संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गोलोकखण्डः| अध्यायः ०५ गोलोकखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० गोलोकखण्डः - अध्यायः ०५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता विविधगोपीजन्मकथा Translation - भाषांतर रमावैकुण्ठवासिन्यः श्वेतद्वीपसखीजनाः ।ऊर्ध्वं वैकुण्ठवासिन्यस्तथाजितपदाश्रिताः ॥१॥श्रीलोकाचलवासिन्यः श्रीसख्योऽपि समुद्रजाः ।ता गोप्योऽभिभविष्यन्ति लक्ष्मीपतिवराद्व्रजे ॥२॥काश्चिद्दिव्या अदिव्याश्च तथा त्रिगुणवृत्तयः ।भूमिगोप्यो भविष्यन्ति पुण्यैर्नानाविधैः कृतैः ॥३॥यज्ञावतारं रुचिरं रुचिपुत्रं दिवस्पतिम् ।मोहिताः प्रीतिभावेन वीक्ष्य देवजनस्त्रियः ॥४॥ताश्च देवलवाक्येन तपस्तेपुर्हिमाचले ।भक्त्या परमया ता मे गोप्यो भाव्या व्रजे विधे ॥५॥अन्तर्हिते भगवति देवे धन्वन्तरौ भुवि ।ओषध्यो दुःखमापन्ना निष्फला भारतेऽभवन् ॥६॥सिद्ध्यर्थं तास्तपस्तेपुः स्त्रियो भूत्वा मनोहराः ।चतुर्युगे व्यतीते तु प्रसन्नोऽभूद्धरिः परम् ॥७॥वरं वृणीत चेत्यृक्तं श्रुत्वा नार्यो महावने ।तं दृष्ट्वा मोहमापन्ना ऊचुर्भर्ता भवात्र नः ॥८॥वृन्दावने द्वापरान्ते लता भूत्वा मनोहराः ।भविष्यथ स्त्रियो रासे करिष्यामि वचश्च वः ॥९॥श्रीभगवानुवाच -भक्तिभावसमायुक्ता भूरिभाग्या वरांगनाः ।लतागोप्यो भविष्यन्ति वृन्दारण्ये पितामह ॥१०॥जालन्धर्य्यश्च या नार्यो वीक्ष्य वृन्दापतिं हरिम् ।ऊचुर्वायं हरिः साक्षादस्माकं तु वरो भवेत् ॥११॥आकाशवागभूत्तासां भजताशु रमापतिम् ।यथा वृन्दा तथा यूयं वृन्दारण्ये भविष्यथ ॥१२॥समुद्रकन्याः श्रीमत्स्यं हरिं दृष्ट्वा च मोहिताः ।ता हि गोप्यो भविष्यन्ति श्रीमत्स्यस्य वराद्व्रजे ॥१३॥आसीद्राजा पृथुः साक्षान्ममांशश्चण्डविक्रमः ।जित्वा शत्रून्नृपश्रेष्ठो धरां कामान्दुदोह ह ॥१४॥बर्हिष्मतीभवास्तत्र पृथुं दृष्ट्वा पुरस्त्रियः ।अत्रेः समीपमागत्य ता ऊचुर्मोहविह्वलाः ॥१५॥अयं तु राजराजेन्द्रः पृथुः पृथुलविक्रमः ।कथं वरो भवेन्नो वै तद्वद त्वं महामुने ॥१६॥अत्रिरुवाच -गोदोहं कुरुताश्वद्य पृथ्वीयं धारणामयी ।सर्वं दास्यति वो दुर्गं मनोरथमहार्णवम् ॥१७॥मनोरथं प्रदुदुहुर्मनःपात्रेण ताश्च गाम् ।तस्माद्गोप्यो भविष्यन्ति वृन्दारण्ये पितामह ॥१८॥कामसेनामोहनार्थं दिव्या अप्सरसो वराः ।नारायणस्य सहसा बभूवुर्गन्धमादने ॥१९॥भर्तुकामाश्च ता आह सिद्धो नारायणो मुनिः ।मनोरथो वो भविता व्रजोगोप्यो भविष्यथ ॥२०॥स्त्रियः सुतलवासिन्यो वामनं वीक्ष्य मोहिताः ।तपस्तप्ता भविष्यन्ति गोप्यो वृन्दावने विधे ॥२१॥नागेन्द्रकन्या याः शेषं भेजुर्भक्त्या वरेच्छया ।संकर्षणस्य रासार्थं भविष्यंति व्रजे च ताः ॥२२॥कश्यपो वसुदेवश्च देवकी चादितिः परा ।शूरः प्राणो ध्रुवः सोऽपि देवकोऽवतरिष्यति ॥२३॥वसुश्चैवोद्धवः साक्षाद्दक्षोऽक्रूरो दयापरः ।हृदीको धनदश्चैव कृतवर्मा त्वपांपतिः ॥२४॥गदः प्राचीनबर्हिश्च मरुतो ह्युग्रसेन उत् ।तस्य रक्षां करिष्यामि राज्यं दत्त्वा विधानतः ॥२५॥युयुधानश्चाम्बरीषः प्रह्लादः सात्यकिस्तथा ।क्षीराब्धिः शन्तनुः साक्षाद्भीष्मो द्रोणो वसूत्तमः ॥२६॥शलश्चैव दिवोदासो धृतराष्ट्रो भगो रविः ।पाण्डुः पूषा सतां श्रेष्ठो धर्मो राजा युधिष्ठिरः ॥२७॥भीमो वायुर्बलिष्ठश्च मनुः स्वायंभुवोऽर्जुनः ।शतरूपा सुभद्रा च सविता कर्ण एव हि ॥२८॥नकुलः सहदेवश्च स्मृतौ द्वावश्विनीसुतौ ।धाता बाह्लीकवीरश्च वह्निर्द्रोणः प्रतापवान् ॥२९॥दुर्योधनः कलेरंशोऽभिमन्युः सोम एव च ।द्रौणिः साक्षाच्छिवस्यापि रूपं भूमौ भविष्यति ॥३०॥इत्थं यदोः कौरवाणामन्येषां भूभुजां नृणाम् ।कुले कुले च भवतः स्वांशैः स्त्रीभिर्मदाज्ञया ॥३१॥ये येऽवतारा मे पूर्वं तेषां राज्ञ्यो रमांशकाः ।भविष्या राजराज्ञीषु सहस्राणि च षोडश ॥३२॥श्रीनारद उवाच -इत्युक्त्वा श्रीहरिस्तत्र ब्रह्माणं कमलासनम् ।दिव्यरूपां भगवतीं योगमायामुवाच ह ॥३३॥देवक्याः सप्तमं गर्भं संनिकृष्य महामते ।वसुदेवस्य भार्यायां कंसत्रासभयात्पुनः ॥३४॥नन्दव्रजे स्थितायां च रोहिण्यां सन्निवेशय ।नंदपत्न्यां भव त्वं वै कृत्वेदं कर्म चाद्भुतम् ॥३५॥श्रीनारद उवाच -श्रुत्वा ब्रह्मा देवगणैर्नत्वा कृष्णं परात्पराम् ।भूमिमाश्वास्य वाणीभिः स्वधाम च समाययौ ॥३६॥परिपूर्णतमं साक्षाच्छ्रीकृष्णं विद्धि मैथिल ।कंसादीनां वधार्थाय प्राप्तोयं भूमिमण्डले ॥३७॥रोममात्रतनौ जिव्हा भवंत्वित्थं यदा नृप ।तदापि श्रीहरेस्तस्य वर्ण्यते न गुणो महान् ॥३८॥नभः पतन्ति विहगा यथा ह्यात्मसमं नृप ।तथा कृष्णगतिं दिव्यां वदन्तीह विपश्चितः ॥३९॥इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे अवतारव्यवस्था नाम पंचमोऽध्यायः ॥५॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP