संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|सुंदरकांडम्| काव्य ३०१ ते ३५० सुंदरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ४६८ सुंदरकांडम् - काव्य ३०१ ते ३५० सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ३०१ ते ३५० Translation - भाषांतर इत्युक्त्वा तां रा जसुतां नत्वा निर्गत्य मारुतिः बभंज तद्वनं कर्तुं युद्धं द्रष्टुं दशाननम्. ॥३०१॥राक्षसीनां म हद्रूपं स चकार भयावहम्. तास्तं दृष्ट्वा महाकायं पप्रच्छुर्जनकात्मजाम्. ॥३०२॥‘ कोऽयं जल ज पत्राक्षि ! किंनिमित्तमिहागतः संवादश्च कृतोऽनेन त्वया तत्कथयाखिलम्. ’ ॥३०३॥उवाच न्या य निपुणा रक्षसां कामरूपिणाम्, ‘ विज्ञाने मम का शक्तिर्नैव जानामि को ह्ययम्. ॥३०४॥भीतास्म्येनं रा त्रिचरं वेद्म्यहं कामरूपिणाम्, यूयमेवास्य जानीत योऽयं यद्वा करिष्यति. ॥३०५॥अहिरेव म तो ज्ञातुमहेः पादान्न संशयः. ’ इत्युक्तास्तास्ततो भीता राक्षस्यो रावणं गताः. ॥३०६॥शशंशू र ज नीचर्यो, ‘ वानरः कश्चिदागतः.जानक्या कृतसंवादस्तिष्ठत्यमितविक्रमः. ॥३०७॥राजन् ! सा तो य जाक्षी तं प्लवगं कृतसाहसम् नास्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति. ॥३०८॥शक्तस्य रा ज राजस्य दूतो वायं महाबलः प्रेषितो वापि रामेण सीतान्वेषणकांक्षया. ॥३०९॥ तेनैवाद्य य दत्यंतं प्रियं तव मनोहरम् नानामृगखगाकीर्णं नाशितं प्रमदावनम्. ॥३१०॥ तस्मिन्वने रा क्षसेंद्र ! प्रदेशो नाशितोऽखिलः यत्र सा जानकी देवी स एकोऽनेन रक्षितः. ’ ॥३११॥तच्छ्रुत्वा स म हातेजा रावणो राक्षसेश्वरः चिताग्निरिव जज्वाल कोपसंवर्तितेक्षण. ॥३१२॥ लोचनाभ्यां श्री दशत्रोः प्रपतन्नश्रुबिंदवः दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहाबिंदवः. ॥२१३॥किंकराख्यान् रा क्षसान् स व्यादिदेश महाबलान् भवनात्तेऽयुतान्यष्टौ निर्ययुर्विविधायुधाः. ॥३१४॥स प्लवंग म शार्दूलः पुच्छमाविध्य भूतले, ‘ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः. ॥३१५॥स सुग्रीवो ज यति नो राजा रामेण पालितः दासोऽहं कोसलेंद्रस्य हनूमान्मारुतात्मजः. ॥३१६॥अहं निर्भ य एवास्मि शिलावृक्षनखायुधः न रावणसहस्त्रं मे युद्धे प्रतिबलं भवेत्. ॥३१७॥अर्दयित्वा रा क्षसानां पुरीं नत्वा च मैथिलीम् समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्. ’ ॥३१८॥एवं तस्य म रुत्सूनोर्गर्जतो ध्वनिना खगाः निपेतुर्नभसस्त्रस्तास्तेऽभवन्खलु किंकराः. ॥३१९॥किंकरास्तेंऽ ज नासूनुमभिपेतुस्तिस्ततः. स तैः परिवृतः शूरैः सर्वतः सुमहाबलः. ॥३२०॥आससादा य सं भीमं परिघं तोरणाश्रितम् घोरं परिघमादाय जघान रजनीचरान्. ॥३२१॥ द्वित्राः क्षत ज दिग्धांगा हतशेषा निशाचराः निहतान् किंकरान्त्सर्वान् रावणाय न्यवेदयन्. ॥३२२॥प्रहस्तका य जं राजा पाहिणोज्जंबुमालिनम् अत्रांतरे कर्पिर्भंक्त्वा चैत्यप्रासादमद्भुतम्. ॥३२३॥चैत्यस्तंभं रा मदूतो गृहीत्वा हंतुमागतान् चैत्यपालान् शतं तेन जघान रजनीचरान्. ॥३२४॥ विश्राव्य ना म कार्यं च जंबुमालिनमागतम् प्रगृह्य परिघं घोरं तं जघानानिलात्मजः. ॥३२५॥तदाकर्ण्य श्री दबंधुः सप्तान्यान् मंत्रिनंदनान् प्रेषयामास सबलान् स तानपि यमक्षयम्. ॥३२६॥सेनापतीन् रा क्षसेंद्रो दुर्धरप्रमुखांस्ततः पंच प्रहितवान् क्रुद्धः समरे दृष्टविक्रमान्. ॥३२७॥जघान स म रे ! तानप्यतितेजा मरुत्सुतः कुमारमक्षं च ततश्चोदयामास रावणः. ॥३२८॥ अक्षमप्यं ज नापुत्रो धृत्वा चरणयोर्बलात् आविध्य व्योम्नि चिक्षेप व्यसुं तार्क्ष्य इवोरगम्. ॥३२९॥ ज्येष्ठं तन य मिंद्रस्य जेतारं रावणस्ततः मारुतेः प्रेषयामास निग्रहायस्त्रविद्वरम्. ॥३३०॥स तेजस्वी रा क्षसेंद्रं नत्वा कृत्वा प्रदक्षिणम् व्यालैश्चतुर्भिर्युक्तं स्वं रथमारुह्य निर्ययौ. ॥३३१॥ इंद्रजित्स म रश्लाघी मारुतिश्च महाबलः यक्षसिद्धर्षयोद्रष्टुं तयोर्युद्धं समागताः. ॥३३२॥ समेतावं ज नामंदोदरीपुत्रौ महाबलौ सुरासुरेंद्राविव तौ बद्धवैरौ विशारदौ. ॥३३३॥अवध्यं सं य ति ज्ञात्वा ब्रह्मास्त्रेणेंद्रजित्कपिम् बबंधाथ स निश्चेष्टोऽभवद्भुव्यपतत्तदा. ॥३३४॥मारुतिः कं ज जास्त्रं तद्बुद्ध्वात्मनि कृतास्पदम् मुहूर्तमात्रान्मुक्तिं च ज्ञात्वासीन्मिपविह्वलः. ॥३३५॥‘ नैवास्ति भ य मस्नान्मे बद्धस्येषदपि स्फुटम् पितामहमहेंद्राभ्यां रक्षितस्यानिलेन च. ॥३३६॥ग्रहणेऽथो रा क्षसैश्च महन्मे गुणदर्शनम् राक्षसेंद्रेण संवादस्तस्माद्गृह्णंतु मां परे. ॥३३७॥ निश्चितार्थं म नस्येवं बबंधुः शणरज्जुभिः स मुक्तोऽस्त्रेण, सहते नास्त्रबंधोऽन्यबंधनम्. ॥३३८॥ना प्ता जय श्री रिति तं दृष्ट्वा बद्धं निशाचरैः मेने मनस्यगाच्चितामस्त्रतत्त्वविंद्रिद्रजित्. ॥३३९॥स राक्षसै रा वणस्य समीपं हृष्टमानसैः क्षिपद्भिस्ताड्यद्भिश्च प्राकृष्यत कुबुद्धिभिः. ॥३४०॥इंद्रजित्तं म हावीर्यमस्त्रमुक्तं प्लवंगमम् रज्जुबद्धं रावणाय सगणाय व्यदर्शयत्. ॥३४१॥ दृष्ट्वा तं रा ज राजस्य भ्रातरं कपिपंडितः मनसा चिंतयामास तेजसा तस्य मोहितः. ॥३४२॥ ‘ अस्मिन्नेको य द्यधर्मो न स्याद्राक्षसनायके स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता. ’ ॥३४३॥ प्रहस्तस्तं रा वणस्य निदेशादिदमब्रवीत्, ‘ समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ! ॥३४४॥ प्रेषितोऽसि म हेंद्रेण कुबेरेण यमेन वा वरुणेनालयं राज्ञो दूतस्त्वं विष्णुनाथवा. ॥३४५॥नैव त्वं ते ज सा भासि रूपमात्रेण वानरः मोक्षः सत्यादसत्यात्तु दुर्लभं तव जीवितम् ॥३४६॥रावणाल य एतस्मिन्प्रवेशोऽद्य त्वया कपे ! किंनिमित्तः कृतो ब्रूहि तत्वतो, मोक्षसे ततः. ’ ॥३४७॥अब्रवीदं ज नापुत्रस्तदा रक्षोगणेश्वरम् तेजसा भगवान्नंदी बाणो वेति विशंकितम् ॥३४८॥‘ न शक्रस्य य मस्याहं श्रीदस्य वरुणस्य वा जात्यैव कश्चित्प्लवगो विष्णुना नास्मि चोदितः. ॥३४९॥अत्रागतो रा वणस्य दर्शनार्थमहं कपिः तदिदं दुर्लभं, तेन नाशितं प्रमदावनम्. ॥३५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP