानंदविग्रहं ।परं चकार किं चित्रं चरित्रं वद मे प्रभो ॥३३॥पूर्वावतारैश्चरितं कृतं वै मंगलायनम् ।अपरं किं तु कृष्णस्य पवित्रं चरितं परम् ॥३४॥श्रीनारद उवाच -साधु साधु त्वया पृष्टं चरित्रं मंगलं हरेः ।तत्तेऽहं संप्रवक्ष्यामि वृंदारण्ये च यद्यशः ॥३५॥इदं गोलोकखंडं च गुह्यं परममद्भुतं ।श्रीकृष्णेन प्रकथितं गोलोके रासमंडले ॥३६॥निकुंजे राधिकायै च राधा मह्यं ददाविदम् ।मया तुभ्यं श्रावितं च दत्तं सर्वार्थदं परम् ॥३७॥इदं पठित्वा विप्रस्तु सर्वशास्त्रार्थगो भवेत् ।श्रुत्वेदं चक्रवर्ती स्यात् क्षत्रियश्चंडविक्रमः ॥३८॥वैश्यो निधिपतिर्भूयाच्छूद्रो मुच्येत बंधनात् ।निष्कामो योऽपि जगति जीवन्मुक्तः स जायते ॥३९॥यो नित्यं पठते सम्यग्भक्तिभावसमन्वितः ।स गच्छेत्कृष्णचंद्रस्य गोलोकं प्रकृतेः परम् ॥४०॥इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे भगवज्जन्मवर्णनं दुर्वाससो मायादर्शनं श्रीनंदनंदनस्तोत्रवर्णनं नाम विंशोऽध्यायः ॥२०॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP