संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|सुंदरकांडम्| काव्य १ ते ५० सुंदरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ४६८ सुंदरकांडम् - काव्य १ ते ५० सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य १ ते ५० Translation - भाषांतर उत्प्लुत्य स श्री कंठस्य मार्गणस्त्रिपुरं यथा लंकां जगाम जवनः पवनस्यौरसः सुतः. ॥१॥तद्वेगधा रा पतिता द्रुमास्तं क्षणमन्वयुः प्रस्थितं दीर्घमध्वानं स्वबंधुमिव बांधवाः. ॥२॥अन्वयुस्तं म रुत्पुत्रमूरुवेगोत्थिता द्रुमाः दानमानादिभिस्तुष्टाः सैन्या इव महीपतिम्. ॥३॥व्योम्नि तद्भु ज दंडौ तौ ददृशाते प्रसारितौ पर्वताग्राद्विनिष्क्रांतौ पंचास्याविव पन्नगौ. ॥४॥छायाब्धेः प य सि व्यक्ता तदा मध्याह्निकी कपेः दशयोजनविस्तीर्णा त्रिंशद्योजनमायता. ॥५॥वस्त्रापहा रा त्सहसा देहा इव शरीरिणाम् वेगाज्जलोत्सारणतो विवृता जलजंतवः. ॥६॥याति येन म हाकायो वेगेन महता कपिः तेन मार्गेण सहसा द्रोणीकृत इवार्णवः. ॥७॥दृष्ट्वा तमं ज नापुत्रं प्लवमानं द्भुतं तदा ववृषुः पुष्पवर्षाणि देवगंधर्वदानवाः. ॥८॥मैनाकं तो य राश्युक्तेर्विश्रामार्थं समुत्थितम् विघ्नं मत्वोरसाधस्तं पातयामास मारुतिः. ॥९॥त्रातः प्रभं ज नेनाहं पूज्यस्त्वं मे तदात्मजः, मयि विश्रम्य गच्छे ’ ति मैनाकाद्गिरुवाच तम्. ॥१०॥स्पृष्ट्वांजने य स्तं प्राह, ‘ कार्यकालो गिरे ! ऽद्य मे, प्रतिज्ञा च कृता सौम्य ! न स्थातव्यमिहांतरा. ’ ॥११॥उक्त्वेवमा रा त्त्वरया जगाम स महाबलः मैनाकायाभयं प्रादात्तेन तुष्टः शचीपतिः. ॥१२॥ततः सुरा म रुत्सूनोः परीक्षार्थं महौजसः ‘ विघ्नं कुरु त्वमि ’ त्यूचुः सुरसां नागमातरमू. ॥१३॥रुद्ध्वाध्वानं श्री मतः सा बिभ्रती राक्षसं वपुःउवाच, ‘ मे प्रदिष्टस्त्वं सुरैर्भक्ष्यः प्लवंगम ! ॥१४॥धात्रा पुरा रा धनतं प्रसन्नेनैष मे वरः दत्तस्त्वां भक्षयिष्यामि प्रविशेदं ममाननम्. ’ ॥१५॥इत्युक्त्वा सा म हद्वक्त्रं व्यादाय पुरतः स्थिता.एवमुक्तः सुरसया प्रहृष्टवदनोऽब्रवीत्. ॥१६॥‘ भद्रे रामो ज गन्नाथः प्रविष्टो दंडकावनम् रावणेन हृता तस्य प्रियाजनकनंदिनी. ॥१७॥तदृर्शना य दूतोऽहं गमिष्ये रामशासनात् कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ! ॥१८॥अथवा तां रा जपुत्रीं दृष्ट्वा रामं च तं प्रभुम् त्वद्वक्त्रमागमिष्यामि सत्यं प्रतिशृणोमि ते. ’ ॥१९॥इत्युक्त्वा का म रूपा सा मया दृष्टो विधेर्वरात् ‘ न कश्चैन्मुच्यते मत्त ’ इत्युवाचोग्रदर्शना. ॥२०॥स उवाचां ज नेयस्तां क्रुद्धोदिग्योजनाननाम् ‘ कुरु त्वं तादृशं वक्त्रं येन मां विषहिष्यसि. ’ ॥२१॥इति व्यादा य वदनं स्थितामुक्त्वा स्वयं प्रभुः दशयोजनाविस्तारो हनूमानभवत्तदा. ॥२२॥प्रचकार ज वेनास्यं सा विंशद्योजनायतम्, त्रिंशद्योजनविस्तारो हनूमान् बुद्धिमानभूत्. ॥२३॥ततः सा त्या य तं चक्रे द्विगुणं वक्त्रमात्मनः बभूव हनुमान् वीरः पंचाशद्योजनोच्छ्रितः. ॥२४॥पुनश्चका रा स्यमसौ षष्टियोजनविस्तृतम् चक्रे स्वदेहं संख्यातः कपिः सप्ततियोजनम्. ॥२५॥चकार सा म हद्वक्त्रमशीत्या योजनैर्मितम् बभूव सोऽनलप्रख्यो नवतिं योजनोछ्रयः. ॥२६॥सद्धर्मेण श्री रिव सा ववृधे सुरसा मुखम् शतयोजनविस्तारं चकारातिभयंकरम्. ॥२७॥तदा समी रा त्मजनिर्बभूवांगुष्ठमात्रकः वक्त्रे प्रविश्य निर्गत्य गगनस्थ उवाच ताम्. ॥२८॥‘ दाक्षायणि ! म यि क्रोधो मास्तु देवि ! नमोऽस्तु ते, गमिष्येऽहं प्रविष्टोऽस्मि मुखं सत्यो वरस्तव. ’ ॥२९॥साब्रवी ‘ दं ज नासूनो ! गच्छ सौम्य ! यथासुखम् समानय च वैदेहीं राघवेण महात्मना. ’ ॥३०॥वायोस्तन य उद्युक्तो जगामाथ पुनर्द्रुतम् ब्रह्मदत्तवरात्तस्य च्छायां जग्राह सिंहिका. ॥३१॥सुग्रीवोक्तां रा क्षसीं तां बुध्वा स ववृधे कपिःवक्त्रं प्रसारयामास सा पातालांबरोपमम्. ॥३२॥तस्या मुखे म हत्याशु संक्षिप्यात्मानमात्मवान् निपपात सुरैर्दृष्टो राहोरास्ये शशीव सः. ॥३३॥छित्त्वा हृदं ज नासूनुस्तस्यास्तत्क्षणमंबरम् जगाम रामकार्यार्थी मनःसंपातविक्रमः. ॥३४॥संक्षिप्य का य वृद्धिं च प्रवेगं च महामतिः समासाद्यांबुधेस्तीरं लंबाद्रौ निपपात सः. ॥३५॥लंबाद्रावं ज नायाः स स्थितः सूनुरनिश्वसन् ददर्श गिरिवर्यस्य मूर्घ्नि लंकां वनैर्वृताम्. ॥३६॥जगाम तां य शस्वींद्रो विश्वकर्मविनिर्मिताम् रम्यां वृतां कांचनेन प्राकारेण महापुरीम्. ॥३७॥ओतुमात्रो रा त्रिमुखे बभूवाद्भुतदर्शनः ददर्श प्रविशंतं तमथ लंकाधिदेवता ॥३८॥पुरस्तात्सा म हानादा वायुसूनोरतिष्ठत. पप्रच्छ, ‘ कस्त्वं ? केनासि कार्येणेह समागतः ? ’ ॥३९॥तामुवाच श्री हनुमान्, ‘ का त्वं द्वारेऽवतिष्ठसे ? किमर्थं चापि मां क्रोधान्निर्भर्त्सयसि दारुणे ! ’ ॥४०॥वस्वोकसा रा प्रतिमा साब्रवीत्त, ‘ महं कपे ! लंकास्मि दशवक्त्रस्य नियोगपरिपालिका. ’ ॥४१॥हनूमांस्ता म थोवाच, ‘ लंकां द्रक्ष्यामि निस्तुलाम् इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे. ’ ॥४२॥पुनर्वात ज माहेयं पुरी रावणपालिता, ‘ मामनिर्जित्य न द्रष्टुं शक्यते वानर ! त्वया. ’ ॥४३॥तामांजने य स्स्तुत्वाह, ‘ मैवं, मार्गं प्रयच्छ मे दृष्ट्वा पुरीमिमां भद्रे ! पुनर्यास्ये यथागतम्. ’ ॥४४॥सैवमुक्ता रा वणस्य पुरी नादं भयंकरम् कृत्वा तलेनानिलजं ताडयामास वेगिता. ॥४५॥स प्लवंग म वर्योऽपि वामहस्तस्य मुष्टिना ताडयामास तां स्त्रीति नातिक्रुद्धो विवेकवान्. ॥४६॥पपात ग ज राजेन स्पृष्टा रंभेव सा पुरी, कृपां चकार तेजस्वी मन्यमानः स्त्रियं च ताम्. ॥४७॥भृशोद्विग्ना य शोराशिं कपिं सा गद्गदाक्षरम् उवाचागर्वितं वाक्यं परिबूता बलीयसा. ॥४८॥‘ प्रसीद, वि ज यस्तेऽस्तु, मां त्रायस्व महाभुज ! मद्यं स्वयंभुवा दत्तो वरः पूर्वं महाभुज ! ॥४९॥वानरस्त्वां य दा कश्चिद्विक्रमाद्वशमानयेत् तदा त्वया हि विज्ञेयं रक्षसां भयमागतम्. ॥५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP