संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|सुंदरकांडम्| काव्य २५१ ते ३०० सुंदरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ४६८ सुंदरकांडम् - काव्य २५१ ते ३०० सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य २५१ ते ३०० Translation - भाषांतर स्वं च प्रभं ज नसुतं सुग्रीवसचिवं प्रियम् कथयित्वा कविः शंकां तस्याश्चिंतामपानुदत्. ॥२५१॥ ‘ त्वद्भर्तुः प्रि य कृद्देवि ! सखा सर्वकपीश्वरः महाप्रतापः सुग्रीवः स त्वां कौशलमब्रवीत्. ॥२५२॥ सर्वान् रणे रा त्रिचरान् हत्वा सदशकंधरान् अचिरात्त्वामितो देवि ! नेता जेता द्विषां प्रभुः. ॥२५३॥ प्रबलाः स म रं कर्तुं वानरा मानराशयः अत्रागमिष्यत्यचिरात्सुग्रीवेण सहामिताः. ॥२५४॥ संपातिना ज टायोस्त्वमग्रजेन निवेदिता शतयोजनमंभोधिं तीर्त्वैकोऽहमिहागतः. ॥२५५॥रामांगुली य मेतत्त्वं गृहाणार्ये ! तदर्पितम्. ’ इत्युक्त्वा स ददौ मुद्रामंजलौ धरणिभुवः. ॥२५६॥ तद्गृहीत्वा ज नकजा प्रेक्षभाणांगुलीयकम् भर्तारमिव संप्राप्ता मुदिताभूदथाब्रवीत्. ॥२५७॥ ‘ कुशली स य दि श्रीमान्सानुजो रघुसत्तमः किं नु क्षितिं न दहति प्रलयाग्निरिवोत्थितः. ॥२५८॥शक्तिमंतौ रा घवौ हि सुराणामपि निग्रहे ममैव तु न दुःखानामस्ति मन्ये विपर्ययः. ॥२५९॥ कच्चिन्न प्रे म रहितो विवासान्मयि राघवः ? कच्चिन्मां व्यसनादस्मात्काकुत्स्थो मोचयिष्यति ? ’ ॥२६०॥उवाच तां श्री हनुमान्, ‘ इहस्थां त्वां न वेत्ति सः तेन त्वां नानयत्याशु शचीमिव पुरंदरः. ॥२६१॥ श्रुत्वोक्तं मे रा घवस्त्वां क्षिप्रमेष्यति सानुजः चमूं प्रकर्षन्महतीं हर्यृक्शगणसंयुताम्. ॥२६२॥ करिष्यति म नुष्येंद्रो लंकां निहतराक्षसाम् विष्टं भयित्वा बाणौघैरक्षोभ्यं वरुणालयम्. ॥२६३॥अदर्शन ज शोकेन राघवः परिपूरितः न शर्म लभते सीते ! सिंहार्दित इव द्विपः. ॥२६४॥यथा सुन य नं वक्रं पत्युर्द्रक्ष्यसि सत्वरम् तथा शपे मंदरेण विंध्येन मलयेन च. ॥२६५॥ नैव मांसं रा मभद्रो भुंक्ते मद्यं न सेवते वन्यं विहितमश्नाति भक्तं काले स पंचमे. ॥२६६॥न दंशजं म शकजं स्पर्शं जानाति राघवःअहीन्नापनयत्यंगात्त्वद्गतेनांतरात्मना. ॥२६७॥ रामोऽनिद्रोऽज स्रमेव सुप्तोऽपि च कदाचन सीतेति मधुरां वाणीं व्याहरन् प्रतिबुध्यते. ’ ॥२६८॥तमुवाचा य ताक्षी सा, ‘ यावदेव न पूर्यते अयं संवत्सरः कालस्तावद्धि मम जीवितम्. ॥२६९॥मासोऽयमं ज नासूनो ! वर्तते दशमः खलु रावणेन नृशंसेन ममैष समयः कतः. ॥२७०॥ बिभीषणो य त्नपरो मम प्रत्यर्पणं प्रति तेनानुनीतो दिक्तुंडो न च तन्मन्यते खलः. ॥२७१॥न रोचते रा वणस्य मम प्रत्यर्पणं कपे ! अविध्यस्यापि सद्बुत्धेर्वचो न कुरुते हृदि. ॥२७२॥ या कला ना म सुमतिर्बिभीषणसुता कपे ! तया ममैतदाख्यातं मात्रा प्रहितया स्वयम्. ’ ॥२७३॥ अथोवाच श्री मतीं तां वायुसूनुर्विचक्षणः, ‘ सीते ! श्रुत्वैव मद्वाक्यं क्षिप्रमेष्यति राघवः. ॥२७४॥ अथवा त्वां रा जकन्ये ! मोचयिष्यामि दारुणाम् अस्माद्दुःखादुपारोह मम पृष्ठमनिंदिते ! ॥२७५॥ सरावणा म पि पुरीं वोढुं शक्तिर्ममास्ति हि,प्रपयिष्यामि रामाय त्वामद्यैव नृपात्मजे ! ’ ॥२७६॥सीतोवा‘चां ज नासूनो ! कपित्वमुचितं तव कथमल्पशरीरस्त्वं मामितो नेतुमिच्छसि ? ’ ॥२७७॥ तस्याः प्रत्य य हेतोः स मेरुमंदरसन्निभम् स्वाकारं दर्शयामास तं दृष्ट्वोवाच जानकी, ॥२७८॥ ‘ वत्स ! वायो रा त्मजस्त्वं गतिर्दीप्तिश्च तेऽद्भुता प्राकृतोऽन्यः कथं चेमां भूमिमागेतुमर्हति ? ॥२७९॥ अयुक्तं तु म या गंतुं कपिश्रेष्ठ ! त्वया सह भवतो वायुवेगस्य वेगो मां मोहयिष्यति. ॥२८०॥ प्रपतेयं ज लनिधौ पृष्ठाद्वेगवतस्तव भवेयमाशु विवशा यादसामन्नमुत्तमम्. ॥२८१॥ नाहमिच्छे य मन्यस्य गात्रं स्प्रष्टुं स्वतः कपे ! अनीशा चाप्यनाथा च रक्षःस्पर्शं तदा गता. ॥२८२॥ यदि रामो ज गन्नाथो हत्वेह दशकंधरम् मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत्. ’ ॥२८३॥ स आंजने य स्तामाह, ‘ त्वयोक्तं शुभदर्शने ! सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च. ॥२८४॥ अभिज्ञानं रा जपुत्रि ! प्रयच्छ त्वमपि प्रभोः येन प्राप्तप्रत्ययं सत्प्रसन्नं भविता मनः. ’ ॥२८५॥ देव्युवाच, ‘ म हेंद्रस्य पुत्रः काकः स मां पुरा चित्रकूटेऽसकृत्तात ! दारयामास दुर्मतिः. ॥२८६॥ ब्रह्मास्त्रेण श्री मताशु दर्भे संयोज्य मारुते ! प्रक्षिप्ते वायसस्त्रस्तस्त्रिजगत्सु परिभ्रमन्. ॥२८७॥ स त्राणमा रा ज्जनकादीश्वराप्तरमेष्ठिनः अप्राप्य शरणं रामं प्राप्तो मुक्तोऽक्षिदानतः. ॥२८८॥एतदेक म भिज्ञानमिमं चूडामणिं च मे नय दर्शय रामाय सत्यप्रत्ययकारकम्. ’ ॥२८९॥ एवमुक्तोंऽ ज नासूनुर्नत्वा तां विश्वमातरम् मणिमाशिषमादाय गमनायोपचक्रमे. ॥२९०॥ तमुवाचा य ताक्षी सा बाष्पगद्गदया गिरा, ‘ हनूमन्कुशलं ब्रूयाः सहितौ रामलक्ष्मणौ. ॥२९१॥ प्लवंगवी रा धिपतिं सुग्रीवं सचिवैर्युतम् वृद्धान्त्सर्वान्कपींश्चापि ब्रूयास्त्वं कुशलं कपे ! ॥२९२॥ यथा च स मा हाबाहुर्माम तारयति राघवः अस्माद्दुःखांबुधेः शीघ्रं त्वं तथा कर्तुमर्हसि. ॥२९३॥ प्लवंगमा ज लनिधिं तरिष्यंति कथं नु ते ? तरिष्यतः कथं तौ च दुस्तरं रामलक्ष्मणौ ? ’ ॥२९४॥ तदांजने य स्तामाह सुग्रीवो वानरेश्वरः सखा रामस्य सत्वाढ्यस्तवार्थे कृतनिश्चयः. ॥२९५॥ कोटिशस्ते ज सा पूर्णाः सत्त्ववंतो महाबलाः मनःसंकल्पसंपाता निदेशे तस्य वानराः. ॥२९६॥ मत्तुल्यास्ते य त्नशीला मद्विशिष्टाश्च वानराः मत्तः क्रोऽपि न हीनोऽयमहं तावदिहागतः. ॥२९७॥किं पुनस्ते रा ज्ञि ! वीरा महाबलपराक्रमाः न हि प्रकृष्टाः प्रेष्यंते प्रेष्यंते हीतरे जनाह. ॥२९८॥ एष्यंति ते महाल्लंकामेकोत्पातेन जानकि ! मम पृष्ठगतौ तौ च नृसिंहावागमिष्यतः ॥२९९॥त्वां नेष्यतः श्री मदीशौ हत्वा रावणमाहवे शपे सत्येन ते देवि ! लंकां भस्मीकरिष्यतः. ॥३००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP