संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|प्रथमस्थानम्| त्रयोविंशोऽध्यायः प्रथमस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः प्रथमस्थानम् - त्रयोविंशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता अन्नपानवर्गो नाम Translation - भाषांतर मण्डः परिस्रवो भक्तस्तर्पणो वातनाशनःमूत्रमेहसमीरघ्नो रुचिकृन्मूत्रलो मतः ॥१॥आशुमण्डो भवेद्ग्राही मधुरो वा कफात्मकःतर्पणः क्षयदोषघ्नः शुक्रवृद्धिकरः परः ॥२॥अप्रसाधितभक्तो युगन्धराणां भक्तश्च घनो विशदमधुरश्चकफे त्रिदोषशमनश्च कथ्यते कासश्च श्वासात्मक एव स स्मृतः ॥३॥सन्दीपनी स्वेदकरा यवागूः सम्पाचनी दोषमलामयानाम्सन्तर्पणी धातुबलेन्द्रियाणां शस्ता भवेत्स्याज्ज्वररोगिणाञ्च ॥४॥भागैकञ्च भवेत् तत्र द्विभागेन जलं क्षिपेत्चित्रकं पिप्पलीमूलं पिप्पली चव्यनागरम् ॥५॥धान्यकस्य समांशानि पिष्ट्वा श्वेतासितण्डुलान्संशुद्धा शिथिला किञ्चित् सा यवागूर्निगद्यते ॥६॥यवागूमुपभुञ्जानो जनो नारुचिमाचरेत्शाकमाषफलैर्युक्ता यवागूः स्याच्च दुर्जरा ॥७॥पञ्चकोलकधान्याकैर्युक्तो रास्नान्वितः पुनःमण्डस्त्रिदोषशमनो ज्वराणां पाचनः परः ॥८॥पायसं गुरु विष्टम्भजननं श्लेष्मवातलम्पित्तसंशमनं बल्यं वृष्यं श्रेष्ठं रसायनम् ॥९॥गुरुर्विष्टम्भजननो वातश्लेष्मकरः स्मृतःपित्तसंशमनो बल्यो बृष्यश्चैव फलप्रदः ॥१०॥मुहुस्तण्डुलसंयुक्तो माषतण्डुलवान् पुनःअन्यथा धान्यगुणवान् लक्ष्यते च भिषग्वर ॥११॥तिलानां संयुतो हृद्यो धातुपुष्टिविवर्द्धनःगुरुर्विष्टम्भमलकृद्दुर्जरः श्लेष्मकोपनः ॥१२॥सूपश्चोक्तस्त्रिदोषघ्नो व्यञ्जितश्चैव सर्पिषाधातुपुष्टिकरः श्रेष्ठो बृंहणो बलवर्द्धनः ॥१३॥वातकफकरो हृद्यः खलको बलकारकः ॥१४॥कफानिलहरो हृद्यो दीपनो दाडिमाम्लकः ॥१५॥पर्पटस्तैलसंभृष्टो दोषाणाञ्च ज्वरापहःरुचिकृद्बलकृच्चैव दाहशोषतृषापहः ॥१६॥सण्डाकी च गुरुःस्निग्धा दुर्जरा अतिशीतलापित्तश्लेष्मकरा बल्या धातूनाञ्च बलप्रदा ॥१७॥दुर्जरा मधुरा रुच्या वटिका माषकादिभिः ॥१८॥गुडदधिप्रमुदिता हिता शिखरिणी नृणाम्धातुवृद्धिकरा वृष्या वातपित्तविनाशिनी ॥१९॥शीतलः पित्तशमनो भ्रममूर्च्छातृषापहःखण्डेन संयुतः श्रेष्ठो घृतयुक्तो जलाधिकः ॥२०॥सक्तवः सर्पिषाभ्यक्ताः शीतवारिपरिप्लुताःनातिद्रवा नातिसान्द्रा मन्थ इत्यभिधीयते ॥२१॥मन्थः सद्यो बलच्छर्दिपिपासादाहनाशनःसाम्लः स्नेहश्च सगुडो मूत्रकृच्छ्रस्य साधनः ॥२२॥सिद्धं मांसं वेसवारेण युक्तं बल्यं श्रेष्ठं स्वादु संदीपनञ्चत्रिदोषशमनं गुरु लवणस्नेहयुक्तं दुर्जरं दीपनं स्मृतम् ॥२३॥नहि मांससमं किञ्चिदन्यद्देहमहत्त्वकृत्मांसादमांसं मांसेन सम्भृतत्वाद्विशिष्यते ॥२४॥अङ्गारैः परिपक्वञ्च दीपनं श्लेष्मनाशनम्बल्यञ्च स्नेहसंयुक्तं घनं घनगुणात्मकम् ॥२५॥अत्युष्णं मण्डकं पथ्यं लघु चैव यथोत्तरम्त्रिकशूलपार्श्वशूलपरिणामापहं तथातृष्णामारुतछर्दिघ्नमामाशयकरं तथा ॥२६॥तप्तकर्परपक्वा या रोचनी मधुरा घनाकफवृद्धिकरी बल्या पित्तरक्तप्रदायिनी ॥२७॥पूरिका घृतपूरन्तु त्रिदोषशमनं परम्वृष्यं संबृहणं स्वादु क्षतक्षयनिवारणम् ॥२८॥गुरूष्णो दुर्जरो ज्ञेयो वातश्लेष्मकरो गुरुःपूपकः श्लेष्मको हृद्यो वृष्यो वातानुलोमकः ॥२९॥सोमालिका घना स्वादू रोचनी बलवर्द्धनीदुर्जरा दोषशमनी वृष्यानुकरणी मता ॥३०॥बृंहणी वातपित्तघ्नी पथ्या लघुतरा मताफेनिका रोचनी बल्या सर्वधातुबलप्रदा ॥३१॥विष्टम्भी मधुरो हृद्यो घनो वातकफात्मकःस तिक्तो वा त्रिदोषघ्नो दुर्जरो जायते पुनः ॥३२॥अभिन्नो दुर्जरो बल्यो घनतृष्णाप्रदः स्मृतःतीक्ष्णो विपाके विष्टम्भी दुर्जरो जायते पुनः ॥३३॥कटुकास्तर्पणा बल्या दुर्जराः शोषकारकाःमन्दाग्नौ न प्रशस्यन्ते मोदका बहुवर्णकाःद्रव्यं गुणविशेषेण सारस्वादेन वा पुनः ॥३४॥पोलिका कथिता बल्या कफदोषकरी मतावृष्या वीर्यप्रदा ज्ञेया दोषला वीर्यवर्द्धिनी ॥३५॥विदलान्नस्य या पर्णा सिद्धा कर्परकेण तुरुच्या वान्नविशेषेण दोषान् सर्वान् विभावयेत् ॥३६॥अन्यानि चान्नपानानि नैवोक्तानि महामतेग्रन्थविस्तारभीरुश्च लोको वक्तुं न च क्षमः ॥३७॥श्रमात्तु भोजनं यस्तु पानं वा कुरुते नरःज्वरः सञ्जायते तस्य छर्दिर्वा तत्क्षणाद्भवेत् ॥३८॥कृत्वा तु भोजनं सद्यो व्यायामं सुरतं तथायः करोति विपत्तिः स्यात्तस्य गात्रस्य निश्चितम् ॥३९॥न चातिशीतं भुञ्जीत नात्युष्णं भोजने हितम्कुर्याद्वातकफौ शीतमुष्णं भवति सारकम् ॥४०॥न श्रान्तो भोजनं कुर्यान्न व्यायामसमाकुलःविषमासने न भोक्तव्यं करोति विविधान् गदान् ॥४१॥आदौ फलानि भुञ्जीत वर्जयित्वा तु कर्कटीम्न नक्तं दधि भुञ्जीत भोजनार्द्धे न धावनम् ॥४२॥भोक्तोपविशति स्थौल्यं बलमुत्तानशायिनःआयुर्वामकटिस्थस्य मृत्युर्धावति धावतः ॥४३॥नवादौ सलिलं पेयं भोजने पानमाचरेत्अर्द्धाहारेण भुञ्जीत तृतीयं व्यञ्जनेन तु ॥४४॥चतुर्थं तोयपानेन पूर्णाहारः सुजायते ॥४५॥भोजनोर्ध्वं चंक्रमते शतपादं शनैः शनैःपश्चादुत्तानशयनं ततो वामे क्षणं स्वपेत् ॥४६॥भुक्त्वोपरि समाचम्य मार्जयेद्दक्षिणाकरैःपुनर्दक्षिणहस्तेन मार्जयेदुदरं सुधीः ॥४७॥उद्गीरयेत्समुद्धारं न चोद्धारस्य धारणा ॥४८॥व्यायामञ्च व्यवायञ्च धावनं पानमेव चयुद्धं गीतञ्च पाठञ्च क्षणभुक्तो विवर्जयेत् ॥४९॥न सद्यः पीते पठनं गमनं च न कारयेत्न वा वाहनमारोहं विवादं न च कारयेत् ॥५०॥दिवास्वापं न कुर्यात्तु भुक्त्वोपरि च विश्रमेत्अकालशयनाच्छ्लेष्मा प्रतिश्यायः प्रपीनसः ॥५१॥क्षयशोफशिरोऽर्त्तिश्च जायते चाग्निमदन्ता ॥५२॥मद्यपीते परिश्रान्ते हिक्काश्वासातुरेषु चभयशोकक्षुधार्त्तानां पठनान्मैथुनेन च ॥५३॥तथैव वृद्धबाले च भाराक्रान्ते तथातुरेअतीसारे च शोफे च तृष्णापानात्ययेऽपि च ॥५४॥ग्रीष्मे बाल्ये निशादृप्ते दिवास्वप्नं हितं भवेत् ॥५५॥इति आत्रेयभाषिते हारीतोत्तरे अन्नपानवर्गो नाम त्रयोविंशोऽध्यायः ॥२३॥प्रथमस्थानं समाप्तम् १ N/A References : N/A Last Updated : February 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP