संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सौत्रामणी| अनुवाकः ४ सौत्रामणी अनुवाकः १ अनुवाकः २ अनुवाकः ३ अनुवाकः ४ अनुवाकः ५ अनुवाकः ६ अनुवाकः ७ अनुवाकः ८ अनुवाकः ९ अनुवाकः १० अनुवाकः ११ अनुवाकः १२ सौत्रामणी - अनुवाकः ४ पूर्व दिशाचे एक नाव ज्याचा स्वामी इंद्र आहे, त्याच्या प्रीत्यर्थ केला जाणारा एक प्रकारचा यज्ञ. Tags : sanskritsautramaniyagnyaयज्ञसंस्कृतसौत्रामणी अनुवाकः ४ Translation - भाषांतर अश्विना हविरिन्द्रियं नमुचेर् धिया सरस्वती ।आ शुक्रमासुराद्वसु मद्यमिन्द्राय जभ्रिरे ॥यमश्विना सरस्वती हविषेन्द्रमवर्धयन् ।स बिभेद बलं मद्यं नमुचा आसुरे सचा ॥तं इन्द्रं पशवः सचाश्विनोभा सरस्वती ।दधाना अभ्यनूषत हविषा यज्ञ इन्द्रियम् ॥य इन्द्र इन्द्रियं दधुः सविता वरुणो भगः ।स सुत्रामा हविष्पतिर् यजमानाय सश्चत ॥सविता वरुणो दधद्यजमानाय दाशुषे ।आदत्त नमुचेर्वसु सुत्रामा बलं इन्द्रियम् ॥वरुणः क्षत्रमिन्द्रियं भगेन सविता श्रियम् ।सुत्रामा यशसा बलं दधाना यज्ञमाशत ॥युवं सुरामं अश्विना नमुचा आसुरे सचा ।विपिपाना सरस्वतीन्द्रं कर्मस्व् आवत ॥होता यक्षदश्विनौ सरस्वतीमिन्द्रमिमे सोमाः सुरामाणश् छागैर्न मेषैर् ऋषभैः सुताः शष्पैर्न तोक्मभिर् लाजैर्महस्वन्तो मदा मासरेण परिस्रुता शुक्राः पयस्वन्तोऽमृताः प्रस्थिता वो मधुश्च्युतस्तानश्विना सरस्वतीन्द्रो जुषन्तां सोम्यं मधु , पिबन्तु, मदन्ताम् , व्यन्तु, होतर्यज ॥पुत्रमिव पितरा अश्विनोभेन्द्रावथुः काव्यैर् दंसनाभिः ।यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक् ॥अश्विना गोभिरिन्द्रियमश्वेभिर् वीर्यं बलं ।हविषेन्द्रं सरस्वती यजमानं अवर्धयन् ॥ता नासत्या सुपेशसा हिरण्यवर्त्तनी नराः ।सरस्वती हविष्मतीन्द्रं कर्मस्व् अवतु ॥ता भिषजा सुकर्मणा सा सुदुघा सरस्वती ।स वृत्रहा शतक्रतुरिन्द्राय दधुरिन्द्रियम् ॥अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चम्वीव सोमः ।वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥यस्मिन्नश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टासा आहुताः ।कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुमग्नये ॥ N/A References : N/A Last Updated : December 13, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP