संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गोलोकखण्डः| अध्यायः ०३ गोलोकखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० गोलोकखण्डः - अध्यायः ०३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता आगमनोद्योग वर्णनम् Translation - भाषांतर आगमनोद्योग वर्णनम्मुने देवा महात्मानं कृष्णं दृष्ट्वा परात्परम् ।अग्रे किं चक्रिरे तत्र तन्मे ब्रूहि कृपां कुरु ॥१॥नारद उवाच -सर्वेषां पश्यतां तेषां वैकुंठोऽपि हरिस्ततः ।उत्थायाष्टभुजः साक्षाल्लीनोऽभूत्कृष्णविग्रहे ॥२॥तदैव चागतः पूर्णो नृसिंहश्चण्डविक्रमः ।कोटिसूर्यप्रतीकाशो लीनोऽभूत्कृष्णतेजसि ॥३॥रथे लक्षहये शुभ्रे स्थितश्चागतवांस्ततः ।श्वेतद्वीपाधिपो भूमा सहस्रभुजमंडितः ॥४॥श्रिया युक्तः स्वायुधाढ्यः पार्षदैः परिसेवितः ।संप्रलीनो बभूवाशु सोऽपि श्रीकृष्णविग्रहे ॥५॥तदैव चागतः साक्षाद्रामो राजीवलोचनः ।धनुर्बाणधरः सीताशोभितो भ्रातृभिर्वृतः ॥६॥दशकोट्यर्कसंकाशे चामरैर्दोलिते रथे ।असंख्यवानरेंद्राढ्ये लक्षचक्रघनस्वने ॥७॥लक्षध्वजे लक्षहये शातकौंभे स्थितस्ततः ।श्रीकृष्णविग्रहे पूर्णः संप्रलीनो बभूव ह ॥८॥तदैव चागतः साक्षाद्यज्ञो नारायणो हरिः ।प्रस्फुरत्प्रलयाटोपज्वलदग्निशिखोपमः ॥९॥रथे ज्योतिर्मये दृश्यो दक्षिणाढ्यः सुरेश्वरः ।सोऽपि लीनो बभूवाशु श्रीकृष्णे श्यामविग्रहे ॥१०॥तदा चागतवान् साक्षान्नरनारायणः प्रभुः ।चतुर्भुजो विशालाक्षो मुनिवेषो घनद्युतिः ॥११॥तडित्कोटिजटाजूटः प्रस्फुरद्दीप्तिमंडलः ।मुनीन्द्रमण्डलैर्दिव्यैर्मण्डितोऽखण्डितव्रतः ॥१२॥सर्वेषां पश्यतां तेषामाश्चर्य मनसा नृप ।सोऽपि लीनो बभूवाशु श्रीकृष्णे श्यामसुंदरे ॥१३॥परिपूर्णतमं साक्षाच्छ्रीकृष्णं च स्वयं प्रभुम् ।ज्ञात्वा देवाः स्तुतिं चक्रुः परं विस्मयमागताः ॥१४॥देवा ऊचुः -कृष्णाय पूर्णपुरुषाय परात्पराययज्ञेश्वराय परकारणकारणाय ।राधावराय परिपूर्णतमाय साक्षा-द्गोलोकधाम धिषणाय नमः परस्मै ॥१५॥योगेश्वराः किल वदन्ति महः परं त्वांतत्रैव सात्वतमनाः कृतविग्रहं च ।अस्माभिरद्य विदितं यददोऽद्वयं तेतस्मै नमोऽस्तु महसां पतये परस्मै ॥१६॥व्यङ्गेन वा न न हि लक्षणया कदापि स्फोटेन यच्च कवयो न विशंति मुख्याः ।निर्देश्यभावरहितः प्रकृतेः परं चत्वां ब्रह्म निर्गुणमलं शरणं व्रजामः ॥१७॥त्वां ब्रह्म केचिदवयंति परे च कालंकेचित्प्रशांतमपरे भुवि कर्मरूपम् ।पूर्वे च योगमपरे किल कर्तृभाव-मन्योक्तिभिर्न विदितं शरणं गताः स्मः ॥१८॥श्रेयस्करीं भगवतस्तवपादसेवांहित्वाथ तीर्थयजनादि तपश्चरन्ति ।ज्ञानेन ये च विदिता बहुविघ्नसङ्घैःसन्ताडिताः किमु भवन्ति न ते कृतार्थाः ॥१९॥विज्ञाप्यमद्य किमु देव अशेषसाक्षीयः सर्वभूतहृदयेषु विराजमानः ।देवैर्नमद्भिरमलाशयमुक्त देहै-स्तस्मै नमो भगवते पुरुषोत्तमाय ॥२०॥यो राधिकाहृदयसुन्दरचन्द्रहारःश्रीगोपिकानयनजीवनमूलहारः ।गोलोकधामधिषणध्वज आदिदेवःस त्वं विपत्सु विबुधान् परिपाहि पाहि ॥२१॥वृन्दावनेश गिरिराजपते व्रजेशगोपालवेषकृतनित्यविहारलील ।राधापते श्रुतिधराधिपते धरां त्वंगोवर्द्धनोद्धरण उद्धर धर्मधाराम् ॥२२॥श्रीनारद उवाच -इत्युक्तो भवान् साक्षाच्छ्रीकृष्णो गोकुलेश्वरः ।प्रत्याह प्रणतान्देवान्मेघगंभीरया गिरा ॥२३॥श्रीभगवानुवाच -हे सुरज्येष्ठ हे शंभो देवाः शृणुत मद्वचः ।यादवेषु च जन्यध्वमंशैः स्त्रीभिर्मदाज्ञया ॥२४॥अहं च अवतरिष्यामि हरिष्यामि भुवो भरम् ।करिष्यामि च वः कार्यं भविष्यामि यदोः कुले ॥२५॥वेदा मे वचनं विप्रा मुखं गावस्तनुर्मम ।अंगानि देवता यूयं साधवो ह्यसवो हृदि ॥२६॥युगे युगे च बाध्येत यदा पाखंडिभिर्जनैः ।धर्मः क्रतुर्दया साक्षात्तदात्मानं सृजाम्यहम् ॥२७॥श्रीनारद उवाच -इत्युक्तवन्तं जगदीश्वरं हरिंराधा पतिप्राणवियोगविह्वला ।दावाग्निना दुःखलतेव मूर्छिता-श्रुकंपरोमांचितभावसंवृता ॥२८॥श्रीराधोवाच -भुवो भरं हर्तुमलं व्रजेर्भुवंकृतं परं मे शपथं शृणोत्वतः ।गते त्वयि प्राणपते च विग्रहंकदाचिदत्रैव न धारयाम्यहम् ॥२९॥यदा त्वमेवं शपथं न मन्यसेद्वितीयवारं प्रददामि वाक्पथम् ।प्राणोऽधरे गन्तुमतीव विह्वलःकर्पूरधूमः कणवद्गमिष्यति ॥३०॥श्रीभगवानुवाच -त्वया सह गमिष्यामि मा शोकं कुरु राधिके ।हरिष्यामि भुवो भारं करिष्यामि वचस्तव ॥३१॥श्रीराधिकोवाच -यत्र वृन्दावनं नास्ति यत्र नो यमुना नदी ।यत्र गोवर्द्धनो नास्ति तत्र मे न मनःसुखम् ॥३२॥श्रीनारद उवाच -वेदनागक्रोशभूमिं स्वधाम्नः श्रीहरिः स्वयम् ।गोवर्धनं च यमुनां प्रेषयामास भूपरि ॥३३॥तदा ब्रह्मा देवगणैर्नत्वा नत्वा पुनः पुनः ।परिपूर्णतमं साक्षाच्छ्रीकृष्णं समुवाच ह ॥३४॥श्रीब्रह्मोवाच -अहं कुत्र भविष्यामि कुत्र त्वं च भविष्यसि ।एते कुत्र भविष्यन्ति कैर्गृहैः कैश्च नामभिः ॥३५॥श्रीभगवानुवाच -वसुदेवस्य देवक्यां भविष्यामि परः स्वयम् ।रोहिण्यां मत्कला शेषो भविष्यति न संशयः ॥३६॥श्री साक्षाद्रुक्मिणी भैष्मी शिवा जांबवती तथा ।सत्या च तुलसी भूमौ सत्यभामा वसुंधरा ॥३७॥दक्षिणा लक्ष्मणा चैव कालिन्दी विरजा तथा ।भद्रा ह्रीर्मित्रविन्दा च जाह्नवी पापनाशिनी ॥३८॥रुक्मिण्यां कामदेवश्च प्रद्युम्न इति विश्रुतः ।भविष्यति न सन्देहस्तस्य त्वं च भविषसि ॥३९॥नंदो द्रोणो वसुः साक्षाद्यशोदा सा धरा स्मृता ।वृषभानुः सुचन्द्रश्च तस्य भार्या कलावती ॥४०॥भूमौ कीर्तिरिति ख्याता तस्या राधा भविष्यति ।सदा रासं करिष्यामि गोपीभिर्व्रजमण्डले ॥४१॥इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे आगमनोद्योगवर्णनं नाम तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP