प्रथमस्थानम् - पञ्चदशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


रक्तशालिर्महाशालिः कलमा षष्टिकापरा
खञ्जरीटापसाही च जीरकान्या कपिञ्जला ॥१॥
सौगन्धी शूकला चान्या बिलवासी कचोरका
गरुडा रुक्मवन्ती च कलमान्या तथापरा
बिल्वजा मागधी पीता ता अष्टादश शालयः ॥२॥
रक्तशालिस्त्रिदोषघ्नी चक्षुष्या मूत्ररोगहा
महाशालिर्गुरुर्वृष्या चक्षुष्याबलवर्द्धिनी ॥३॥
शीता गुरुस्त्रिदोषघ्नी मधुरापरषष्टिका ॥४॥
जीरका वातपित्तघ्नी कलमा श्लेष्मपित्तहा
कपिञ्जला श्लेष्मला स्यान्मागधीकफवातला ॥५॥
बिलवासी गुरुश्चापि पित्तघ्नी शुक्रवर्द्धिनी
शूकला पित्तवातघ्नी कचोरा पित्तनाशिनी ॥६॥
गरुडान्या च पातघ्नी पित्तमूत्रगदापहा
रुक्मवन्ती लघू रुचिबलपुष्टिकरा मता ॥७॥
कलमान्या लघुः पथ्या वातश्लेष्मविवर्द्धिनी
बिल्वजा मागधी पीता सामान्यास्तागुणागुणैः ॥८॥
रुचिकृद्बलकृन्मूत्रदोषघ्नी च श्रमापहा
दग्धग्रामाचले जाताः शालयो लघुपाकिनः ॥९॥
सुपथ्या बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षिणः
केदारप्रभवा वृक्षा वातपित्तविनाशिनः ॥१०॥
रक्तपित्तविकारघ्ना वातलाः कफकारकाः
देशे देशे विभिन्नानि नामानि परिलक्षयेत् ॥११॥
समान्गुणैश्च सर्वास्तान्भूमिभागोद्भवान्विदुः ॥१२॥
शालयश्छिन्नरोहाश्च मूत्रला वातलाहिमाः ॥१३॥
श्यामाकः कोद्रवः कण्डूर्मर्कटी कपिकच्छुरा
क्षुद्रधान्यमिदं प्रोक्तं शृणु पुत्र प्रवक्ष्यते ॥१४॥
श्यामाकः शोषणो रूक्षो वातलः कफवारणः
कोद्रवो रूक्षो ग्राही श्याद्रक्तपित्तविशोषणः ॥१५॥
नाधिककफकृत् प्रोक्तो रुच्यः स्वादुः प्रकीर्त्तितः ॥१६॥
विदलान्नानि वक्ष्यामि शृणु पुत्र यथाक्रमम्
यवगोधूमचणका माषो मुद्गाढकी तथा ॥१७॥
मकुष्टकः कुलत्थश्च मसूरस्त्रिपुटस्तथा
निष्पावकःकलायश्च विदलान्नं प्रकीर्त्तितम् ॥१८॥
रूक्षः शीतो गुरुः स्वादुः कषायो मधुरो यवः
वृष्यो ग्राही कफघ्नश्च स्यात्पित्तश्वासकासनुत् ॥१९॥
मधुरो गुरुविष्टम्भी वृष्यो बल्योऽथ बृंहणः
ईषत्कषायो मधुरो गोधूमः स्यात्त्रिदोषहा ॥२०॥
तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणालेपनपथ्य उक्तः
बल्योऽग्निमेधाजननो वरेण्यो मूत्रस्य दोषहरणो गुरुश्च ॥२१॥
तिलेषु सर्वेष्वसितः प्रधानो मध्यः सितो हीनतरास्तथान्ये ॥२२॥
रक्ते कफे पीनसके तु कण्ठे गलामये वातरुजे सपित्ते
शीतः प्रतिश्यायकृमीन्निहन्ति शुष्कस्तथार्द्रश्चणकः प्रशस्तः ॥२३॥
स्निग्धोऽथ वृष्यो मधुरश्च बल्यो मरुत्कफानां परिबृंहणश्च
पाकेऽम्लकोष्णो विदितो हिमश्च माषोऽथ हृद्यः कथितो नरैश्च ॥२४॥
शीतः कषायो मधुरो लघुः स्यात्पैत्तास्रजदोषहरः सरश्च
विपाकतोऽसौ कटुकप्रधानो मुद्गस्तथान्यः कथितोऽभिरम्यः ॥२५॥
मृदुःकषाया च सरक्तपित्तं वातं कफं हन्ति मुखव्रणश्च
गुल्मज्वरारोचककासछर्दिहृद्रोगदुर्नामहराढकी स्यात् ॥२६॥
सरक्तपित्तकफवातहन्ता चोष्णः कषायो मधुरः प्रदिष्टः
ग्राही सुशीतो मुदकीलगुल्मं मकुष्टकः सर्वगदान्निहन्ति ॥२७॥
उष्णो जयेन्मारुतपीनसन्तु कासप्रतिश्यायविबन्धगुल्मान्
हिक्कां सरक्तस्तु बलाशपित्तं निहन्ति मेदश्च कुलत्थकोऽयम् ॥२८॥
रूक्षो विशोषी मधुरः प्रदिष्टः स्नायुं करोत्यस्थिगतं बलिष्टम्
शूलविबन्धभ्रमशोफकर्त्ता दाहार्शहृद्रोगविकारकारी ॥२९॥
किञ्चित्कषाया मधुराः प्रदिष्टा रक्तप्रशन्तिं जनयन्ति बल्याः
किञ्चित्सवातं विनिघ्नन्ति पित्तं कलायका मुद्गसमानरूपाः ॥३०॥
रूक्षो विशोषी मधुरः प्रदिष्टः शूलार्त्तिगुल्मग्रहणीविकारान्
करोति वातामयवर्द्धनञ्च पित्तासृजं ग्राहहरो मसूरः ॥३१॥
इति प्रतिष्टो बहुधान्यवर्गो ग्रन्थस्य विस्तारभयाच्च किञ्चित्
ये ये प्रसिद्धाः सुतरां हि लोके तेषां गुणाः श्रेष्ठतमाः प्रदिष्टाः ॥३२॥

इति आत्रेयभाषिते हारीतोत्तरे प्रथमस्थाने धान्यवर्गो नाम पञ्चदशोऽध्यायः ॥१५॥
=========

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP