हिंदी सूची|पूजा एवं विधी|नित्य कर्म पूजा|विशिष्ट पूजा-प्रकरण| स्वस्त्ययन विशिष्ट पूजा-प्रकरण विशिष्ट पूजा महत्व स्वस्त्ययन संकल्प न्यास गणपति और गौरीकी पूजा कलश स्थापन पुण्याहवाचन अभिषेक षोडशमातृका-पूजन सप्तघृतमातृका-पूजन नवग्रह-मण्डल-पूजन अधिदेवता और प्रत्यधिदेवताका स्थापन प्रत्यधि देवताओंका स्थापन पञ्चलोकपाल-पूजा दश दिक्पाल-पूजन चतु:षष्टियोगिनी-पूजन रक्षा-विधान श्रीशालग्राम-पूजन श्रीमहालक्ष्मी-पूजन वैदिक शिव-पूजन भगवान् गंगाधरकी आरती पार्थिव-पूजन पार्थिव-पूजन ज्ञातव्य बातें स्वस्त्ययन प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे. Tags : devatadevipoojaदेवतादेवीपूजा स्वस्त्ययन Translation - भाषांतर ॐ आ नो भद्रा: क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिद: । देवा नो यथा सदमिद् वृधे आसन्नप्रायुवो रक्षितारो दिवे दिवे ॥ देवानां भद्रा सुमतिऋजूयतां देवाना रातिरभि नो निवर्तनाम् । देवाना सख्यमुपसेदिमा वयं देवा न आयु: प्रतिरन्तु जीवसे ॥तान्पूर्तताम् । देवाना सख्यमुपसेदिमा वयं देवा न आयु: प्रतिरन्तु जीवसे ॥तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्त्रिधम् । अर्यमणं वरूणं सोममश्विना सरस्वती न: सुभगा मयस्करत् ॥तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौ: । तद् ग्रावाण: सोमसुतो मयोभुवस्तदश्विना श्रृणुतं धिष्ण्या युवम् ॥ तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्ध: स्वस्तये ॥स्वस्ति न इन्द्रो वृद्धश्रवा: स्वस्ति न: पूषा विश्ववेदा: । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: स्वस्ति नो बृहस्पतिर्दधातु ॥ पृषदश्वा मरुत: पृश्निमातर: शुभं यावानो विदथेषु जग्मय: । अग्निजिह्वा मनव: सूरचक्षसो विश्वे नो देवा अवसागमन्निह ॥भद्रं कर्णेभि: श्रृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्रा: । स्थिरैरड्गैस्तुष्टुवा सस्तनूभिर्व्यशेमहि देवहितं यदायु: ॥ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तो: ॥अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्र: । विश्वे देवा अदिति: पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥ (शु०य०२५।१४-२३) द्यौ: शान्तिरन्तरिक्ष शान्ति: पृथिवी शान्तिराप: शान्तिरोषधय: शान्ति: । वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति: सर्वं शान्ति: शान्तिरेव शान्ति: सा मा शान्तिरेधि ॥ (शु०य०३६/१७) यतो यत: समीहसे ततो नो अभयं कुरु । शं न: कुरु प्रजाभ्योऽभयं न: पशुभ्य: ॥सुशान्तिर्भवन्तु ॥ (श०य०३६/२२) श्रीमन्महागणाधिपतये नम: । लक्ष्मीनारायणाभ्यां नम: । उमा महेश्वराभ्यां नम: । वाणीहिरण्यगर्भाभ्यां नम: । शचीपुरन्दराभ्यां नम: । मातृपितृचरणकमलेभ्यो नम: । इष्टदेवताभ्यो नम: । कुलदेवताभ्यो नम: । ग्रामदेवताभ्यो नम: । वास्तुदेवताभ्यो नम: । स्थानदेवताभ्यो नम: । सर्वेभ्यो देवेभ्यो नम: । सर्वेभ्यो ब्राह्मणेभ्यो नम: । ॐ सिद्धिबुद्धिसहिताय श्रीमन्महागणाधिपतये नम: ।सुमुखश्चैकदन्तश्च कपिलो गजकर्णक: । लम्बोदरश्च विकटो विघ्ननाशो विनायक: ॥धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजानन: ।द्वादशैतानि नामानि य: पठेच्छॄणुयादपि ॥विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सड्ग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥अभीप्सितार्थसिद्धयर्थं पूजितो य: सुरासुरै: ।सर्वविघ्नहरस्तस्मै गणाधिपतये नम: ॥सर्वमड्गलमाड्गल्ये ! शिवे ! सर्वार्थसाधिके ।शरण्ये त्र्यम्बके ! गौरि नारायणि नमोऽस्तु ते ॥सर्वदा सर्वकार्येषु नास्ति तेषाममड्गलम् ।येषां हृदिस्थो भगवान् मड्गलायतनं हरि: ॥तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।विद्याबलं देवबलं तदेव तक्ष्मीपते तेऽङघ्रियुगं स्मरामि ॥लाभस्तेषां जयस्तेषां कुतस्तेषां पराजय: ।येषामिन्दीवरश्यामो हृदयस्थो जनार्दन: ॥यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर: ।तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते ।तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥स्मृते: सकलकल्याणं भाजनं यत्र जायते ।पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वरा: ।देवा दिशन्तु न: सिद्धिं ब्रह्मेशानजनार्दना: ॥विश्वेशं माधवं ढुण्ढिं दण्डपाणिं च भैरवम् ।वन्दे काशीं गुहां गड्गां भवानीं मणिकर्णिकाम् । वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥गणेशाम्बिकाभ्यां नम: ॥हाथमें लिये अक्षत-पुष्पको गणेशाम्बिकापर चढा दे । इसके बाद दाहिने हाथमें जल, अक्षत और द्रव्य लेकर संकल्प करे । N/A References : N/A Last Updated : December 02, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP