संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|प्रथमस्थानम्| अष्टादशोऽध्यायः प्रथमस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः प्रथमस्थानम् - अष्टादशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता मधुवर्गो नाम Translation - भाषांतर अतो वक्ष्यामि माक्षीकं त्रिविधं शृणु पुत्रकभ्रामरं सारघं क्षौद्रं तेषां वच्मि गुणागुणम् ॥१॥शीतं कषायं मधुरं लघु स्यात्सन्दीपनं लेहनमेव शस्तम्संशोधनञ्च व्रणशोधनञ्च संरोपणं हृद्यतमञ्च बल्यम् ॥२॥त्रिदोषनाशं कुरुते च पुष्टिं कासक्षये वा क्षतजे च छर्दौहिक्काभ्रमे शोषणपीनसानां रक्तप्रमेहे सरलातिसारे ॥३॥रक्तातिसारे च सपित्तरक्ते तृण्मोहहृत्पार्श्वगदेऽपि शस्तःनेत्रामये वा ग्रहणी गदे वा विषे प्रशस्तं भ्रमरैश्चित्तं यत् ॥४॥भ्रामरं सघनं जाढ्यं भूयिष्ठं मधुरं च यत्क्षौद्रं विशेषतो ज्ञेयं शीतलं लघु लेहनम् ॥५॥तस्माल्लघुतरं रूक्षं सारघं नातिशीतलम्कासे क्षये प्रशस्तं स्यात्कामलार्शो विनाशनम् ॥६॥नातिशीतं न च रूक्षं दीपनं बलकृन्मतम्अतीसारे नेत्ररोगे क्षते वा क्षतजे हितम् ॥७॥भ्रामरं वृक्षसंस्थाने विटपे सारघं भवेत्रन्ध्रे तु कोटरे वापि क्षौद्रं तत्र प्रशस्यते ॥८॥इति आत्रेयभाषिते हारीतोत्तरे मधुवर्गो नाम अष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : February 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP