संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सौत्रामणी| अनुवाकः ६ सौत्रामणी अनुवाकः १ अनुवाकः २ अनुवाकः ३ अनुवाकः ४ अनुवाकः ५ अनुवाकः ६ अनुवाकः ७ अनुवाकः ८ अनुवाकः ९ अनुवाकः १० अनुवाकः ११ अनुवाकः १२ सौत्रामणी - अनुवाकः ६ पूर्व दिशाचे एक नाव ज्याचा स्वामी इंद्र आहे, त्याच्या प्रीत्यर्थ केला जाणारा एक प्रकारचा यज्ञ. Tags : sanskritsautramaniyagnyaयज्ञसंस्कृतसौत्रामणी अनुवाकः ६ Translation - भाषांतर सोमो राजामृतं सुत ओषधीनामपां रसः ।ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङ् आङ्गिरसो धिया ।ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥अद्भ्यः सोमं व्यपिबच् छन्दोभिर्हंसः शुचिषत् ।ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥अन्नात् परिस्रुतो रसं ब्रह्मणा क्षत्रं व्यपिबत् ।ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥रेतो मूत्रं विजहाति योनिं प्रविशदिन्द्रियम् ।गर्भो जरायुणावृता उल्बं जहाति जन्मना ॥ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥दृष्ट्वा रूपे व्याकरोत्सत्यानृते प्रजापतिः ।अश्रद्धामनृतेऽदधाच् श्रद्धां सत्ये प्रजापतिः ॥ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥वेदेन रूपे व्यपिबत् सुतासुतौ प्रजापतिः ।ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥दृष्ट्वा परिस्रुतो रसं शुक्रेण शुक्रं व्यपिबत् पयः सोमं प्रजापतिः ।ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥ N/A References : N/A Last Updated : December 13, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP