संस्कृत सूची|पूजा विधीः|विधिविधानः| नारिकेलखण्डहवनकल्प: विधिविधानः शारदातिलकान्तर्गत: गणेशपटल : मन्त्रमहोदधौ गणेशतरड्ग: ब्रह्मणस्पतिसूक्तहवनविधि: अथर्वशीर्षगणहवनविधानम् गणहोमविधिकारिका नारिकेलखण्डहवनकल्प: बौधायनोक्त: विनायककल्प: अथर्वशीर्षन्यासा: गणेशाथर्वशीर्षपुरश्चरणविधि: महागणपतिमंत्रविधानम् गृत्समदीया बाह्यपूजा दादशावरणपूजा गणेशकल्पोक्तपूजाविधानम् पार्थिव गणपतिपूजा नारिकेलखण्डहवनकल्प: गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात. Tags : ganeshagodprayervidhiगणपतीगणेशदेवतादेवीविधी नारिकेलखण्डहवनकल्प: Translation - भाषांतर महागणपतिप्रीत्या सर्वसत्कार्यसिद्धिदम् ॥लाङ्गलीफलखण्डानां वक्ष्यामि हवनक्रमम् ॥१॥दंशवारं गणानां त्वा जपित्वाथर्वशीर्षकम् ॥एकविंशतिवारं च जपेच्छ्र्द्धापुर:सरम् ॥२॥विधिनाग्नि प्रतिष्ठाप्य बलवर्धनसंज्ञकम् ॥बावयित्वा गणपतिं परिषिच्य यथाविधि ॥३॥नारिकेलस्य खण्डानां जुहुयात् हव्यवाहने ॥मन्त्रेणैकं गणानां त्वा जुहुयाच्छकलं तत: ॥४॥दशाथर्वशिरोमन्त्रै: द्विरावृत्या तु विंशति: ॥एवं हुनेत्प्रतिदिनं एकविंशतिमाहुतिम् ॥५॥हुनेत् घृतं व्याह्रतिभि: साद्गुणव्याच्च कर्मण: ॥होमशेषं समाप्याथ ब्रह्मणस्पतयेऽर्पयेत् ॥६॥समर्पयामि मनसा वाचयेति च भक्तित: ॥सर्वसत्कार्यसंसिद्ध: भवत्येव न संशय: ॥७॥सत्कामनाया: संसिध्द्यै वक्ष्ये काम्यक्रमान्तरम् ॥अथर्वशीर्षोक्तमूलमन्त्रं दशसहस्रकम् ॥८॥गायत्रीं वा गणपतिं जपेदयुतसंख्यया ॥द्विदशैकफलानां तु खण्डै: जपदशांशत: ॥९॥सहस्रं जुहुयात्धीमान् ब्रह्मणस्पतितुष्टये ॥संकल्पितस्य कार्यस्य सिद्धिं प्राप्नोति सत्वरम् ॥१०॥इति आगमरहस्ये सिवोक्त: नारिकेलखण्डहवनकल्प: ॥ N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP