संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|पंचम पटल| प्रतीकोपासनाकथनम् पंचम पटल योग प्रकरण धर्मरूपयोगविघ्नकथनम् ज्ञानरूपविघ्नकथनम् चतुर्विधयोगकथनम् मृदुसाधकलक्षणम् मध्यसाधकलक्षणम् अधिमात्रसाधकलक्षणम् अधिमात्रतमसाधकलक्षणम् प्रतीकोपासनाकथनम् मूलाधारपद्मविवरणम् स्वाधिष्ठानचक्रविवरणम् मणिपूरचक्रविवरणम् अनाहतचक्रविवरणम् विशुद्धचक्रविवरणम् आज्ञाचक्रविवरणम् सहस्रारपद्मविवरणम् राजयोगकथनम् शिवसंहिताफ़लकथनम् पंचम पटल - प्रतीकोपासनाकथनम् महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत प्रतीकोपासनाकथनम् Translation - भाषांतर प्रतीकोपासना कार्या दृष्टादृष्टाफ़लप्रदा ।पुनाति दर्शनादत्र नात्र कार्या विचारणा ॥२८॥गाढातपे स्वप्रतिबिम्बितेश्वरं निरीक्ष्य विस्फ़ारितलोचनद्वयम् ।यदा नभ: पश्यदि स्वप्रतीकं नभोsङ्गणे तत्क्षणमेव पश्यति ॥२९॥प्रत्यहं पश्यते यो वै स्वप्रतीकं नभोsङ्गणे ।आयुवृद्धिर्भवेत्तस्य न मृत्यु: स्यात्कदाचन ॥३०॥यदा पश्यति सम्पूर्ण स्वप्रतीकं नभोsङ्गणे ।तदा जयं सभायां च युद्धे निर्जित्य सञ्चरेत् ॥३१॥( तदा जयमवाप्नोति वायुं निर्जित्य सञ्चरेत् )य: करोति सदाभ्यासं चात्मानं विन्दते परम् ।पूर्णानन्देकपुरुषं स्वप्रतीकप्रसादत: ॥३२॥यात्राकाले विवाहे च शुभे कर्मणि सङ्कटे ।पापाक्षये पुण्यवृद्धौ प्रतीकोपासनं चरेत् ॥३३॥निरन्तरकृताभ्यासादन्तरे पश्यति ध्रुवम् ।तदा मुक्तिमवाप्नोति योगी नियतमानस: ॥३४॥अङ्गुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां द्विलोचने ।नासारन्ध्रे च मध्याभ्यामनामाभ्यां मुखं दृढम् ॥३५॥निरुध्य मारुतं योगी यदैव कुरुते भृशम् ।तदा तत्क्षणमात्मानं ज्योतीरूपं स पश्यति ॥३६॥तत्तेजो दृश्यते येन क्षणमात्रं निराकुलम् ।सर्वपापविनिर्मुक्त: स याति परमां गतिम् ॥३७॥निरन्तरकृताभ्यासाद्योगी विगतकल्मव: ।सर्वदेहादि विस्मृत्य तदभिन्न: स्वयं गत: ॥३८॥य: करोति सदाभ्यासं गुप्ताचारेण मानव: ।स वै ब्रह्मविलीन: स्यात्पापकर्मरतो यदि ॥३९॥गोपनीय: प्रयत्नेन सद्य: प्रत्ययकारक: ।निर्वाणदायको लोके योगोsय़ं मम वल्लभ: ।नाद: संजायते तस्य क्रमेणाभ्यासतश्च य: ॥४०॥मत्तभृङ्गवेणुवीणासदृश: प्रथमो ध्वनि: ।एवमभ्यासत: पश्चात् संसारध्वान्तनाशनम् ।घण्टानादसम: पश्चात् ध्वनिर्मेघरवोपम: ॥४१॥ध्वनौ तस्मिन्मनो दत्त्वा यदा तिष्ठति निर्भर: ।तदा संजायते तस्य लयस्य मम वल्लभे ॥४२॥तत्र नादे यदा चित्तं रमते योगिनो भृशम् ।विस्मृत्य सकलं बाह्यं नादेन सह शाम्याति ॥४३॥एतदभ्यासयोगेन जित्वा सम्यक् गुणान् बहून् ।सर्वारम्भपरित्यागी चिदाकाशे विलीयते ॥४४॥नासनं सिद्धसदृशं न कुम्भसदृशं बलम् ।न खेचरीसमा मुद्रा न नादसदृशो लय: ॥४५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP