संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|सुंदरकांडम्| काव्य ४०१ ते ४५० सुंदरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ४६८ सुंदरकांडम् - काव्य ४०१ ते ४५० सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ४०१ ते ४५० Translation - भाषांतर लंकां निर्भ य चेताः स भवनाद्भवनं व्रजन् ददाह रुद्रप्रहितः शरो दैत्यपुरीमिव. ॥४०१॥ तृणैधसां रा शिशतैर्यथा वह्निर्न तृप्यति तथेषदपि नो तृप्तः कृते रक्षोवधे कपिः. ॥४०२॥ लंकां सर्वां म हातेजा दग्ध्वा लांगूलपावकम् निर्वापयामास तदा समुद्रे हरिपुंगवः. ॥४०३॥ लंकां दग्ध्वा श्री हनुमान् पश्चात्तप्तोऽभवत्तदा आत्मानं गर्हयन्नेवं चिंतयामास दुःखितः. ॥४०४॥‘ धिगस्तु मां रा घवस्य प्रियां विस्मृत्य पावकः उद्दीपितोऽत्र लंकायां, दग्धा नूनं तपस्विनी. ॥४०५॥कार्यनाशो म हानद्य क्रुद्धेनायं मया कृतः धन्या विवेकिनः संतो हंत ! सत्यमहं कपिः. ॥४०६॥नूनं देवी ज नकजा सा दग्धा लंकया सह हा ! मया दहता लंकां न सीता परिरक्षिता. ॥४०७॥यदर्थम य मारंभस्तत्कार्यमवसादितम् लंकायाः कश्चिदुद्देशो न ह्यदग्धः प्रदृश्यते. ॥४०८॥धिग्धिग्भावं रा जसं मे कार्यसर्वस्वघातिना कथं शक्यो मया द्रष्टुं रामः स च हरीश्वरः ? ’ ॥४०९॥ निमित्तानि म हा बुद्धिर्दृष्ट्वा शुभफलानि सः किंचित्स्वस्थो वातसूनुस्ततः पुनरचिंतयत् ॥४१०॥‘ अथवा त ज सा स्वेन रक्षिता जनकात्मजा न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते. ॥४११॥धर्मात्मा प्र य तो रामः प्रियां तस्यातितेजसः स्वचरित्राभिगुप्तां न स्प्रष्टुमर्हति पावकः ॥४१२॥नूनं धनं ज यो रामप्रभावेनाद्य मां कपिम् सुकृतेन च सीताया नादकत्किमु तां सतीम् ? ॥४१३॥एवं चिंत य ता तेन चारणानां महात्मनाम् आत्मानं स्तुवतां वाक्यं श्रुतमंबरचारिणाम्. ॥४१४॥‘ अहो ! समी रा त्मजेन साट्टप्राकारतोरणा ! लंका दग्धा न सीतेति विस्मयोऽद्भुत एव नः. ’ ॥४१५॥ तत्सुधोप म माकर्ण्य वाक्यं स पवनात्मजः जगाम यत्र सा देवी नत्वा तामब्रवीन्मुदा. ॥४१६॥‘ दिष्ट्याऽक्षतां श्री मति ! त्वां पश्यामि जनकात्मजे ! अयमागत एवाहं रामसुग्रीवलक्ष्मणैः ’ ॥४१७॥इति सीतां रा जसुतां समाश्वास्य मरुत्सुतः नत्वा पृष्ट्वा पुनः क्षिप्रं निर्जगाम मनोगतिः. ॥४१८॥ततो गिरि म रिष्टाख्यमारुह्योत्प्लुत्य खं गतः तद्भारपीडितो भूमौ निमग्नः स महानगः ॥४१९॥तं मैनाकं ज लनिधौ स्पृष्ट्वा तार्क्ष्यगतिः कपिः आगच्छन् दूरतो दृष्ट्वा महेंद्रमकरोत् ध्वनिम्. ॥४२०॥श्रुत्वांजने य निनदं जांबवानब्रवीत्कर्पान्, ‘ सर्वथा कृतकार्योऽयमस्य नादो हि तादृशः. ’ ॥४२१॥ते कीशवी रा वृक्षाग्राद्वृक्षाग्राणि तमागतम् शिखराच्छिखराग्राणि हृष्टा जग्मुर्दिदृक्षवः. ॥४२२॥गिरेस्ततो म हेंद्रस्य शिखरे पादपाकुले पपात नभसश्छिन्नपक्षोऽद्रिरिव मारुतिः. ॥४२३॥ प्लवंगकुं ज राः सर्वे परिवार्योपतस्थिरे वृद्धान्नत्वांगदं चाथ ‘ दृष्टा सीते ’ ति सोऽब्रवीत्. ॥४२४॥आदायोपा य नान्यार्या मूलानि च फलानि च पूजां चक्रुर्मरुत्सूनोर्जाबवत्प्रमुखा मुद्रा. ॥४२५॥सविस्तरं ज गत्प्राणतनयो वृत्तमादितः कथयामास स श्रीमान् धीमान् हीमान् पराक्रमी. ॥४२६॥अंगदाद य उत्कृष्टप्रतापं वातनंदनम् तुष्टुबुर्हृष्टरोमाणः ‘ साधु सांध्वि ’ ति तेऽब्रुवन्. ॥४२७॥तर्तोऽगदो रा जपुत्रोऽब्रवी‘द्धत्वा दशाननम् अस्माभिरर्पणीया सा रामाय जनकात्मजा. ’ ॥४२८॥तमुवाच म हाबुद्धिर्जांबवान् ‘ प्रभुणा स्वयम् विचेतुं वयमाज्ञप्ता नानेतुं वालिनंदन ! ॥४२९॥अस्माभिस्तु श्री मदाज्ञा यथा कार्यं तथा खलु प्रवृत्तिरेव सीताया निवेद्याशु महाभुज ! ॥४३०॥कथंचित्तां रा जकन्यामस्मभिर्निर्जितां प्रभुः चेन्नाभिरोचयेद्रामस्तत्सर्वं विफलं भवेत्. ’ ॥४३१॥तत्ते सूक्त म मगृह्णंत साधु साध्विति चाब्रुवन् महेंद्राग्रात्समुत्पत्व पुप्लुवुः प्लवगर्षभाः ॥४३२॥ ते प्रवृत्तिं ज गद्भर्त्रे समाख्यातुं प्रहर्षिताः आगच्छंतो मधुवनं समासेदुः प्लवंगमाः. ॥४३३॥ सुग्रीवस्य य दत्वर्थं प्रियं नंदनसंनिभम् मातुलः कपिराजस्य नाम्ना दधिमुखः कपिः. ॥४३४॥कीशैरहो रा त्रमेव यस्य त्राणपरायणःतत्प्राप्य ते मधुवनं सर्वभूतमनोहरम्. ॥४३५॥कुमारं ते म धून्यत्तुमभ्ययाचंत लोलुपाः फलानि च सुगंधीनि मूलानि च कृतश्रमाः ॥४३६॥युवराजोंऽ ज नापुत्रप्रतापेन प्रहर्षितः तेषामाज्ञां ददौ तत्र यथेष्टमधुभक्षणे. ॥४३७॥सर्वे पीत्वा य थेष्टं ते मधूनि मधुलोलुपाः अभक्षयन्सुगंधीनि मूलानि च फलानि च. ॥४३८॥ते प्रहर्षं ज ग्मुरथ प्राज्यपानमदोत्कटाः केचिन्नृत्यंति गायंति प्रहसंति रुदंति च. ॥४३९॥द्रुमाग्रात्प्रि य संपाता द्रुमाग्रं जग्मुरुत्कटाः न तत्र मत्तो नो कश्चिन्नात्र दृप्तो न कश्चन. ॥४४०॥विध्वंसिते रा जवने कोपाद्दधिमुखः कपिः निवारयामास हरींस्ते तं धिक्चक्रुरुन्मदाः. ॥४४१॥लब्ध्वा तेऽनु म तिं सर्वे मारुतेरंगदादपि क्रुद्धं दधिमुखं वीरास्ताडयामासुरुद्धताः. ॥४४२॥सुग्रीवाय श्री मते स क्रुद्धो दधिमुखः स्वयम् गत्वा निवेदयामास यदंगदमुखैः कृतम्. ॥४४३॥पप्रच्छ वी रा धिपतिः सुग्रीवं लक्ष्मणस्तदा, ‘ किमयं दुःखितो राजन् ! वानरो वक्ति तद्वद. ’ ॥४४४॥स प्लवंग म राजस्तं लक्ष्मणं प्रह, ‘ राघव ! भुक्तं मधुवनं कीशैरंगदप्रमुखैर्बलात्. ॥४४५॥दृष्टा देवी ज नकजा ध्रुवं रघुकुलोत्तम ! नैषामकृतकार्याणामीदृशः स्याद्व्यतिक्रमः. ॥४४६॥ताडिता भ य मुत्सृज्य वनपालाः प्लवंगमैः कृतं निर्विषयं सर्व वनं दत्तवरं मम. ’ ॥४४७॥एवं श्रुत्वा रा जवाक्यं युक्तिमद्रामलक्ष्मणौ प्रहर्षमतुलं प्राप्तौ सीतादर्शनलालसौ. ॥४४८॥मातुलं सा म कुशलः सुग्रीवः प्राह, ‘ तद्वनम् पालय त्वं यथापूर्वं प्रेषयाशु कपींश्च तान्. ’ ॥४४९॥स गत्वा स ज वस्त त्र स्थितान् दधिमुखः कपीन् अंगदं युवराजं च दृष्ट्वोवाच कृतांजलिः. ॥४५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP