संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गोलोकखण्डः| अध्यायः १६ गोलोकखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० गोलोकखण्डः - अध्यायः १६ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता श्रीकृष्ण-राधिका विवाहवर्णनम् Translation - भाषांतर श्रीनारद उवाच -गाश्चारयन् नन्दनमङ्कदेशेसंलालयन् दूरतमं सकाशात् ।कलिंदजातीरसमीरकंपितंनंदोऽपि भांडीरवनं जगाम ॥१॥कृष्णेच्छया वेगतरोऽथ वातोघनैरभून्मेदुरमंबरं च ।तमालनीपद्रुमपल्लवैश्चपतद्भिरेजद्भिरतीव भाः कौ ॥२॥तदांधकारे महति प्रजातेबाले रुदत्यंकगतेऽतिभीते ।नंदो भयं प्राप शिशुं स बिभ्र-द्धरिं परेशं शरणं जगाम ॥३॥तदैव कोट्यर्कसमूहदीप्ति-रागच्छतीवाचलती दिशासु ।बभूव तस्यां वृषभानुपुत्रींददर्श राधां नवनंदराजः ॥४॥कोटींदुबिंबद्युतिमादधानांनीलांबरां सुंदरमादिवर्णाम् ।मंजीरधीरध्वनिनूपुराणा-माबिभ्रतीं शब्दमतीव मंजुम् ॥५॥कांचीकलाकंकणशब्दमिश्रांहारांगुलीयांगदविस्फुरंतीम् ।श्रीनासिकामौक्तिकहंसिकीभिःश्रीकंठचूडामणिकुंडलाढ्याम् ॥६॥तत्तेजसा धर्षित आशु नंदोनत्वाथ तामाह कृतांजलिः सन् ।अयं तु साक्षात्पुरुषोत्तमस्त्वंप्रियास्य मुख्यासि सदैव राधे ॥७॥गुप्तं त्विदं गर्गमुखेन वेद्मिगृहाण राधे निजनाथमंकात् ।एनं गृहं प्रापय मेघभीतंवदामि चेत्थं प्रकृतेर्गुणाढ्यम् ॥८॥नमामि तुभ्यं भुवि रक्ष मां त्वंयथेप्सितं सर्वजनैर्दुरापम् ।श्रीराधोवाव -अहं प्रसन्ना तव भक्तिभवा-न्मद्दर्शनं दुर्लभमेव नंद ॥९॥श्रीनंद उवाच -यदि प्रसन्नासि तदा भवेन्मेभक्तिर्दृढा कौ युवयोः पदाब्जे ।सतां च भक्तिस्तव भक्तिभाजांसंगः सदा मेऽथ युगे युगे च ॥१०॥श्रीनारद उवाच -तथास्तु चोक्त्वाथ हरिं कराभ्यांजग्राह राधा निजनाथमंकात् ।गतेऽथ नंदे प्रणते व्रजेशेतदा हि भांडीरवनं जगाम ॥११॥गोलोकलोकाच्च पुरा समागताभूमिर्निजं स्वं वपुरादधाना ।या पद्मरागादिखचित्सुवर्णाबभूव सा तत्क्षणमेव सर्वा ॥१२॥वृंदावनं दिव्यवपुर्दधानंवृक्षैर्वरैः कामदुघैः सहैव ।कलिंदपुत्री च सुवर्णसौधैःश्रीरत्नसोपानमयी बभूव ॥१३॥गोवर्धनो रत्नशिलामयोऽभू-त्सुवर्णशृङ्गैः परितः स्फुरद्भिः ।मत्तालिभिर्निर्झरसुंदरीभि-र्दरीभिरुच्चांगकरीव राजन् ॥१४॥तदा निकुंजोऽपि निजं वपुर्दध-त्सभायुतं प्रांगणदिव्यमंडपम् ।वसंतमाधुर्यधरं मधुव्रतै-र्मयूरपारावतकोकिलध्वनिम् ॥१५॥सुवर्णरत्नादिखचित्पटैर्वृतंपतत्पताकावलिभिर्विराजितम् ।सरः स्फुरद्भिर्भ्रमरावलीढितै-र्विचर्चितं कांचनचारुपंकजैः ॥१६॥तदैव साक्षात्पुरुषोत्तमोत्तमोबभूव कैशोरवपुर्घनप्रभः ।पीतांबरः कौस्तुभरत्नभूषणोवंशीधरो मन्मथराशिमोहनः ॥१७॥भुजेन संगृह्य हसन्प्रियां हरि-र्जगाम मध्ये सुविवाहमंडपम् ।विवाहसंभारयुतः समेखलंसदर्भमृद्वारिघटादिमंडितम् ॥१८॥तत्रैव सिंहासन उद्गते वरेपरस्परं संमिलितौ विरेजतुः ।परं ब्रुवंतौ मधुरं च दंपतीस्फुरत्प्रभौ खे च तडिद्घनाविव ॥१९॥तदांबराद्देववरो विधिः प्रभुःसमागतस्तस्य परस्य संमुखे ।नत्वा तदंघ्री ह्युशती गिराभिःकृताञ्जलिश्चारु चतुर्मुखो जगौ ॥२०॥श्रीब्रह्मोवाच -अनादिमाद्यं पुरुषोत्तमोत्तमंश्रीकृष्णचन्द्रं निजभक्तवत्सलम् ।स्वयं त्वसंख्यांडपतिं परात्परंराधापतिं त्वां शरणं व्रजाम्यहम् ॥२१॥गोलोकनाथस्त्वमतीव लीलोलीलावतीयं निजलोकलीला ।वैकुंठनाथोऽसि यदा त्वमेवलक्ष्मीस्तदेयं वृषभानुजा हि ॥२२॥त्वं रामचंद्रो जनकात्मजेयंभूमौ हरिस्त्वं कमलालयेयम् ।यज्ञावतारोऽसि यदा तदेयंश्रीदक्षिणा स्त्री प्रतिपत्निमुख्या ॥२३॥त्वं नारसिंहोऽसि रमा तदेयंनारायणस्त्वं च नरेण युक्तः ।तदा त्वियं शांतिरतीव साक्षा-च्छायेव याता च तवानुरूपा ॥२४॥त्वं ब्रह्म चेयं प्रकृतिस्तटस्थाकालो यदेमां च विदुः प्रधानाम् ।महान्यदा त्वं जगदंकुरोऽसिराधा तदेयं सगुणा च माया ॥२५॥यदांतरात्मा विदितश्चतुर्भि-स्तदा त्वियं लक्षणरूपवृत्तिः ।यदा विराड्देहधरस्त्वमेवतदाखिलं वा भुवि धारणेयम् ॥२६॥श्यामं च गौरं विदितं द्विधा मह-स्तवैव साक्षात्पुरुषोत्तमोत्तम ।गोलोकधामाधिपतिं परेशंपरात्परं त्वां शरणं व्रजाम्यहम् ॥२७॥सदा पठेद्यो युगलस्तवं परंगोलोकधामप्रवरं प्रयाति सः ।इहैव सौंदर्यसमृद्धिसिद्धयोभवंति तस्यापि निसर्गतः पुनः ॥२८॥यदा युवां प्रीतियुतौ च दंपतीपरात्परौ तावनुरूपरूपितौ ।तथापि लोकव्यवहारसङ्ग्रहा-द्विधिं विवाहस्य तु कारयाम्यहम् ॥२९॥श्रीनारद उवाच -तदा स उत्थाय विधिर्हुताशनंप्रज्वाल्य कुंडे स्थितयोस्तयोः पुरः ।श्रुतेः करग्राहविधिं विधानतोविधाय धाता समवस्थितोऽभवत् ॥३०॥स वाहयामास हरिं च राधिकांप्रदक्षिणं सप्तहिरण्यरेतसः ।ततश्च तौ तं प्रणमय्य वेदवि-त्तौ पाठयामास च सप्तमंत्रकम् ॥३१॥ततो हरेर्वक्षसि राधिकायाःकरं च संस्थाप्य हरेः करं पुनः ।श्रीराधिकायाः किल पृष्ठदेशकेसंस्थाप्य मंत्रांश्च विधिः प्रपाठयन् ॥३२॥राधा कराभ्यां प्रददौ च मालिकांकिंजल्किनीं कृष्णगलेऽलिनादिनीम् ।हरेः कराभ्यां वृषभानुजा गले ।ततश्च वह्निं प्रणमय्य वेदवित् ॥३३॥संवासयामास सुपीठयोश्च तौकृतांजली मौनयुतौ पितामहः ।तौ पाठयामास तु पंचमंत्रकंसमर्प्य राधां च पितेव कन्यकाम् ॥३४॥पुष्पाणि देवा ववृषुस्तदा नृपविद्याधरीभिर्ननृतुः सुरांगनाः ।गंधर्वविद्याधरचारणाः कलंसकिन्नराः कृष्णसुमंगलं जगुः ॥३५॥मृदंगवीणामुरुयष्टिवेणवःशंखानका दुंदुभयः सतालकाः ।नेदुर्मुहुर्देववरैर्दिवि स्थितै-र्जयेत्यभून्मङ्गलशब्दमुच्चकैः ॥३६॥उवाच तत्रैव विधिं हरिः स्वयंयथेप्सितं त्वं वद विप्र दक्षिणाम् ।तदा हरिं प्राह विधिः प्रभो मेदेहि त्वदंघ्र्योर्निजभक्तिदक्षिणाम् ॥३७॥तथास्तु वाक्यं वदतो विधिर्हरेःश्रीराधिकायाश्च पदद्वयं शुभम् ।नत्वा कराभ्यां शिरसा पुनः पुन-र्जगाम गेहं प्रणतः प्रहर्षितः ॥३८॥ततो निकुंजेषु चतुर्विधान्नंदिव्यं मनोज्ञं प्रियया प्रदत्तम् ।जघास कृष्णः प्रहसन्परात्माकृष्णेन दत्तं क्रमुकं च राधा ॥३९॥ततः करेणापि करं प्रियायाहरिर्गृहीत्वा प्रचचाल कुंजे ।जगाम जल्पन्मधुरं प्रपश्यन्वृंदावनं श्रीयमुनां लताश्च ॥४०॥श्रीमल्लताकुंजनिकुंजमध्येनिलीयमानं प्रहसंतमेव ।विलोक्य शाखांतरितं च राधाजग्राह पीतांबरमाव्रजंती ॥४१॥दुद्राव राधा हरिहस्तपद्माझंकारमंघ्र्योः प्रतिकुर्वती कौ ।निलीयमाना यमुनानिकुंजेपुनर्व्रजंती हरिहस्तमात्रात् ॥४२॥यथा तमालः कलधौतवल्ल्याघनो यथा चंचलया चकास्ति ।नीलोऽद्रिराजो निकषाश्मखन्याश्रीराधयाऽऽद्यस्तु तया रमण्या ॥४३॥श्रीरासरंगे जनवर्जिते परेरेमे हरी रासरसेन राधया ।वृंदावने भृङ्गमयूरकूज-ल्लते चरत्येव रतीश्वरः परः ॥४४॥श्रीराधया कृष्णहरिः परात्माननर्त गोवर्द्धनकंदरासु ।मत्तालिषु प्रस्रवणैः सरोभि-र्विराजितासु द्युतिमल्लतासु ॥४५॥चकार कृष्णो यमुनां समेत्यवरं विहारं वृषभानुपुत्र्या ।राधाकराल्लक्षदलं सपद्मंधावन्गृहीत्वा यमुनाजलेषु ॥४६॥राधा हरेः पीतपटं च वंशींवेत्रं गृहीत्वा सहसा हसंती ।देहीति वंशीं वदतो हरेश्चजगाद राधा कमलं नु देहि ॥४७॥तस्यै ददौ देववरोऽथ पद्मंराधा ददौ पीततटं च वंशीम् ।वेत्रं च तस्मै हरये तयोः पुन-र्बभूव लीला यमुनातटेषु ॥४८॥ततश्च भांडीरवने प्रियाया-श्चकार शृङ्गारमलं मनोज्ञम् ।पत्रावलीयावककज्जलाद्यैःपुष्पैः सुरत्नैर्व्रजगोपरत्नः ॥४९॥हरेश्च शृङ्गारमलं प्रकर्तुंसमुद्यता तत्र यदा हि राधा ।तदैव कृष्णस्तु बभूव बालोविहाय कैशोरवपुः स्वयं हि ॥५०॥नंदेन दत्तं शिशुमेव यादृशंभूमौ लुठंतं प्ररुदंतमाययौ ।हरिं विलोक्याशु रुरोद राधिकातनोषि मायां नु कथं हरे मयि ॥५१॥इत्थं रुदंतीं सहसा विषण्णा-माकाशवागाह तदैव राधाम् ।शोचं नु राधे इह मा कुरु त्वंमनोरथस्ते भविया हि पश्चात् ॥५२॥श्रुत्वाथ राधा हि हरिं गृहीत्वागताऽऽशु गेहे व्रजराजपत्न्याः ।दत्त्वा च बालं किल नंदपत्न्याउवाच दत्तः पथि ते च भर्त्रा ॥५३॥उवाच राधां नृप नंदगेहिनीधन्याऽसि राधे वृषभानुकन्यके ।त्वया शिशुर्मे परिरक्षितो भया-न्मेघावृते व्योम्नि भयातुरो वने ॥५४॥संपूजिता श्लाघितसद्गुणा सासुनंदिता श्रीवृषभानुपुत्री ।तदा ह्यनुज्ञाप्य यशोमतीं साशनैः स्वगेहं हि जगाम राधा ॥५५॥इत्थं हरेर्गुप्तकथा च वर्णिताराधाविवाहस्य सुमंगलावृता ।श्रुत्वा च यैर्वा पठिता च पाठितातान्पापवृन्दा न कदा स्पृशंति ॥५६॥इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे श्रीराधिकाविवाहवर्णनं नाम षोडशोऽध्यायः ॥१६॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP