प्रथमस्थानम् - तृतीयोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


अथ वक्ष्यामि रोगाणामुपचारक्रमं तथा
जानाति यो बुधः सम्यक् पूज्यते नृपसत्तमैः ॥१॥
ज्ञात्वा रोगसमुत्पत्तिं रोगाणामप्युपक्रमम्
ज्ञात्वा प्रतिक्रियां वैद्यः प्रतिकुर्याद्यथोचिताम् ॥२॥
देशं कालं वयो वह्निं सात्म्यप्रकृतिभेषजम्
देहं सत्वं बलं व्याधेर्दृष्ट्वा कर्म समाचरेत् ॥३॥
धर्मार्थकामलाभः स्यात् सम्यगातुरसेवनात्
यदा नाचरतस्तस्य विनाशश्चात्मनस्तदा ॥४॥
व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः
एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ॥५॥
द्विविधोपक्रमश्चैव शमनः कोपनो रुजाम्
तथैव ज्ञात्वा विबुधः क्रियां कुर्याद्विचक्षणः ॥६॥
वैद्योऽपि द्विविधो ज्ञेयो विकारेङ्गितरोगयोः
उपचारापचारज्ञो द्विविधः प्रोच्यते भिषक् ॥७॥
उपचारेण शमनमपचारेण कोपनम्
एवं विज्ञाय सद्वैद्यः कुर्य्यात् संशमनक्रियाम् ॥८॥
साध्योऽसाध्यश्च याप्यश्च कृच्छ्रसाध्यस्तथैव च
व्याधिश्चतुर्विधः प्रोक्तः सद्वैद्यैः शास्त्रकोविदैः ॥९॥
उपचारेण साध्या ये रोगा गच्छन्ति याप्यताम्
याप्यास्त्वसाध्यतां यान्ति साध्यकष्टेन पुत्रक ॥१०॥
सम्भवन्ति महारोगाः कष्टसाध्या म्रियन्ति वै
एवं चतुर्विधो व्याधिर्ज्ञात्वा कर्म समाचरेत् ॥११॥
उपचारकृता दोषाः कृच्छ्रास्ते यान्ति याप्यताम्
याप्याः साध्यत्वमायान्ति कष्टसाध्यं भवेद्ध्रुवम् ॥१२॥
सुखसाध्यः सुखी शीघ्रं स्यात् सुधीभिरुपक्रमैः
साध्यासाध्यपरिज्ञानं ज्ञात्वोपक्रमणं तथा ॥१३॥
साध्यं गते यदा रोगे दोषशेषं न धारयेत्
दोषशेषेऽपि कष्टं स्यात्तस्माद्यत्नान्निकृन्तयेत् ॥१४॥
यथा हि कालदुष्टः स्यात् यथा सूक्ष्मोऽग्नितः कणः
स्वल्पस्तद्वत् क्रियाप्राप्तो गदो घोरतरो भवेत् ॥१५॥
तथा दोषस्य शेषे तु शमनं याति चाल्पशः
दैवाद्यद्दुष्टतां याति यथाग्निः कुपितो भृशम् ॥१६॥
यथा काष्ठचयं दूरात् प्राप्य घोरतरोऽग्निकः
तथापथ्यस्य संयोगाद्भवेद्घोरतरो गदः ॥१७॥
कषायैश्च फलैश्चूर्णैः पिण्डलेहानुवासनैः
सर्वाः क्रिया भृशं व्यर्था न शमं याति चामयः ॥१८॥
एवं ज्ञात्वा सदा वैद्ये रोगशान्तिककारणम्
कर्त्तव्यमतियोगेन येन रोगः प्रशाम्यति ॥१९॥
ज्ञात्वा दोषबलं धीमान् लङ्घनानि समाचरेत्
दोषे सति न दोषाय लङ्घनानि बहून्यपि ॥२०॥
पचेत्प्रथममाहारं दोषानाहारसंक्षये
दोषक्षयेऽनलो धातून् प्राणान् धातुक्षये सति ॥२१॥
ज्ञात्वा बलाबलं व्याधेः सामन्निराममेव च
तदा सामे पाचनं स्यान्निरामे पथ्यसंक्रमः ॥२२॥
सामं निरामं सुखसाध्यमेव सम्यग् रुजश्च परिलक्ष्य रुजो विनाशम्
एतद्भवेत् सकलवैद्यकशास्त्रसारं नैवायुषश्च बलदानकरो हि वैद्यः ॥२३॥
नो वैद्यो मनुजस्य सौख्यमथवा दुःखञ्च दातुं क्षमो
जन्तोः कर्मविपाक एव भुवने सौख्याय दुःखाय च ।
तस्मान्मानवदुःखकारणरुजां नाशस्य चात्र क्षमो
वैद्यो बुद्धिनिधानधाम चतुरो नाम्नैव वैद्योऽपरः ॥२४॥
सम्यक् रुजां परिज्ञानं ज्ञात्वा दोषविनिग्रहम्
प्रत्याख्येयञ्च यः साध्यं जानाति स भवेद्भिषक् ॥२५॥
तपस्वी च ब्राह्मणश्च स्त्रियो वा बालकस्तथा
दीनो वा दुर्बलो वापि प्राज्ञो वा पण्डितस्तथा ॥२६॥
महात्मा श्रोत्रियः साधुरनाथो बन्धुवर्जितः
एतान् व्याधिविनिग्रस्तान् प्रतिकुर्याद्विशेषतः ॥२७॥
राजा च सुधनी चैव मण्डलीको बलाधिपः
उपचार्योऽर्थसिद्धिः स्याद्वित्तं ग्राह्यं भयं न च ॥२८॥
मध्यमा वणिजां पत्तिः पुरोधा ब्राह्मणादयः
भट्टो वा गणिकागण्यश्चिकित्स्यास्तु विशेषतः
रोगग्रस्तेषु चैतेषु चिकित्सा कीर्त्तिकारिणी ॥२९॥
व्याधश्चौरस्तथा म्लेच्छो वह्निदो मत्स्यबन्धकः ॥३०॥
बहुद्वेषो ग्रामकूटो बन्धकी मांसविक्रयी
एतेषां व्याधिग्रस्तानां नैव कुर्यात् प्रतिक्रियाम् ॥३१॥
एतेभ्यः स्वार्थसिद्धिर्नोपकारो हितमङ्गलम्
तेषां जीवाप्तसंजातो वैद्यो भवति दोषभाक् ॥३२॥
एवं ज्ञात्वा तु सद्वैद्यः कुर्यादथ प्रतिक्रियाम्
धर्मार्थकामसम्पत्तिः कीर्तिर्लोके प्रवर्त्तते ॥३३॥
इति बहुविधियुक्तो वैद्यविद्याविचारः क्षणमपि हृदये यो धारणं संकरोति ।
स भवति गदसंघस्याथ विध्वंसशक्तो विमलविदितकीर्त्तिः पूज्यमानो नरेन्द्रैः ॥३४॥

इति आत्रेयभाषिते हारीतोत्तरे वैद्यशिक्षाविधानो नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP