संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|प्रथमस्थानम्| विंशोऽध्यायः प्रथमस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः प्रथमस्थानम् - विंशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता चतुष्पदानां मांसवर्गो नाम Translation - भाषांतर शूलिनः शृङ्गिणश्चैव नखिनोऽन्ये प्रकीर्तिताःश्वापदाः पक्षिणश्चान्ये मत्स्याश्चान्याः सरीसृपाः ॥१॥जलेचरा जलाधारा ग्रामारण्यनिवासिनःअनूपा जाङ्गला जीवास्तथा साधारणोऽपरः ॥२॥मृगरुरुचित्राङ्गास्तथा गण्डश्च वनगवयमहिषाःसूकराद्याश्च येऽपि भवन्ति विविधवर्णा ग्रामवासिनश्च ॥३॥ये ये वनगजाद्याश्च ग्रामकाद्याश्च शृङ्गिणःशूकरच्छिक्कराद्याश्च शूरिणो वा भवन्त्यमो ॥४॥शशकः शल्लकी गोधा मार्जाराद्या नखायुधाःसर्पमत्स्यादिका ये च ते विज्ञेयाः सरीसृपाः ॥५॥मत्स्यमंकुरकाद्या ये कच्छपा दुर्जरादयःहंससारसचक्राद्याः कपिञ्जलकुमूदकाः ॥६॥आनूपास्तेषु विज्ञेयाः श्लेष्मला वातकोपनाः ॥७॥शशलावकवाताटा गोधाहरिणकूटकाःछिक्कराद्यास्तथान्येऽपि तित्तिराद्याश्च कूर्चकाः ॥८॥भारद्वाजास्तथा श्येना मूषका वरवारणाःइत्येता जाङ्गला जीवा ये जलेन विना स्थिताः ॥९॥शूकरा मृगशल्लाद्याः सलिलाशयमाश्रिताःमकराद्याश्च गण्डाका गवयाश्च तथापराः ॥१०॥महिषाद्याश्च ये चैव ते च साघाराणा मताःकुररबकमकराः कङ्कचटकपिकभृङ्गसारसाः ॥११॥आडिदात्यूहहंसा जलकरटिकपिङ्कटिट्टिभाद्याश्चजलेचरा विहङ्गास्ते खञ्जरीटाश्च भासकाः ॥१२॥इत्येते जलजा जीवाः स्थलजाः स्थलचारिणः ॥१३॥गजवाजिनस्तथोष्ट्रा माहिषा सौरभाजकाःखरशूकरमेषाश्च श्वानो मार्जारमूषकाः ॥१४॥इत्येते पशवो ज्ञेया ग्रामवासनिवासिनःकुक्कुटकलविङ्कपारावतकपोतकाः ॥१५॥पक्षिणो ग्रामचाराश्च वच्मि चैषां गुणागुणम् ॥१६॥शृङ्गिणां हरिणः श्रेष्ठो बल्यो रोचनदीपनःत्रिदोषघ्नो लघुः पाके मधुरो ज्वरिणां हितः ॥१७॥क्षते क्षयार्शसोः पाण्ड्वरोचकनिपीडितेकासश्वासातुराणाञ्च एणमांसं सुखावहम् ॥१८॥चित्राङ्गो वातशमनो बृंहणो बलकृन्मतःश्लेष्मलः कथितो वापि दुर्जरो मेदवर्द्धनः ॥१९॥छिक्करो लघु बृंही च मधुरो दोषनाशनःतुल्यो हरिणमांसस्य ज्वरेष्वपि प्रशस्यते ॥२०॥रोहितो बृंहणश्चैव विबन्धी दुर्जरो घनःज्वरिणां विषमाग्नीनामतीसारेण त्रास्यते ॥२१॥तथैव गण्डगवयमहिषोष्ट्रतुरङ्गमाःविबन्धिगुरवः स्निग्धा वातालस्ये प्रकीर्त्तिताः ॥२२॥वातघ्नं रोचनं वृष्यं दुर्जरं श्रमनाशनम्सौकरं पित्तशमनं रुचिदं धातुवर्द्धनम् ॥२३॥शशको जाङ्गलश्रेष्ठो लघुर्वृष्यश्च दीपनःरुचिकृत्तर्पणो बल्यस्त्रिदोषशमनो मतः ॥२४॥ज्वरे च पाण्डुरोगे च क्षये कासे गुदामयेराजयक्ष्मणि पाण्डौ च तथातीसारिणां हितः ॥२५॥शल्लकी बृंहणो बल्यः स्निग्धो वृष्यो रुचिप्रदःवातश्लेष्महरो हृद्यो मधुरो धातुवर्द्धनः ॥२६॥शल्यको बृंहणो बल्यः स्निग्धो वृष्यो रुचिप्रदःवातलः किञ्चिद्धातूनां वर्द्धनो मधुरो घनः ॥२७॥रक्तपित्तहरा वृष्या स्निग्धा मधुरशीतलाश्वासकाशहरा प्रोक्ता गोधा चार्शोहिता बला ॥२८॥स्निग्धो बलकरः शुक्रवर्द्धनो मधुरो लघुदुर्नामकृमिदोषघ्नो वातहारी च मूषकः ॥२९॥इति आत्रेयभाषिते हारीतोत्तरे चतुष्पदानां मांसवर्गो नाम विंशोऽध्यायः ॥२०॥ N/A References : N/A Last Updated : February 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP