TransLiteral Foundation

सुंदरकांडम् - काव्य ३५१ ते ४००

सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य ३५१ ते ४००
रक्षोभिस्तु म या युद्धं रक्षार्थं कृतमात्मनः
त्वामेव द्रष्टुकामेन ब्रह्मास्त्रमनुवर्तितम्. ॥३५१॥
तवांतिकं श्री रामस्य कार्येणाहमिहागतः
प्रेषितोऽस्मि हरींद्रेण सुग्रीवेण महात्म ना. ॥३५२॥
स त्वां भ्राता रा क्षसेंद्र ! स्वयं कुशलमब्रवीत्
भ्रातुः शृणु समादेशमिह चामुत्र च क्षमम्. ॥३५३॥
हरेः सखा म हातेजा राजा दशरथः श्रुतः
तस्य ज्येष्टः सुतो रामः प्रभुः सत्यपराक्रमः. ॥३५४॥
तस्य प्रिया ज नकजा लक्ष्मणस्तत्समोऽनुजः
स ताभ्यां दंडकारण्यमागतः पितुराज्ञया. ॥३५५॥
तद्भार्या प्र य ता नष्टा जनस्थाने पतिव्रता
सानुजो मार्गमाणस्तामृष्यमूकाद्रिमागतः ॥३५६॥
सलक्ष्मणो रा मभद्रः सुग्रीवेणाथ संगतः
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम्. ॥३५७॥
सुगीवस्य म नुष्याणाभिंद्रेणापि महात्मना
राघवेण प्रतिज्ञातं हरिराज्यं निवेदितुम्. ॥३५८॥
प्रभुणा रा ज पुत्रेण हत्वा वालिनमाहवे
सुग्रीवः स्थापितो राज्ये हर्यक्षाणां गणेश्वर्तः. ॥३५९॥
प्रभुणा सं य ति हतः शरेणैकेन रावण !
त्वया विज्ञातपूर्वः स वाली वानरपुंगवः. ॥३६०॥
तामन्वेष्टुं ज नकजां कोटिशः सत्यसंगरः
हरीन्संप्रेषयामास दिशः सर्वा हरीश्वरः. ॥३६१॥
अहं तु प य सां राशिं शतयोजनमायतम्
लंघयित्वा प्रभोर्भार्यां तां दिदृक्षुरिहागतः ॥३६२॥
भ्रमता सा रा ज कन्या दृष्टा तव गृहे मया
परदारान्महाप्राज्ञो नोपरोत्धुं त्वमर्हसि. ॥३६३॥
सतामसं म ते घोरे सर्वधर्मार्थनाशके
न हि कर्मेणि सज्जंते बुद्धिमंतो भवद्विधाः. ॥३६४॥
राघवस्य श्री मतः को लक्ष्मणस्य च धीमतः
शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि. ॥३६५॥
यो व्यलीकं रा घवस्य कृत्वा सुखमवाप्नुयात्
राजंस्त्रिष्वपि लोकेषु विद्यते न स कश्चन. ॥३६६॥
तद्रावण ! म या प्रोक्तं त्रिकालहितमर्थवत्
धर्म्यं मन्यस्व वचनं जानकी प्रतिदीयताम्. ॥३६७॥
नेयं शक्या ज रयितुं सासुरैरमरैरपि
विषसंपृक्तमत्यर्थं भुक्तमन्नमिवौजसा. ॥३६८॥
अवध्यत्वं य दप्यस्ति धर्मस्तत्र हि कारणम्
तस्मात्त्वया धर्महानिर्न कार्या राक्षसाधिप ! ॥३६९॥
जनस्थाने रा क्षसानां विनाशं वालिनस्तथा
रामसुग्रीवसख्यं च बुद्ध्वा त्वं स्वहितं कुरु. ॥३७०॥
एकः काम म हं लंकां शक्तो नाशयितुं खलु
प्रभोराज्ञां विना नैतन्मया कार्यं दशानन ! ॥३७१॥
प्रतिज्ञातं ज नेंद्रेण हर्यक्षगणसंनिधौ
उत्सादनममित्राणां जानकी यैः प्रधर्शिता. ॥३७२॥
त्वद्गृहे ये य मानीता रुद्धा तिष्ठति रावण !
कालरात्रीति तां विद्धि सर्वलंकाविनाशिनीम्. ॥३७३॥
अपकुर्वन् ज गद्भर्तुः साक्षादपि पुरंदरः
न सुखं प्राप्रुयादन्यः किं पुनस्त्वद्विधो जनः ॥३७४॥
जगतां त्र य मप्येतद्राजन् ! संहृत्य लीलया
पुनरेव तथा स्रष्टुं शक्तो रामो महाबलः. ॥३७५॥
सलक्ष्मणं रा घवं यः प्रतियुध्येत रावण !
सर्वथा सर्वभूतेशु सर्वकालेषु नास्ति सः ॥३७६॥
विष्णुना स म शीलस्य कृत्वा विप्रियमीदृशम्
रामस्य राजसिंहस्य दुर्लभं तव जीवितम्. ’ ॥३७७॥
वातसूनोः श्री मतस्तच्छ्रुत्वा वचनमुद्धतः
आज्ञापयद्वधं तस्य रावणः क्रोधमूर्च्छितः ॥३७८॥
बिभीषणो रा क्षसेंद्रं वारसामास सूक्तिभिः.
‘ दूतो‍वध्यो महाराज क्षमस्वे’ति पुनःपुनः. ॥३७९॥
‘ प्रेषितोऽस्य म तिक्रूरो यैर्दूतो राक्षसेश्वर !
तेप्वेव पात्यतां दंडो न कोऽप्यस्य वधे गुणः. ॥३८०॥
युद्धायोद्यो ज येदेव तावयं रामलक्ष्मणौ
युद्धप्रिय महाराज ! जीवत्यस्मिन् महान्गुणः. ’ ॥३८१॥
तन्मनःप्रिय य माकर्ण्य भ्रातुर्वाक्यमथाब्रवीत्
‘ कपीनां किल लांगूलमिष्टं भवति दारुणम्. ॥३८२॥
तदस्य वी रा द्य कपेर्दीप्यतां दुर्मतेर्द्रुतम्
स्वस्वामिनिकटं पापस्तेन दग्धेन गच्छतु. ॥३८३॥
सचत्वरं म म पुरं रक्षोभिः परिणियताम्. ’
इत्याज्ञापयदत्युग्रः पुत्रघातातितप्तधीः. ॥३८४॥
तच्छ्रुत्वा रा ज वचनं राक्षसाः कोपकर्कशाः
अवेष्टयंत लांगूलं जीर्णैः कार्पासिकैः पटैः. ॥३८५॥
स आंजने य स्तु तदा व्यवर्धत कुतूहली
शुष्कमिंधनमासाद्य वनेष्विव हुताशनः. ॥३८६॥
परिषिच्यां ज नासूनोः पुच्छं तैलेन भूयसा
वर्धमाने तत्र शीघ्रं ज्वलनं समयोजनयन्. ॥३८७॥
इतो‍ऽन्यतो य थादेशं नेतॄन् दैवहतान् कपिः
लांगूलेन प्रदीप्तेन राक्षसांस्तानताडयत्. ॥३८८॥
तं मारुतिं रा क्षसास्ते लंकायां सर्वतस्तदा
परिगृह्य ययुर्हृष्टा घोषयंतो‍ऽस्य कर्म तत्. ॥३८९॥
शंखभेरी म हानादैश्चारयंति स्म तां पुरीम्
तच्छ्रुत्वा राक्षसीप्रोक्तं सीताग्निं शरणं ययौ. ॥३९०॥
सख्युःसूनोः श्री मदग्निः प्रार्थितः प्रभुकांतया
संप्रदीप्तोऽपि लांगूललोमैकमपि नादहृत्. ॥३९१॥
प्रदीप्तेऽग्नौ रा मदूतश्चिंतयामास सन्मतिः
संप्रदीप्तोऽप्ययं कस्मान्न मां दहति पावकः ? ॥३९२॥
दृश्यते च म हाज्वालः करोति च न मे रुजम्
हिमस्य पिंड इव मे लांगू लाग्रे प्रतिष्ठितः ॥३९३॥
अथवायं ज नकजाभर्तुः शीतः प्रभावतः
सागरस्यादरस्तादृक्किमग्निर्न करिष्यति ? ॥३९४॥
सीताया द य या नूनं तेजसा राघवस्य च
पितुश्च मम सख्येन न मां दहति पावकः. ॥३९५॥
भूयः स वी रा धिपतिश्चिंतयामास चेतसि
कथमस्मद्विधस्यैवमधमैर्बंधनं कृतम् ॥३९६॥
प्रतिक्रिया म या योग्या कार्या बुद्धिमतेति सः
छित्वा पाशानुत्पपात ददाह विनदन् पुरीम्. ॥३९७॥
स कीशकुं ज रो भूयः परिघं तोरणाश्रितम्
गृहीत्वा रक्षिणः सर्वान्सूदयामास राक्षसान्. ॥३९८॥
पितुः सखा य मनलं समृद्धैर्रक्षतां गृहैः
कृतज्ञर्स्तपयामास साधु प्रत्युपकारवित्. ॥३९९॥
ततो धनं ज यस्यायं कुर्वंस्तर्पणमीप्सितम्
राजादिभवनाग्रेषु विचचार महाकपिः. ॥४००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:39.3800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

reversibility principle

  • = principle of reversibility 
RANDOM WORD

Did you know?

विविध पूजा अथवा होम प्रसंगी स्त्रीने पुरूषाच्या कोणत्या अंगास बसावे आणि हाताला हात कां लावावा?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.