संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|पंचम पटल| राजयोगकथनम् पंचम पटल योग प्रकरण धर्मरूपयोगविघ्नकथनम् ज्ञानरूपविघ्नकथनम् चतुर्विधयोगकथनम् मृदुसाधकलक्षणम् मध्यसाधकलक्षणम् अधिमात्रसाधकलक्षणम् अधिमात्रतमसाधकलक्षणम् प्रतीकोपासनाकथनम् मूलाधारपद्मविवरणम् स्वाधिष्ठानचक्रविवरणम् मणिपूरचक्रविवरणम् अनाहतचक्रविवरणम् विशुद्धचक्रविवरणम् आज्ञाचक्रविवरणम् सहस्रारपद्मविवरणम् राजयोगकथनम् शिवसंहिताफ़लकथनम् पंचम पटल - राजयोगकथनम् महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत राजयोगकथनम् Translation - भाषांतर अत ऊर्ध्व दिव्यरूपं सहस्रारं सरोरुहम् ।ब्रह्माण्डाख्यस्य देहस्य बाह्ये तिष्ठति मुक्तिदम् ॥१८६॥कैलासो नाम तस्यैव महेशो यत्र तिष्ठति ।अकुलाख्योsविनाशी च क्षयवृद्धिविवर्जित: ॥१८७॥स्थानस्यास्य ज्ञानमात्रेण नृणां संसारेsस्मिन् सम्भवो नैव भूय: ।भूतग्राम् सन्तताभ्यासयोगात् कर्तुं हर्तुं स्याच्च शक्ति: समग्रा ॥१८८॥स्थाने परे हंसनिवासभूते कैलासनाम्नीह निविष्टचेता: ।योगी हृतव्याधिरध:कृताधिर्वायुश्चिरं जीवति मृत्युमुक्त: ॥१८९॥चित्तवृत्तिर्यदा लीना कुलाख्ये परमेश्वरे ।तदा समाधिसाम्येन योगी निश्चलतां व्रजेत् ॥१९०॥निरन्तरकृते ध्याने जगद्विस्मरणं भवेत् ।तदा विचित्रसामर्थ्य योगिनो भवति ध्रुवम् ॥१९१॥तस्माद्गलितपियूषं पिबेद्योगी निरन्तरम् ।मृत्योर्मृत्युं विधायाशु कुलं जित्वा सरोरुहे ॥१९२॥अत्र कुण्डलिनीशक्तिर्लयं याति कुलाभिधा ।तदा चतुर्विधा सृष्टिर्लीयते परमात्मनि ॥१९३॥यज्ज्ञात्वा प्राप्य विषयं चित्तवृत्तिर्विलीयते ।तस्मिमन्परिश्रमं योगी करोति निरपेक्षक: ॥१९४॥चित्तवृत्तिर्यदा लीना तस्मिन् योगी भवेद् ध्रुवम् ।तदा विज्ञायतेsखण्डज्ञानरूपी निरञ्चन: ॥१९५॥ब्रह्माण्डबाह्ये संचिन्त्य स्वप्रतीकं यथोदितम् ।तमावेश्य महच्छून्यं चिन्तयेदविरोधत: ॥१९६॥आद्यन्तमध्यशून्यं तत्कोटिसूर्यसमप्रभम् ।चन्द्रकोटिप्रतीकाशमभ्यस्य सिद्धिमाप्नुयात् ॥१९७॥एतत् ध्यानं सदा कुर्यादनालस्यं दिने दिने ।तस्य स्यात्सकला सिद्धिर्वत्सरान्नात्र संशय: ॥१९८॥क्षणार्ध निश्चलं तत्र मनो यस्य भवेद् ध्रुवम् ।स एव योगी सद्भक्त: सर्वलोकेषु पूजित: ।तस्य कल्मषसङ्घातस्तत्क्षणादेव नश्यति ॥१९९॥यं दृष्ट्वा न प्रवर्तन्ते मृत्युसंसारवर्त्मनि ।अभ्यसेत्तं प्रयत्नेन स्वाधिष्ठानेन वर्त्मना ॥२००॥एतत् ध्यानस्य माहात्म्यं मया वक्तुं न शक्यते ।य: साधयति जानाति सोsस्माकमपि सम्मतम् ॥२०१॥ध्यानादेव विजानाति विचित्रफ़लसम्भवम् ।अणिमादिगुणोपेतो भवत्येव न संशय: ॥२०२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP