महागणपतिमंत्रविधानम्‌

गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात.


अस्य श्रीमहागणपतिमंत्रस्य । गणक ऋषि: । निचृद्रायत्री छंदा: । महागणपतिर्देवता । गं बीजं । स्वाहा शक्ति: । ॐ कीलकं । मम श्रीमहागणपति प्रसाद सिध्द्यर्थं जपे विनियोग: ॥ न्यास: ॥ ॐ  ॐ आं अंगुष्ठाभ्यां नम: । ॐ श्रीं गीं तर्जनीभ्यां नम: । ॐ ह्नीं गूं मध्यमाभ्यां नम: । ॐ क्लीं गैं अनामिकाभ्यां नम: । ॐ ग्लौं गौं कनिष्ठिकाभ्यां नम: । ॐ गं ग: करतलकरपृष्ठाभ्यां नम: ॥ ह्रदयादिन्यास: ॥
अथ ध्यानम्‌ ॥ बीजापूरगदेक्षुकार्मुकरुजश्चक्राब्जपाशोत्पलव्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुह: ॥ ध्याये वल्लभया सपद्मकरयाऽऽश्लिष्टो जगत्‌ भूषया विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थद: ॥१॥
मध्यस्थं ज्वालात्मकजिव्हायां सपरिवारं गणपतिमावाह्य । ॐ स्वाहा । ॐ र्‍हीं श्रीं स्वाहा । ॐ श्रीं ह्मीं स्वाहा । ॐ श्रीं र्‍हीं क्लीं स्वाहा । ॐ र्‍हीं श्रीं क्लीं ग्लौं स्वाहा । ॐ श्रीं र्‍हीं क्लीं ग्लौं स्वाहा । ॐ श्रीं र्‍हीं क्लीं ग्लौं गं गणपतये स्वाहा । ॐ श्रीं क्लीं र्‍हीं क्लीं र्‍हीं ग्लौं गणपतये स्वाहा । ॐ र्‍हीं श्रीं क्लीं ग्लौं गं गणपतये वरवरद स्वाहा । ॐ र्‍हीं श्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे स्वाहा । ॐ र्‍हीं श्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
ॐ र्‍हीं श्रीं-समस्तमंत्रेण चतुर्वारं हुत्वा । एवं अग्निं समस्तदेवतामयं कृत्वा मूलमंत्रेण ऋष्यादि विन्यस्य । षंडगन्यासं ध्यानं च कृत्वा । स्वह्रदयस्थं सपरिवारं अमुकदेवतामावाह्य । आवहितो भव । स्थापितो भव । सन्निहितो भव । सन्निरुद्धो भव । सुमुखो भव । सुप्रसन्नो भव । तस्यापि षडंगन्यासं विधाय । सर्वोपचारै: संपूज्य । मूलमंत्रेण पंचविंशतिवारमाज्येन हुत्वा । मूलदेवता परिवारेभ्य: स्वाहा । इति सकृत्‌ हुत्वा । तत: पूर्वोक्तद्रव्येण उक्तसंख्यया होमं कुर्यात्‌ ।
भूरग्नये च पृथिव्यै च महते च स्वाहा । भुवो वायवे चान्तरिक्षाय च महते च स्वाहा । स्व: आदित्याय च दिवे च महते स्वाहा । भूर्भुव --- स्व: चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा ।
तत: अग्निमलंकृत्य परिषिच्य । “ब्रह्मार्पणं” मंत्रेण पूर्णाहुतिं कुर्यात्‌ ।  इत: पूर्वं प्राणबुद्धिदेहधर्मादिकारत: जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्‌भ्यां उदरेण शिश्ना यत्कृतं यत्स्मृतं यदुक्तं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा । देवतायै इदं न मम । तत: प्रदक्षिणनमस्कारान्‌ विधाय । प्रार्थ्य । आवाहितदेवतां आत्मनि उद्वासयेत्‌ ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP