शनिवार आरती मारुतीची - जयदेव जयदेव मारुतिवरधीरा ...

आरती म्हणजे हिंदू उपासनेचा एक विधी.


जयदेव जयदेव मारुतिवरधीरा । आरति तव पदकमले भवतु मम सुधीरा ॥धृ०॥
अंजनिपुत्रं वन्दे वन्दे हरिवीरं । वन्दे वायुसुतं तं वन्दे रणधीरं ।
श्रीरामचन्द्रसीताशोकहरं शूरं । वन्दे शिवावतारं स्वभक्तसुखकारं ॥१॥
समुद्रतरणं लंकादहनं येन कृतं । इंद्रजिताध्वरहरणं कृतिना येन कृतं ।
सौमित्रिजीवनार्थं द्रोणगिरिं नीतं । वन्दे तं भगवन्तं हरिकुलहरिभक्तम् ॥२॥
अहिरावर्णमहिरावणरावणकुलनाशं । कृत्वा श्रीरामपदं घ्यात्वा भवनाशं ।
मत्वा श्रीरामंहृदं पाटितभुवनाशं । वन्दे तं हनुमन्तं स्वजनार्तिविनाशत् ॥३॥
यन्नाम्ना भवतरणं दुर्जनभयहरणं । असुरविषार्तिसुहरणं संसृतिहृज्ज्ञानं ।
भजकमनोरथपूर्णं धृतनामसुनामन् । वन्दे सुखाब्धिमग्नं नृसिंहयतिधीनम् ॥४॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP