संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|सुंदरकांडम्| काव्य १०१ ते १५० सुंदरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ४६८ सुंदरकांडम् - काव्य १०१ ते १५० सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य १०१ ते १५० Translation - भाषांतर दशास्यो र ज नीशेषे कामार्तः स्त्रीशतावृतः तत्राजगाम सहसा वैदेहीगतमानसः. ॥१०१॥उग्रतेजा य द्यपि स प्रभंजनसुतस्तदा शास्त्रांतरेऽभवद्गूढो निर्धूतस्तस्य तेजसा. ॥१०२॥समागते रा क्षसेंद्रें दीपिकाभिः प्रकाशिते प्रावेपत वरारोहा प्रवाते कदलीव सा. ॥१०३॥ऊरुभ्यां क्षा म मुदरं बाहुभ्यां च पयोधरौ संप्रच्छाद्योपविष्टा सा रुदती शीलसादरा. ॥१०४॥स दिदृक्षुः श्री मतीं तामुपासर्पत रावणः ददर्श दीनामासीनां धरण्यां संक्षितव्रताम्. ॥१०५॥शुद्धप्रचा रा मत्यार्तामुवाच दशकंधरः, ‘ मां दृष्ट्वा देवि ! कस्मात्त्वमप्रसन्ना भयाकुला ? ॥१०६॥त्वामहं का म ये सीते ! बहु मन्यस्व मां प्रिये ! रक्षोधर्मः परस्तीणां हरणं गमनं खलु. ॥१०७॥तथपयं बु ज पत्राक्षि ! त्वां न स्प्रक्ष्याम्यहं बलात् मयि विश्वसिहि प्राज्ञे ! मैवं भूः शोकलालसा. ॥१०८॥पानानि श य नानि त्वां दिव्यान्याभरणानि च अंबराणि महार्हाणि लभस्व मदिरेक्षणे ! ॥१०९॥स्त्रीरत्रं त्वं रा वणं माम मैवं भूः प्राप्य मैथिलि ! यौवनं मास्तु ते मोघं कुरु गात्रेषु भूषणम्. ॥११०॥दद्यत्तव म नोज्ञांगि ! गात्रं पश्यामि शोभने ! तस्मिंस्तस्मिन्पृथुश्रोणि ! चक्षुर्मम निबध्यते. ॥१११॥भव मे कं ज नेत्रे ! त्वं भार्या मोहं विसर्जय बह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव. ॥११२॥त्रिलोकेभ्यो य त्रवता यानि रत्नानि भामिनि ! हृतानि तानि सर्वाणि राज्यं चेदं ददामि ते ॥११३॥तव पित्रे ज नकजे ! तव हेतोर्बिलासिनि ! प्रदास्यामि विजित्याहं सर्वामपि वसुंधराम्. ॥११४॥असकृत्सं य ति मया भग्ना मग्ना भयार्णवे अशक्ताः पुरतः स्थातुं मम सर्वे सुरासुराः. ॥११५॥गतश्रिया रा जपुत्रि ! तेन त्वं किं करिष्यसि ? द्रष्टुमप्यसमर्थस्त्वां शंके जीवति वा न वा ! ॥११६॥सीते लल म यि त्वं ते ललंतु त्वयि बांधवाः न स रामो मया तुल्यस्तेजसा तपसापि वा. ’ ॥११७॥वाक्यं तस्य श्री मती सा श्रुत्वा रौद्रस्य रक्षसः तृणमंतरतः कृत्वा प्रत्युवाच महासती. ॥११८॥‘ मत्तः प्रवी रा धिपतेः कलत्रात्सत्कुलोद्भवात् निवर्तय स्वदारेषु प्रीयतां ते मनः सदा. ॥११९॥अकार्यं न मया कार्यमेकपत्न्या विगर्हित्तम् न मां प्रार्थयितुं योग्यस्त्वं सिद्धिमिव पापकृत्. ॥१२०॥इत्युक्त्वा सा ज नकजा राक्षसं रावणं खलम् स्मृत्वा रामं परावृत्य स्थित्वा भूय उवाच तम्. ॥१२१॥ ‘ निशाचर ! य था भार्यास्तवान्येषां तथा ध्रुवम्, श्रेयस्कामेन तु सदा परिहार्याः परस्त्रियः. ॥१२२॥नात्र संतो रा त्रिचर ! सतो वा नानुवर्तसे रक्षसां त्वमभावाय न गृह्णासि सतां वचः. ॥१२३॥क्षपाचर ! म नुष्येंद्रप्रिया लोभयितुं त्वयानाहं शक्या, न खद्योतप्राप्या जातु रवेः प्रभा. ॥१२४॥उपाधार ज नेंद्रस्य तस्य तं सत्कृतं भुजम् कथं नामोपधास्यामि भुजमन्यस्य कस्यचित् ? ॥१२५॥मां समान य रामेण साधु रावण ! दुःखिताम् रामः सखा त्वया कार्यो वधं घोरमनिच्छता. ॥१२६॥धर्मज्ञोऽसौ ज गत्ख्यातः शरणागतवत्सलः तेन मैत्री भवतु ते यदि जीवितुमिच्छसि. ॥१२७॥मां चास्मै प्र य तो भूत्वा निर्यातयितुमर्हसि अन्यथा त्वं हि कुर्वाणः परां प्राप्स्यसि चापदम्. ॥१२८॥शराः सुधो रा नामांका रामलक्ष्मणयोः क्षणात् लंकां शून्यां करिष्यंति ज्वलितास्या इवोरगाः. ॥१२९॥राक्षसाध म ! चौर्येण शून्यस्थाहं त्वया हृता तयोस्त्यक्त्वाश्रमं दूरं गतयोर्नरसिंहयोः. ॥१३०॥उपाघ्राय श्री मतोर्न त्वया गंधलवं तयोः शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव. ॥१३१॥असंशयं रा जराजगिरिं वांबुपतेः सभाम् गतोऽपि त्वं दाशरथेरागस्कृत् न भविष्यसि. ’ ॥१३२॥ तत्सीताया म हच्छ्रुत्वा परुषं वाक्यमीदृशम् उवाच भूयस्तां राजा रक्षसां दशकंधरः. ॥१३३॥‘ लोके स्त्रीणां ज नः सर्व इष्टः सांत्वयिता खलु त्वया तु परिभूतोऽहमसकृत्सांत्वयन्नपि. ॥१३४॥त्वयि तु न्या य तः प्रपतं मम क्रोधं सुदारुणम् सीते ! त्वद्विषयः कामो निरुणद्धि हृदुत्थितः. ॥१३५॥ वामः कामो रा जकन्ये ! यस्मिन्नेव निबध्यते जने तस्मिन्ननुक्रोशः स्नेहश्च खलु जायते. ॥१३६॥ रक्षितब्यौ म या मासौ द्वौ पुरा योऽवधिः कृतः ततः शयनमारोह मम त्वं वरवर्णिनि ! ॥१३७॥ आभ्यामूर्ध्वं ज नकजे ! भर्तारं मामनिच्छतीम् त्वां मम प्रातराशाय सूदाश्च्छेत्स्यंति खंडशः. ’ ॥१३८॥ तां सीतां द य या देवगंधर्वतनयास्तदा नेत्रैराश्वासयामासुस्तर्जितां तेन रक्षसा. ॥१३९॥आश्वासिता ज नकजा देवीभिरथ तं पुनः उवाच,‘ क्क गतो रामात्प्रभोरधम ! मोक्ष्यसे ॥१४०॥ वने दृप्तो य था सिंहस्तथा रामो महामहाः त्वं नीच ! शशवच्छ्रेष्ठं क्षिपन्निह न लज्जसे ॥१४१॥पापाविचा रा धम ! ते न नेत्रे गलिते कथम् ? एवं व्याहरतः साध्वीं कथं जिह्वा न शीर्यति ? ॥१४२॥भस्म त्वां पा म राद्याहं रामासंदेशतस्तथा तपसः पालनाच्चापि न करोम्यात्मतेजसा. ॥१४३॥शूरो भ्राता श्री दनाम्नो बलैः समुदितो वरैः त्वया राममपोह्यैवं दारचौर्यं कुतः कृतम् ? ’ ॥१४४॥एवमुक्तो रा क्षसेंद्रो भृशं क्रुद्धोऽतिदुर्मतिः उत्फाल्य नयने क्रूरे जानकीमन्ववेक्षत. ॥१४५॥ ‘ एवं पर म धृष्टे ! त्वामर्थहीनमनुव्रते ! नाशयाम्यद्य वैदेहि ! भृशं परुषभाषिणीम्. ॥१४६॥त्वं भद्रभा ज नं नासि दुर्व्रतं बहु मन्यसे श्रीमंतं मामनादृत्य गतश्रीकमनुव्रता ॥१४७॥ वदस्यप्रि य मत्यर्थं प्रियवक्तारमीश्वरम् वध्यासि मम निःशंकं कैव वक्त्तुमिहार्हति ? ’ ॥१४८॥प्रोवाच धो रा बहुशो राक्षसीर्मांसभोजनाः, ‘ यथा मद्वशगा सीता क्षिप्रं भवति सर्वथा, ॥१४९॥ तथाद्य सा म प्रमुखैरुपायैः कुरुताखिलाः. ’ इत्याज्ञप्ता दशास्येन लोमहर्षणदर्शनाः. ॥१५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP