TransLiteral Foundation

सुंदरकांडम् - काव्य २०१ ते २५०

सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य २०१ ते २५०
लंका सार्धं रा त्रिचरैर्मुंडै रक्तस्रगंबरैः
सागरे पतिता दृष्टा भग्नगोपुरतोरणा. ॥२०१॥
आगसाल म लं प्रोक्ता मयोपरमत द्रुतम्
पश्यध्वं न चिरादेनां सीतां प्राप्नोति राघवः. ॥२०२॥
रामस्तीर्त्वा ज लनिधिं दयितादुःखदायिनीः
घातयेत्परमामर्षी युष्मान्सह निशाचरैः. ॥२०३॥
महद्वो भ य मागामि तदलं परुषोक्तिभिः
अभियाचाम वैदेहीमेतद्धि मम रोचते. ॥२०४॥
सर्वा यूयं ज नकजां भर्त्सितामप्यसाध्वसम्
याचध्वं रक्षसां घोरं भयं रामादुपस्थितम्. ॥२०५॥
कुलजा द य या पूर्णा प्रसन्ना प्रणिपाततः
अलमेषा परित्रातुं राक्षस्यो महतो भयात्. ॥२०६॥
वाममस्या रा जपुत्र्याः स्फुरच्चक्षुः प्रदृश्यते
कंपते बाहुरूरुश्च दक्षिणाया ह्यदक्षिणः ॥२०७॥
पक्षी चोत्त म सामोक्तिः पुनःपुनरिमां सतीम्
आगतं शोभनं प्रत्युद्गच्छेति प्रेरयन्निव. ’ ॥२०८॥
तां हीमती श्री मती सा भर्तुर्विजहर्षिता
उवाच,  ‘ यदि तत्तथ्यं भवेयं शरणं हि वः. ’ ॥२०९॥
पुनश्च सा रा जकन्या विलप्य बहुदुःखिता
जग्राह वेण्युद्ग्रथनं शाखां तस्य द्रुमस्य च. ॥२१०॥
विषं शस्त्र म लभ्यं मे कंठमुद्वध्य जीवितम्
त्याज्यमित्यकरोद्बुद्धिं यावच्छोकाकुला सती. ॥२११॥
तावत्पंक ज पत्राभमस्फुरद्वाममीक्षणम्
भुजश्चोरुश्च तेनाशु पुनर्धैर्यमवाप सा. ॥२१२॥
स आंजने य स्तत्सर्व दृष्ट्वा श्रुत्वा महामतिः
चिंतां चकार बहुधा सीतां दृष्ट्वा प्रहर्षितः. ॥२१३॥
‘ यदि ह्यहं रा मरामां शोकोपहतचेतनाम्
अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत्. ॥२१४॥
इतो गते म यि स्पष्टं शोकार्तेयं नृपात्मजा
परित्राणमपश्यंती सर्वथा जीवितं त्यजेत्. ॥२१५॥
अत्रैव र ज नीशेषे कार्यमाश्वासनं मया
निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषितुम्. ॥२१६॥
पृच्छेद्रामो य दि स मां किं मां सीताब्रवीदिति
किमहं तं प्रति ब्रूयामसंभाष्य सुमध्यमाम्. ॥२१७॥
रक्षणीया ज नकजा रामस्य कुशलोक्तिभिः
कथं नु खलु कर्तव्यं महत्कृच्छ्रगतो ह्यहम् ? ॥२१८॥
करोमि कं यत्रमहं किं कृत्वा सुकृतं भवेत्
रामलक्ष्मणसुग्रीवप्रसादः प्राप्यते कथम् ? ॥२१९॥
आसाद्याहं रा क्षसीनामंतरं मानुषीं गिरम्
उदाहरिष्याम्येवं सन्नतिसूक्ष्मतनुः कपिः. ॥२२०॥
मां रावणं म न्यमाना सीता भीता भविष्यति
यदि वाचंण प्रदास्यामि द्विजातिरिव संस्कृताम्. ॥२२१॥
अथवा तं श्री मदाढ्यं श्रीराममनुकीर्तयन्
नैनामुद्वेजयिष्यामि सीतां तद्गतमानसाम्. ’ ॥२२२॥
इति कृत्वा रा जदूतो मतिं मतिमतां वरः
समीपदेशे मधुरं वचनं व्याजहार सः. ॥२२३॥
गुणानुत्त म शीलस्य सख्युर्वज्रभृतो‍ऽतुलान्
राज्ञो दशरथस्यादौ वर्णयामास मारुतिः. ॥२२४॥
तस्य चात्म ज मुख्यस्य श्रीरामस्य जगत्पतेः
लक्ष्मणस्य महाबुद्धेर्जनकस्य च धीमतः ॥२२५॥
यत्संप्राप्तं य शश्चाग्र्यं त्यक्ते राज्ये गुरोर्गिरा
जगौ जनस्थानवासिरक्षःकदनमद्भुतम्. ॥२२६॥
तस्या देव्या रा वणेन हरणं सोऽन्वकीर्तयत्
सुग्रीवेण ततः सख्यं बलिनो वालिनो वधम्. ॥२२७॥
तदप्रति म सत्त्वौजाः सीतायाः परिमार्गणम्
आत्मना लंघनं सिंधोः सुग्रीवस्य निदेशतः. ॥२२८॥
कीर्तयित्वा ज गादाथ, ‘ शनैर्दृष्टेयमीश्वरी
धन्योऽहं कृतकृत्योऽस्मि रामस्यैव प्रसादतः. ’ ॥२२९॥
तच्छ्रुत्वा प्रि य मत्यंतं प्रथमं मुदिताभवत्
दृष्ट्वा कपिं ततः सीता भीता रावणशंकया. ॥२३०॥
सोऽवतीर्यां ज नासूनुर्विद्रुमाभाननो द्रुमात्
विनीतवेषः कृपणः प्रणिपत्योपसृत्य च. ॥२३१॥
उवाचाधा य स शिरस्यंजलिं मधुरां गिरम्,
‘ का त्वं पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि ! ॥२३२॥
तिष्ठस्युदा रा वृक्षस्य शाखामालंब्य भामिनि !
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् ? ॥२३३॥
किन्नु चंद्र म सा हीना पतिता विबुधालयात्
रोहिणी वारुंधती त्वं वसिष्ठांकपरिच्युता. ॥२३४॥
जनकस्य श्री मती त्वं सुतेति प्रतिभासि मे
त्वां रामदयितां मन्ये तन्नामग्रहणादहम्. ॥२३५॥
पंचवट्या रा वणेन बलात्प्रमथिता यदि
सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः. ’ ॥२३६॥
सीतोवाच, ‘ म नुष्येंद्रो राजा दशरथः प्रभुः
तस्य स्नुषाहं रामस्य भार्या जनकनंदिनी. ॥२३७॥
रावणेन ज नस्थानाद्धृताहं वत्स ! मायया
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः. ॥२३८॥
तन्मासद्व य तः पश्चादहं त्यक्ष्यामि जीवितम्. ’
तच्छ्रुत्वा तां महाबुद्धिः सांत्वमुत्तरमब्रवीत्, ॥२३९॥
‘ आज्ञयाहं रा घवस्य देवि ! दूत इहागतः
वैदेहि ! कुशली रामः स त्वां कौशलमब्रवीत्. ॥२४०॥
लक्ष्मणश्च म हातेजा भर्तुस्तेऽनुचरः प्रियः
कृतवांच्छोकसंतप्तः शिरसा तेऽभिवादनम्. ’ ॥२४१॥
तच्छ्रुत्वा सा ज नकजा संप्रहृष्टेदमब्रवीत्,
‘ एति जीवंतमानंदो नरं वर्षशतादपि. ॥२४२॥
सत्या गाथे य मद्यांग ! लौकिकी प्रतिभाति मे.
यत्त्वां पश्यामि कुशलं कथयंतं प्लवंगम् ! ’ ॥२४३॥
इत्युक्त्वा सा ज नकजा पुनः शंकान्विताभवत्
समीपमागतं दृष्ट्वा तममन्यत रावणम्. ॥२४४॥
वंदमानं य तात्मानं दीर्घमुच्छ्वस्य साब्रवीत्,
‘ रावणस्त्वमसि त्रासमुत्पादयसि मे पुनः. ’ ॥२४५॥
अथवा त्वं रा घवस्य दूत एवासि वानर !
मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात्. ॥२४६॥
यदि श्रीरा म दूतस्त्वमागतो भद्रमस्तु ते.
मम प्रियस्य रामस्य गुणान् कथय वानर ! ’ ॥२४७॥
गुणान् कपिः श्री रामस्य रूपं च सुमनोहरम्
सौमित्रेरपि सद्बुद्धिर्वर्णयामास तत्त्वतः. ॥२४८॥
गुणान् श्रुत्वा रा घवयोर्लक्षणानि च सा पुनः
पप्रच्छ, ‘ सख्यं क्क कथं रामेण भवतामि’ति. ॥२४९॥
स प्लवंग म नाथेन सुग्रीवेण समागमम्
विस्तरात्कथयामास मतिमान्मारुतात्मजः. ॥२५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:39.2230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अठें

  • क्रि.वि. आठांनीं गुणिले असतां . एकी अठीं आठ . [ आठ + इं , एं तृ०चे प्रत्यय ] 
RANDOM WORD

Did you know?

Navchandi Paath explain why it should be done?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.