संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|सुंदरकांडम्| काव्य १५१ ते २०० सुंदरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ४६८ सुंदरकांडम् - काव्य १५१ ते २०० सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य १५१ ते २०० Translation - भाषांतर तथातिर ज सा व्यपतं तर्जयंतं नृपात्मजाम्तं धान्यमालिनी कांतं परिष्वज्येदमब्रवीत्. ॥१५१॥‘ मया क्रीड य थाकामं, सीतया कीं तवानया ? विवर्णया कृपणया मानुष्या राक्षसेश्वर ! ॥१५२॥नूनमेषा ज नकजा न महाभोगभाजनम् अकामां कामयानस्य शरीरमुपतप्यते. ’ ॥१५३॥ एवमुक्त्वा य शस्विन्या तयान्यत्रापसारितः प्रहसन्प्रस्थितो राजा प्रविवेश निवेशनम्. ॥१५४॥ ता राक्षस्यो रा जकन्यां रावणाज्ञावशानुगाः परं परुषया वाचा तर्जयंत्योऽब्रुवन्बहु. ॥१५५॥‘ पलस्त्यस्य म हर्षेस्त्वं सूनोर्विश्रवसः स्नुषा भवे ’त्येकजटोवाच तथा हरिजटपरा ॥१५६॥ ‘ अत्यद्भुत श्री स्त्रिजगद्गत्रभोक्ता सुवंशजः कुतो न रोचते भर्ता, किं त्वं प्रव्रजिते रता ? ॥१५७॥भव भार्या रा जराजभ्रातुः प्रव्रजितं त्यज अभिलाषो वरं दुग्धे मुग्धे कः कांजिके रसः. ॥१५८॥असकृद्भी म वीर्येण सुरगंधर्वदानवाःनिर्जिताः समरे येन स ते पार्श्वमुपागतः. ॥१५९॥तस्य त्वं भ ज तः सर्वा समृद्धिं जयतो जगत् किमर्थ राक्षसेंद्रस्य भार्यात्वं नेच्छसेऽधमे ॥१६०॥दिवाकरो य स्य भयान्न तपत्यद्रयो जलम् मुंचंति तरवः पुष्पं फलं वातो न वाति च, ॥१६१॥तं त्वं कथं रा क्षसेंद्रं दशास्यमवमन्यसे ? ’ ‘ कामं खादत मां सर्वा, न करिष्यामि वो वचः. ॥१६२॥ शक्रं पुलो म जादेवी श्रीवसिष्ठमरुंधती तथाहमिक्ष्वाकुवरं रामं पतिमुनव्रता. ॥१६३॥ सोऽस्तु भर्ता ज न्मजन्मन्यन्यं कांटं न कामये, वामेनाप्यंघ्रिणा स्प्रष्टुं नाहमिच्छामि रावणम्. ’ ॥१६४॥एवं श्रुतं य दा वकयं राक्षस्यः क्रोधमूर्च्छिताः भर्त्सयंति स्म परुषैर्वचनैस्तामनिंदिताम्. ॥१६५॥भर्त्स्यमाना ज नकजा राक्षसीभिः समंततः रुदती शिंशपामूलं गत्वा तस्थौ तपस्विनी. ॥१६६॥विनताख्या, ‘ य दि त्वं नो वचनं न करिष्यसि भक्षयिष्यामहेऽद्य त्वामि ’त्युवाचातिनिर्दया. ॥१६७॥ ता राक्षस्यो रा जपुत्रीं भर्तुर्विप्रियकारिणीम् ‘ त्वां मारयाम ’ इत्यूचुर्लोमहर्षणदर्शनाः ॥१६८॥ विकटा ना म तामाह, ‘ भर्तारं रावणं भज नो चेदुपात्ट्य हृदयं भक्षयिष्याम्यहं तव. ’ ॥१६९॥एवं क्रूराः श्री मतीं तामन्याश्चोचुः सुदारुणम् हंतव्या राक्षसेंद्रस्य यदाज्ञाभंगकारिणी. ॥१७०॥कुंडोदरी रा क्षसस्त्री प्रह, ‘ मे दोहदो महान् खादेयमस्या हृदयं कोमलायाः सबंधनम्. ’ ॥१७१॥ विघसा ना म दुर्वृत्ता तदोवाच भयंकरम्, ‘ कंठमस्या नृशंसायाः पीडतामः किमास्यते ? ॥१७२॥मृतेति र ज नीचर्यो ! रावणाय निवेद्यताम्ततोऽसंशयमेवास्मान् खादतेति स वक्ष्यति. ’ ॥१७३॥ततो निर्द य मश्राव्यमत्यंतं लोमहर्षणम् उवाचाजामुखी, ‘ पिंडान्कुरुतेमां विशस्य तान्. ॥१७४॥ यथायथं रा क्षसीभ्यः सर्वाभ्योऽपि विभागशः विभजामानया मोघो विवादो मे न रोचते. ’ ॥१७५॥ ‘ आनीयता म द्य मद्यमि ’ति शूर्पणखाब्रवीत्, ‘ भुक्त्वा पीत्वा च नृत्याम स्तुत्वा देवीं निकुंभिलाम्. ’ ॥१७६॥ निर्भर्त्सिता ज गत्पूज्या ताभिरेवं तदा भृशम् सा बालारुददत्यार्ता प्रत्युवाच च ताः पुनः, ॥१७७॥‘ नरी न न्या य तो रक्षोभार्या भवितुमर्हति,कामं खादत मां सर्वा, न करिष्यामि वो वचः. ’ ॥१७८॥ उष्णैर्नेत्र ज लैः सीता स्नापयंती पयोधरौ अशोकशाखामालंब्य वेपमानारुदद्भृशम्. ॥१७९॥‘ हा राम ! प्रि य हा ! सौम्य ! सौमित्रे ! गुरुवत्सल ! हा कौसल्ये ! हा सुमित्रे ! ’ इति सीता रुरोद सा. ॥१८०॥‘ पीडिताया रा क्षसीभिर्वियुक्तायाः प्रियेण मे न ह्यस्ति जीवितेनार्थो मर्तुमप्यत्र दुर्घटम्. ॥१८१॥हृदयं म म येनेदं न दुःखेन विशीर्यते अश्मसारमयं नूनमथवपयजरामरम्. ॥१८२॥ख्यातः पूज्यः श्री मदीड्यः सानुक्रोशश्च राघवः कृतज्ञोऽप्यदयो जातः शंके मद्भाग्यसंक्षयात्. ॥१८३॥ निरुद्धाहं रा वणेन स्वल्पवीर्येण पापिना समर्थः खलु मे भर्ता नेहस्थां मां स बुध्यते. ॥१८४॥ कामं लंका म हादुर्गं वारिधौ दुष्प्रधर्षणम् न तु राघवबाणानां गतिरोधो भविष्यति. ॥१८५॥ राक्षसानां ज नस्थाने सहस्राणि चतुर्दश एकेनैव निरस्तानि स मां किं नाभिपद्यते ? ॥१८६॥ इहस्थां मां य शस्वींद्रो न जानीते रघूत्तमः जानन्न खलु तेजस्वी धर्षणां मर्षयिप्यति. ॥१८७॥वृत्तं वक्ता रा घवाय यो गृध्रः श्वशुरो मम पापेन रक्षसा सोऽपि मत्समक्षं रणे हतः. ॥१८८॥ वर्तमाना म त्र चेन्मां जानीयाद्रघुनंदनः लंकां महोदधिं चापि निर्दहेदस्त्रतेजसा. ॥१८९॥ करोमि नि ज नाथेन रहिता रोदनं यथा मत्तोऽधिकं करिष्यंति राक्षस्योऽत्र गृहे गृहे. ’ ॥१९०॥सीतां ता भू य एवोचुरनार्ये ! पापनिश्चये ! राक्षस्यो भक्षयिष्यन्ति तव मांसमसंशयम्. ’ ॥१९१॥ राक्षसीस्त्रि ज टा वृद्धा प्रबुद्धा वाक्यमब्रवीत् सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदा, ॥१९२॥‘ अनार्या यू य मात्मानं खादतार्यां न जानकीम् भक्षयिष्यथ दृष्टो हि मया स्व्पनोऽद्य दारुणः. ’ ॥१९३॥ स्वप्नं पृष्टा रा क्षसीभिः कथयामास साथ तम्, ‘ राक्षसानामभावाय सीताभर्तुर्भवाय यः ॥१९४॥ अद्य स्वप्ने म या दृष्तः शुक्लमाल्यानुलेपनः रामः श्वेतगजारूढः शुक्लवासः सलक्ष्मणः ॥१९५॥ सीता च सु श्री रारूढा श्वेताद्रिं सिंधुवेष्टितम् मुक्ता शुक्लांबरधरा शुक्लमाल्यानुलेपना. ॥१९६॥ ततश्चेयं रा जपुत्री रामेण सह संगता आरूढा पुष्पकं यानं प्रस्थिता चोत्तरां दिशम्. ॥१९७॥ रावणश्च म या स्वप्ने दृष्टो रक्तस्रगंबरः प्रस्थितः स्वरयानेन राक्षसैर्दक्षिणां दिशम्. ॥१९८॥दशास्यात्म ज वर्गश्च कुंभकर्णश्च तद्विधः उष्ट्रारूढा गताः सर्वे सचिवा दक्षिणां दिशम्. ॥१९९॥एक एव य था रामः श्वेतच्छत्रो बिभीषणः चतुर्भिः सचिवैर्दृष्टो मया स्वप्ने वियद्गतः. ॥२००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP