अभिषेक

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


अभिषेक
पुण्याहवाचनोपरान्त कलशके जलको पहले पात्रमें गिरा ले । अब अविधुर (जिनकी धर्मपत्नी जीवित हो) ब्राह्मण उत्तर या पश्चिम मुख होकर दूब और पल्लवके द्वारा इस जलसे यजमानका अभिषेक करे । अभिषेकके समय यजमान अपनी पत्नीको बायीं तरफ कर ले । परिवार भी वहाँ बैठ जाय ।
अभिषेकके मन्त्र निम्नलिखित हैं -
ॐ पय: पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धा: ।
पयस्वती: प्रदिश: सन्तु मह्यम्‍ ॥
ॐ पञ्च नद्य: सरस्वतीमपि यन्ति सस्त्रोतस: । सरस्वती तु पञ्चधा सो देशेऽभवत्सरित्‍ ॥
ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरूणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमा सीद ॥

ॐ पुनन्तु मा देवजना: पुनन्तु मनसा धिय: ।
पुनन्तु विश्वा भूतानि जातवेद: पुनीहि मा ॥

ॐ देवस्य त्वा सवितु: प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्‍ ।
सरस्वत्यै वाचो यन्तुर्यन्त्रिये दधामि बृहस्पतेद्वष्टवा साम्राज्येनाभिविञ्चाम्यसौ । (श०य० ९।३०)
ॐ देवस्य त्वा सवितु: प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्‍ ।
सरसवत्यै वाचो यन्तुर्यन्त्रेणाग्ने: साम्राज्येनाभिषिञ्चामि ॥ (शु०य० १८।३७)
ॐ देवस्य त्वा सवितु: प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्‍ ।
अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभि षिंचामि सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभि षिञ्चामिन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभि षिञ्चामि ॥ (शु०य० २०।३)
ॐ विश्वानि देव सवितर्दुरितानि परा सुव । यद्‍भद्रंतन्न आ सुव ॥
ॐ धामच्छदग्निरिन्द्रो ब्रह्मा देवो बृहस्पति: ।
सचेतसो विश्वे देवा यज्ञं प्रावन्तु न: शुभे ॥
(शु०य०१८।७६)  
ॐ त्वं यविष्ठ दाशुषो नृँ: पाहि शृणुधी गिर: ।
रक्षा तोकमुत त्मना । (शु०य०१८ १८।७७)
ॐ अन्नपतेऽन्नस्य नो देह्यनमीवस्यशुष्मिण: । प्रपदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
ॐ द्यौ: शान्तिरन्तरिक्ष शान्ति: पृथिवी शान्तिराप: शान्तिरोषधय: शान्ति: । वनस्पतेय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति: सर्व शान्ति: शान्तिरेव शान्ति: सा मा शान्तिरेधि ॥
यतो यत: समीहसे ततो नो अभयं कुरु ।
शं न: कुरु प्रजाभ्योऽभयं न: पशुभ्य: ॥

सुशान्तिर्भवतु ।
सरित: सागरा: शैलास्तीर्थानि जलदा नदा: ।
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥
शान्ति: पुष्टिस्तुष्टिश्चास्तु । अमृताभिषेकोऽस्तु ॥

दक्षिणादान-
ॐ अद्य ..... कृतैतत्पुण्याहवाचनकर्मण: साड्गतासिद्धयर्थं तत्सम्पूर्णफलप्राप्त्यर्थं च पुण्याहवाचकेभ्यो ब्राह्मणेभ्यो यथाशक्ति मनसोद्दिष्टां दक्षिणां विभज्य दातुमहमुत्सृजे ।

N/A

References : N/A
Last Updated : December 03, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP