TransLiteral Foundation

सुंदरकांडम् - काव्य ५१ ते १००

सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य ५१ ते १००
स कीशवी राद्यप्राप्तः समयस्तव दर्शनात्
स्वयंभुविहितः सत्यो न तस्यास्ति व्यतिक्रमः. ॥५१॥
राक्षसाना म य सौम्य ! विनाशः समुपागतः
सीतानिमित्तं राज्ञश्च रावणस्य दुरात्मनः. ॥५२॥
तत्वं पुरीं श्री संपन्नां प्रविश्य कपिसत्तम !
विधत्स्व सर्वकार्याणि यानि यानीह वांच्छसि. ॥५३॥
रामस्य दा रा न्पुर्यां त्वमन्वेषय यथासुखम्. ’
इत्युक्तो द्वारतः कीशः प्राकारमवपुप्लुवे. ॥५४॥
द्विषतां वा म मंघ्रिं स मूर्घ्नि चक्रे महामतिः
प्रविश्य रात्रौ तां लंकां ददर्श भवनान्यथ. ॥५५॥
द्रष्टुं देवीं ज नकजां रामस्य दयितां पुरि
भवनाद्भवनं गच्छन्न ददर्श मरुत्सुतः. ॥५६॥
स आंजने य स्तस्यां तान् विवेश महतो गृहान्
रावणभ्रातृतनयप्रधानानां महाजवः. ॥५७॥
तत्साचिव्यं रा त्रिनाथश्चक्रे लंकां प्रकाशयन्
पुष्पकं रावणस्यांतःपुरं सर्वं ददर्श सः. ॥५८॥
सुखसुप्तेऽ म रारातौ ताः स्त्रियो विविधप्रभाः
ज्वलंतः कांचना दीपाः प्रेक्षन्तोऽनिमिषा इव. ॥५९॥
ता विप्ररा ज र्षिसुता दैत्यगंधर्वयोषितः
रक्षसां चाभवन् कन्यास्तस्य कामवशं गताः. ॥६०॥
प्रियास्ताः प्रिय य मात्पा नो तत्र काश्चिद्बलाद्धृताह
नान्यकामा नान्यपूर्वा वरार्हां जानकीं विना. ॥६१॥
पलाशरा ज स्य यथा संति भार्या इमा इह
सीता यदीदृशी भद्रमेवास्येत्यब्रवीत्कपिः. ॥६२॥
भूयोऽचिंत य देवं सा विशिष्टा गुणतो ध्रुवम्
अतोऽयमस्यां कृतवान् कष्टं दुष्टो निशाचरः. ॥६३॥
प्राप्य सुप्तं रा क्षसेंद्रं परमोद्विग्नमानसः
तस्मादतित्रस्त इव सोऽपासर्पन्मरुत्सुतः. ॥६४॥
स्थानांतर म थासाद्य रावणं प्रेक्षते स्म सः
ददर्श रूपसंपन्नामथ मंदोदरीं कपिः. ॥६५॥
मत्वा प्रियां श्री रामस्य तां स्त्रियं रूपसंपदा
हर्षेण महता युक्तो ननंद हरियूथपः. ॥६६॥
स तामसा रा माश्वेव त्यक्त्वा बुद्धिं समुत्थिताम्
चकार चिंतामपरां हनूमानतिबुद्धिमान्. ॥६७॥
‘ राघवस्य म हिष्येवमुपस्थातुं परं जनम्
स्वप्तु भोक्तु मलंकर्तुं नार्हत्येव कथंचन. ॥६८॥
न त्रिष्वपि ज गत्स्वन्यः कश्चिद्रामसमः पुमान्
अन्येयमि ’ति निश्चित्य चचारान्यत्र मारुतिः ॥६९॥
योषितामा य ताक्षीणां सहस्त्राणि ददर्श सः
न तां नतांगीं लावण्यशीलभारेण जानकीम्. ॥७०॥
खिन्नचित्तो रा वणस्य तस्मादंतःपुराद्बहिः
निर्गत्य चिंतामकरोद्दीनो जानक्यदर्शनात्. ॥७१॥
‘ इदं खलु मात्यर्थं धर्मलोपं करिष्यति
यत्प्रसुप्तपरस्त्रीणामद्य जातं विलोकनम्. ’ ॥७२॥
इत्येवमं ज नासूनुर्धर्मसाध्वसशंकितः
निःसृत्य पानभूमेः स चिंतयामास मारुतिः. ॥७३॥
‘ सीता न ध्रि य ते नूनं यन्न दृष्टा विचिन्वता
रावणेन हता बाला शीलरक्षणतत्परा. ॥७४॥
अदृष्ट्वा तां ज नकजां किं प्रवक्ष्यामि तान् कपीन्
किं वा वक्ष्यति मां वृद्धो जांबवानंगदश्च सः. ॥७५॥
कृत्वा निश्च य मद्याहं योग्यः प्रायोपवेशने
भूयो‍ऽथवा विचेष्यामि न यत्र विचयः कृतः. ॥७६॥
नास्ति सीता रा जनकन्या लंकायामिति सर्वथा
रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ॥७७॥
निवेदने म हान् दोषस्तथा स्यादनिवेदने  
कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे. ॥७८॥
गत्वा यदि श्री काकुत्स्थं वक्ष्यामि परुषं वचः
सीता मया न दृष्टेति ततस्त्यक्ष्यति जीवितम्. ॥७९॥
लोकानसा रा नखिलान् विना रामेण मन्यते
भृशानुरक्तः सौमित्रिस्तत्क्षणान्न भविष्यति. ॥८०॥
स प्लवंग म राजोऽपि प्राणांस्त्यक्ष्यत्यसंशयम्
रुमांगदश्च तारा च ताश्च रामस्य मातरः. ॥८१॥
रामं सानु ज मात्मेष्टं परं श्रुत्वा तथागतम्
भरतस्तमनुभ्राता शत्रुघ्नो न भविष्यति. ॥८२॥
वानराः क्ष य मेष्यंति सुग्रीवे राज्ञि संस्थिते
इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम्. ॥८३॥
मयीहस्थे रा घवौ तावाशया खलु सर्वथा
प्राणान् ध्रुवं धरिष्येते वानराश्च तरस्विनः. ॥८४॥
चितिं कृत्वा म हांतं वा प्रवेक्ष्यास्यरणिसुतम्
नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम्. ’ ॥८५॥
स कीशकुं ज रो भूयश्चिंतयामास बुद्धिमान्,
‘ विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम्. ॥८६॥
यावत्तामा य ताक्षीं नो पश्यामि प्रभुकामिनीम्
तावदेतां पुरीं लंकां विचेनोमि पुनःपुनः ॥८७॥
इमामद्य ज वेनाहमशोकवनिकामपि
गुर्वीमधिगमिष्यामि नहीयं विचिता मया. ॥८८॥
कृत्वा निश्च य मेवं स श्रीरामाय महात्मने
लक्ष्मणायाथ सीतायै सुग्रीवायोग्रतेजसे ॥८९॥
नत्वा समी रा त्मभवो रुद्रादिभ्यः कृतांजलिः
उदतिष्ठज्जगामायमशोकवनिकां प्रति. ॥९०॥
अनेकद्रु म संपन्नामशोकवनिकां गतः
कांचनीं शिंशुपां रम्यां महतीमारुरोह सः. ॥९१॥
समारुह्यं श्री मतीं तां शिंशुपां पर्णसंवृताम्
अशोकवनिकाशोभामपश्यत्परमां कपिः. ॥९२॥
तत्राविदू रा त्प्रासादं सहस्रस्तंभमद्भुतम्
ददर्श तस्य निकटे वृक्षमूले प्रभोः प्रियाम्. ॥९३॥
तां वाससा म लवता संवीतां राक्षसीवृताम्
उपवासकृशां दीनां निश्वसंतीं पुनःपुनः ॥९४॥
विलोक्य रा ज महिषी सीतेयमिति बुद्धिमान्
तर्कयामास रामेण कथितैर्भव्यलक्षणैः ॥९५॥
यूथभ्रष्टा य थारण्ये श्वभिः परिवृता मृगी
तथा तां राक्षसीरुद्धां दृष्ट्वाभूद्दुःखितः कपिः. ॥९६॥
‘ इयं सीता रा घवस्य महिषी परमप्रिय
प्रनष्टापि सती यस्य मनसो न प्रणश्यति ॥९७॥
अस्या देव्या म नस्तस्मिन् तस्य चास्यां प्रतिष्ठितम्
तेनेयं स च धर्मात्मा मूहूर्तमपि जीवति. ’ ॥९८॥
इत्याह xऽ ज नासूनुर्हृष्टः सीतां विलोक्य ताम्
जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥९९॥
घोराः काला य समहाशूलमुद्गरधारिणीः
ददर्श राक्षसीस्तत्र सदा मांससुराप्रियाः ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:38.6470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अवघडनाथ

  • पु. 
  • अडव्या अंगाचा ; स्थूल ; गलेलठ्ठ ; ढेरपोट्या माणूस . 
  • ( ल . ) ढोण्या ; लठ्ठ्या . 
  • अवघड्या . अवघड्या - वि . अडचणी उत्पन्न करणारा ; शंका उपस्थित करणारा ; कुरकुरणारा ; अळंटळं करणारा . [ अवघड + नाथ ] 
More meanings
RANDOM WORD

Did you know?

सुतकातील नियमांबद्दल मार्गदर्शन करावे.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.