संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गोलोकखण्डः| अध्यायः ०१ गोलोकखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० गोलोकखण्डः - अध्यायः ०१ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता श्रीकृष्ण-माहात्म्य वर्णनम् Translation - भाषांतर श्रीकृष्ण-माहात्म्य वर्णनम्ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥१॥शरद्विकचपङ्कजश्रियमतीवविद्वेषकंमिलिन्दमुनिसेवितं कुलिशकंजचिह्नावृतम् ।स्फुरत्कनकनूपुरं दलितभक्ततापत्रयंचलद्द्युतिपदद्वयं हृदि दधामि राधापतेः ॥२॥वदनकमलनिर्यद्यस्य पीयूषमाद्यंपिबति जनवरो यं पातु सोऽयं गिरं मे ।बदरवनविहारः सत्यवत्याः कुमारःप्रणतदुरितहारः शाङ्र्गधन्वावतारः ॥३॥कदाचिन्नैमिषारण्ये श्रीगर्गो ज्ञानिनां वरः ।आययौ शौनकं द्रष्टुं तेजस्वी योगभास्करः ॥४॥तं दृष्ट्वा सहसोत्थाय शौनको मुनिभिः सह ।पूजयामास पाद्याद्यैरुपचारैर्विधानतः ॥५॥श्रीशौनक उवाच -सतां पर्यटनं धन्यं गृहिणां शान्तये स्मृतम् ।नृणामन्तस्तमोहारी साधुरेव न भास्करः ॥६॥तस्मान्मे हृदि सम्भूतं संदेहं नाशय प्रभो ।कतिधा श्रीहरेर्विष्णोरवतारो भवत्यलम् ॥७॥श्रीगर्ग उवाच -साधु पृष्टं त्वया ब्रह्मन् भगवद्गुणवर्णनम् ।शृण्वतां गदतां यद्वै पृच्छतां वितनोति शम् ॥८॥अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।यस्य श्रवणमात्रेण महादोषः प्रशाम्यति ॥९॥मिथिलानगरे पूर्वं बहुलाश्वः प्रतापवान् ।श्रीकृष्णभक्तः शान्तात्मा बभूव निरहङ्कृतिः ॥१०॥अम्बरादागतं दृष्ट्वा नारदं मुनिसत्तमम् ।सम्पूज्य चासने स्थाप्य कृताञ्जलिरभाषत ॥११॥श्री-बहुलाश्व उवाच -योऽनादिरात्मा पुरुषो भगवान्प्रकृतेः परः ।कस्मात्तनुं समाधत्ते तन्मे ब्रूहि महामते ॥१२॥श्रीनारद उवाच -गोसाधुदेवताविप्रदेवानां रक्षणाय वै ।तनुं धत्ते हरिः साक्षाद्भगवानात्मलीलया ॥१३॥यथा नटः स्वलीलायां मोहितो न परस्तथा ।अन्ये दृष्ट्वा च तन्मायां मुमुहुस्ते न संशयः ॥१४॥श्रीबहुलाश्व उवाच -कतिधा श्रीहरेर्विष्णोरवतारो भवत्यलम् ।साधूनां रक्षणार्थं हि कृपया वद मां प्रभो ॥१५॥श्रीनारद उवाच -अंशांशोंऽशस्तथावेशः कलापूर्णः प्रकथ्यते ।व्यासाद्यैश्च स्मृतः षष्ठः परिपूर्णतमः स्वयम् ॥१६॥अंशांशस्तु मरीच्यादिरंशा ब्रह्मादयस्तथा ।कलाः कपिलकूर्माद्या आवेशा भार्गवादयः ॥१७॥पूर्णो नृसिंहो रामश्च श्वेतद्वीपाधिपो हरिः ।वैकुण्ठोऽपि तथा यज्ञो नरनारायणः स्मृतः ॥१८॥परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान् स्वयम् ।असंख्यब्रह्माण्डपतिर्गोलोके धाम्नि राजते ॥१९॥कार्याधिकारं कुर्वन्तः सदंशास्ते प्रकिर्तिताः ।तत्कार्यभारं कुर्वन्तस्तेंऽशांशा विदिताः प्रभोः ॥२०॥येषामन्तर्गतो विष्णुः कार्यं कृत्वा विनिर्गतः ।नानाऽऽवेषावतारांश्च विद्धि राजन्महामते ॥२१॥धर्मं विज्ञाय कृत्वा यः पुनरन्तरधीयत ।युगे युगे वर्तमानः सोऽवतारः कला हरेः ॥२२॥चतुर्व्यूहो भवेद्यत्र दृश्यन्ते च रसा नव ।अतः परं च वीर्याणि स तु पूर्णः प्रकथ्यते ॥२३॥यस्मिन्सर्वाणि तेजांसि विलीयन्ते स्वतेजसि ।तं वदन्ति परे साक्षात्परिपूर्णतमं स्वयम् ॥२४॥पूर्णस्य लक्षणं यत्र तं पश्यन्ति पृथक् पृथक् ।भावेनापि जनाः सोऽयं परिपूर्णतमः स्वयम् ॥२५॥परिपूर्णतमः साक्षाच्छ्रीकृष्णो नान्य एव हि ।एककार्यार्थमागत्य कोटिकार्यं चकार ह ॥२६॥पूर्णः पुराणः पुरुषोत्तमोत्तमःपरात्परो यः पुरुषः परेश्वरः ।स्वयं सदाऽऽनन्दमयं कृपाकरंगुणाकरं तं शरणं व्रजाम्यहम् ॥२७॥श्रीगर्ग उवाच -तच्छ्रुत्वा हर्षितो राजा रोमाञ्ची प्रेमविह्वलः ।प्रमृश्य नेत्रेऽश्रुपूर्णे नारदं वाक्यमब्रवीत् ॥२८॥श्रीबहुलाश्व उवाच -परिपूर्णतमः साक्षाच्छ्रीकृष्णो केन हेतुना ।आगतो भारते खण्डे द्वारवत्यां विराजते ॥२९॥तस्य गोलोकनाथस्य गोलोकं धाम सुन्दरम् ।कर्माण्यपरिमेयानि ब्रूहि ब्रह्मन् बृहन्मुने ॥३०॥यदा तीर्थाटनं कुर्वञ्छतजन्मतपःपरम् ।तदा सत्सङ्गमेत्याशु श्रीकृष्णं प्राप्नुयान्नरः ॥३१॥श्रीकृष्णदासस्य च दासदासःकदा भवेयं मनसाऽऽर्द्रचित्तः ।यो दुर्लभो देववरैः परात्मास मे कथं गोचर आदिदेवः ॥३२॥धन्यस्त्वं राजशार्दूल श्रीकृष्णेष्टो हरिप्रियः ।तुभ्यं च दर्शनं दातुं भक्तेशोऽत्रागमिष्यति ॥३३॥त्वं नृपं श्रुतदेवं च द्विजदेवो जनार्दनः ।स्मरत्यलं द्वारकायामहो भाग्यं सतामिह ॥३४॥इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे कृष्णमाहात्म्यवर्णनं नाम प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP