संस्कृत सूची|पूजा विधीः|विधिविधानः| बौधायनोक्त: विनायककल्प: विधिविधानः शारदातिलकान्तर्गत: गणेशपटल : मन्त्रमहोदधौ गणेशतरड्ग: ब्रह्मणस्पतिसूक्तहवनविधि: अथर्वशीर्षगणहवनविधानम् गणहोमविधिकारिका नारिकेलखण्डहवनकल्प: बौधायनोक्त: विनायककल्प: अथर्वशीर्षन्यासा: गणेशाथर्वशीर्षपुरश्चरणविधि: महागणपतिमंत्रविधानम् गृत्समदीया बाह्यपूजा दादशावरणपूजा गणेशकल्पोक्तपूजाविधानम् पार्थिव गणपतिपूजा बौधायनोक्त: विनायककल्प: गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात. Tags : ganeshagodprayervidhiगणपतीगणेशदेवतादेवीविधी बौधायनोक्त: विनायककल्प: Translation - भाषांतर आचम्य प्राणानायम्य देशकालौ संकीर्त्य पुण्यतिथौ-मम श्रीसिद्धिविनायकप्रसादेन सर्वकर्मसु निर्विघताप्राप्त्यर्थं बौधायनोक्तविनायककल्पानुसारेण श्रीमहागणपतिमुपासिष्ये ।तत्रादौ गणेशपूजनं, पुण्याहवाचनं, स्थण्डिलस्य ऐशान्ये वरुणमाबाह्म संपूजयेत् । स्थण्डिले अग्ने: प्रतिष्ठापनां कृत्वा अन्वाधानं कुर्यात् । प्रमुखदेवता भूपतिविनायक: । भुवनपतिविनायक: । भूतानां पतिविनायक: । अंगहोमे वरुणं द्वि: । प्रधानहोमान्तं कृत्वा ।पश्चिमाभिमुखे देवे उपविष्टे कलशोपरि प्रतिमायं विग्रहे वा विनायकस्थापनं पूजनम् । संकल्पादि: । पूजनान्ते ॐ भूपतये नमो भुवनपतये नमो भूतानां पतये नम: । इति मंत्रेण उपस्थाय - ॐ विनायकाय भूपतये नमो विनायकाय स्वाहा । ॐ विनायकाय भुवनपतये नमो विनायकाय स्वाहा । ॐ विनायकाय भूतानां पतये नमो विनायकाय स्वाहा ।इति मन्त्रेण प्रधानहोमं कृत्वा “इमं मे” इत्यादि होमशेषं प्रायश्चित्तान्तं समापयेत् । अपूपं, मोदकं, सक्तून्, पायसं निवेदयेत् । एतत् निवेदनं भूमौ मण्डलं विलिख्य बलिदानपेण कर्तव्यम् ।तत्र मंत्रा: । ॐ विघ्नाय स्वाहा । ॐ उ विनायकाय । ॐ वीराय । ॐ शूराय । ॐ उग्राय । ॐ भीमाय । ॐ हस्तिमुखाय । ॐ वरदाय । ॐ विघ्नपार्षदेभ्य: । ॐ विघ्नपार्षदीभ्य: स्वाहा । स्वाहा प्रतिमन्त्रं । “ये भूता” इति मन्त्रेण भूतेभ्य: बहिर्भागे बलिं दधात् । ततश्च पंचसूत्रात्मकं कंकणं हस्ते व्याह्रतिमि: बध्नीयात् । विनायक महाबाहो विघ्नेश भवदाज्ञया ॥ कामा मे साधिता: सर्वे इदं बध्नामि कंकणम् ॥१॥पूर्णाहुर्ति होमशेषं समाप्य साग्निकं विनायकं प्रदक्षिणीकृत्य साष्टङ्गं प्रणम्य प्रार्थयेत् । ततश्च विसर्जयेत् । कृत यदि मया प्राप्तं श्रद्धया वा गणेश्वर ॥ उत्तिष्ठ सगण: साधो यदि भद्रं प्रसीदताम् ॥२॥ब्राह्मणाय गोप्रदानं कृत्वा दक्षिणादिभि: तान् सन्तोषयेत् । अग्ने: उत्थापनं विसर्जनं च कारयेत् । एतत्कर्मसमृद्धयर्थं द्वादश ब्राह्मणान् भोजयेत् । भूयसीं दक्षिणां दत्वा श्रीसिद्धिविनायक: सुप्रसन्न: वरद: भवतु इति विज्ञापनां कुर्यात् । N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP