संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|पंचम पटल| शिवसंहिताफ़लकथनम् पंचम पटल योग प्रकरण धर्मरूपयोगविघ्नकथनम् ज्ञानरूपविघ्नकथनम् चतुर्विधयोगकथनम् मृदुसाधकलक्षणम् मध्यसाधकलक्षणम् अधिमात्रसाधकलक्षणम् अधिमात्रतमसाधकलक्षणम् प्रतीकोपासनाकथनम् मूलाधारपद्मविवरणम् स्वाधिष्ठानचक्रविवरणम् मणिपूरचक्रविवरणम् अनाहतचक्रविवरणम् विशुद्धचक्रविवरणम् आज्ञाचक्रविवरणम् सहस्रारपद्मविवरणम् राजयोगकथनम् शिवसंहिताफ़लकथनम् पंचम पटल - शिवसंहिताफ़लकथनम् महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत शिवसंहिताफ़लकथनम् Translation - भाषांतर अष्टाविंशतिभिर्लक्षैर्विद्याधरपतिर्भवेत् ।साधकस्तु भवेद्धीमान्कामरूपो महाबल: ॥२४४॥त्रिंशल्लक्षैस्तथा जप्तैर्ब्रह्मविष्णुसमो भवेत् ।रुद्रत्वं षष्टिभिर्लक्षैरमरत्वमशीतिभि: ॥२४५॥कोट्यैकया महायोगी लीयते परमे पदे ।साधकस्तु भवेद्योगी त्रैलोक्ये सोsतिदुर्लभ: ॥२४६॥त्रिपुरे त्रिपुरन्त्वेकं शिवं परमकारणम् ।अक्षयं तत्पदं शान्तमप्रेयमनामयम ॥२४७॥लभतेsसौ न सन्देहो धीमान् सर्वमभीप्सितम् ।शिवविद्या महाविद्या गुप्ता चाग्रे महेश्वरि ॥२४८॥मद्भाषितमिदं शास्त्रं गोपनीयतो बुधै: ।हठविद्या परं गोप्या योगिना सिद्धिमिच्छता ॥२४९॥भवेद्वीर्यती गुप्ता निर्वीर्या च प्रकाशिता ।य इदं पठते नित्यमाद्योपान्तं विचक्षण: ॥२५०॥योगसिद्धिर्भवेत्तस्य क्रमेणैव न संशय: ।स मोक्षं लभते धीमान् य इदं नित्यमर्चयेत् ॥२५१॥मोक्षार्थिभ्यश्च सर्वेभ्य: साधुभ्य: श्रावयेदपि ।क्रियायुक्तस्य सिद्धि: स्यादक्रियस्य कथम्भ्वेत् ॥२५२॥तस्मात् क्रिया विधानेन कर्तव्या योगपुङगवै: ।यदृच्छालाभसन्तुष्ट: सन्त्यक्तान्तंरसङ्गक: ॥२५३॥गृहस्थश्चप्यनासक्त: स मुक्तो योगसाधनात् ।गृहस्थानां भवेत् सिद्धिरीश्वराणां जपेन वै ।योगक्रियाभियुक्तानां तस्मात्संयतते गृही ॥२५४॥गेहे स्थित्वा पुत्रदारादिपूर्ण: सङ्गं त्यक्त्वा चान्तरे योगमार्गे ।सिद्धे चिह्नं वीक्ष्य पश्चाद्गृहस्थ: क्रीडेत्सं वै सम्मतं साधयित्वा ॥२५५॥इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे पंचमपटल: समाप्त: ॥५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP