प्रथमस्थानम् - त्रयोदशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


कुलत्थयूषो मधुरः कषाया भवेच्च रक्तस्य कफस्य हन्ता
महाश्मरीपायुजमेदहन्ता सन्दीपनो मेहविशोषणश्च ॥१॥
भवेदाढक्या मधुरञ्च यूषं विशोषणं वातनिवारणञ्च
श्लेष्मापहं पित्तहरं ज्वराणां पृथक् पृथक् कृमिहृद्दारुणञ्च ॥२॥
शीतलं मधुरं मौद्गयूषं पित्तविकारजित्
तच्च वातहरं प्रोक्तं ज्वराणां शमनं परम् ॥३॥
कषायं कटुकं चोष्णं वातघ्नं कफदोषकृत्
रक्तपित्तं नियन्त्याशु चणानां यूषमुच्यते ॥४॥
घनं सवातं कफकृन्माषयूषञ्च पित्तकृत्
अम्लं पर्युषितं तच्च तैलपाके च शस्यते ॥५॥
अन्यानि च प्रशस्तानि कुलत्थान्युषितानि च
मसूरास्त्रिपुटा बल्याः कलायाद्याश्च वर्जिताः ॥६॥

इत्यात्रेयभाषिते हारीतोत्तरे यूषवर्गो नाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP