संस्कृत सूची|पूजा विधीः|विधिविधानः| शारदातिलकान्तर्गत: गणेशपटल : विधिविधानः शारदातिलकान्तर्गत: गणेशपटल : मन्त्रमहोदधौ गणेशतरड्ग: ब्रह्मणस्पतिसूक्तहवनविधि: अथर्वशीर्षगणहवनविधानम् गणहोमविधिकारिका नारिकेलखण्डहवनकल्प: बौधायनोक्त: विनायककल्प: अथर्वशीर्षन्यासा: गणेशाथर्वशीर्षपुरश्चरणविधि: महागणपतिमंत्रविधानम् गृत्समदीया बाह्यपूजा दादशावरणपूजा गणेशकल्पोक्तपूजाविधानम् पार्थिव गणपतिपूजा शारदातिलकान्तर्गत: गणेशपटल : गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात. Tags : ganeshagodprayervidhiगणपतीगणेशदेवतादेवीविधी शारदातिलकान्तर्गत: गणेशपटल : Translation - भाषांतर अथ वक्ष्ये गणपतेर्मन्त्रान् सर्वार्थसिद्धिदान् ॥यान् लब्ध्वा मानवा नित्यं साधयन्ति मजोरथान् ॥१॥ पञ्चान्तकं शशिधरं बीजं गणपतेर्विदु: ॥गणक: स्यान्मुनिश्छन्दो निचृद्बिध्नोऽस्पदेवता ॥२॥पड्दीर्वभाजा बीजेना कुर्यादड्रक्रियां मनो: ॥३॥सिन्दूराभं त्रिनेत्रं पृथुतरजठरं हस्तपद्भै-र्दधानम् ॥दन्तं पाशाड्कुशेप्टान्युरुकरविलस-द्बीजपूराभिरामम् ॥बालेन्दुद्योतिमौलिं करिपति-वदनं दानदूरार्द्रगण्डम् ॥भोगीन्द्रावद्धभूपं भजत गणपति रक्तवस्त्राड्ररागम् ॥४॥ वेदलक्षं जपेन्मन्त्रं दशांशं जुहुयात्तत: ॥मोदकै: पृथुकै-र्लाज: सक्तुभिश्चेक्षुपर्वभि: ॥५॥नापिकेलैस्तिलै: शुद्धै: सुपक्कै: कदलीफलै: ॥अप्टद्रव्याणि विघ्नस्य कथितानि मनीषिभि: ॥६॥तीव्रादिशक्ति भिर्युक्ते पीठे विघ्नेश्वरं यजेत् ॥तीव्रादिशक्तिभिर्युक्ते पीठे विघ्नेश्वरं यजेत् ॥ तीव्राख्या ज्वालिनी नन्दा भोगदा कामरूपिणी ॥७॥उग्रा तेजोवती सत्या नवमी विघ्ननाशिनी ॥सर्वादिशक्ति-कमलासनाय हदयावधि: ॥८॥पीठामन्त्रोऽय-मेतेन प्रदद्यादासनं विभो: ॥मूलेन मूर्ति संकल्य तस्यां विघ्नेश्वरं यजेत् ॥९॥कर्णिकायां चतु-र्दिक्षु प्रथमं पूजयेदिमान् ॥गणाधिपं गणेशानं तृतीयं गणनायकप् ॥१०॥गणक्रीडं पीतगौर-रक्तनीलरुच: क्रमात् ॥सर्वान्नागेन्द्रभूपाद्यान् भक्ष्यलक्षितपुष्करान् ॥११॥यथापूर्व ततोऽभर्च्य केसरेप्वड्रदेवता: ॥पत्रमध्येपु विधिवद्बक्रतुण्डा-दिकान् यजेत् ॥१२॥वक्रतुण्डमेकदंप्ट्रं महोदर-गजाननौ ॥लम्वोदराख्यं विकटं विघ्नगजमन-न्तरम् ॥१३॥ष्पूम्रवर्णं दलाग्रेपु व्राह्म्याद्या: पूजयेत्तत: ॥लोकपालास्तदस्त्राणि देवमित्थं समर्च-येत् ॥१४॥सिद्धमन्त्र: प्रकुर्वीत प्रयोगान्कल्प-चोदितान् ॥तर्पयेत्सलिलै: शुद्धैर्दिनशे गणना-यकम् ॥१५॥चतुश्चत्वारिंशदाद्यं चतु:शतम-तन्द्रित: ॥प्राप्रुयान्मण्डलादर्वागभीप्टमधिकं नर: ॥१६॥नारिकेलै: कृतो हामश्चतुर्थ्यां श्रीप्रदो भवेत् ॥शुक्लपक्षप्रतिपदमारभ्य दिनश: सुधी: ॥१७॥चतुर्थ्यन्तं नारिकेलसक्तुलाजतिलै:क्रमात् ॥चतुश्शतं प्रजुहुयाद्वश्या: स्यु: सर्व-जन्तव: ॥१८॥सतिलैस्तण्डुलैर्होमो लक्ष्मी-वश्यप्रदो भवेत् ॥लाजैस्त्रिमधुरोपेतैर्होम: कन्यां प्रयच्छति ॥१९॥अनेन विधिना कन्या वरमा-प्रोति वाञ्छितम् ॥आज्याक्तहविपा होम: साधयेदीप्सितं नृणाम् ॥२०॥दध्रा विलोलि-तैर्लोणैर्होमो निशि चतुर्दिनम् ॥संवादं कुरुते तद्बद्बश्यं वितनुते सदा ॥२१॥श्वेतार्कभवमूलेन रक्तचन्दनदारुणा ॥इभभग्रेन निम्बेन दन्ति-दन्तेना वा कृतम् ॥२२॥विघ्नेश्वरंख समभ्यर्च्य शीतांशुग्रहणे जपेत् ॥स्पृष्ट्वा मन्त्री निराहारस्तं शिखायां समुद्बहन् ॥२३॥युद्धेषु व्यवहारादौ विजयश्रियमाप्नुयात् ॥मन्त्रेणानेन संजता रोचना मदसंयुता ॥२४॥तिलकक्तिया सर्वान्वशं नयति मानवान् ॥अनुलोभविलोमस्थबीजे नाम समालिखेत् ॥२५॥नवनीते समभ्यर्च्य स्पृष्ट्वा प्राणमनुं जपेत् ॥अष्टोत्तरशतं भूयो मृलमन्त्रं प्रजप्य तत् ॥२६॥भक्षयेन्मौनमास्थाय यामिन्यां सप्तवासरम् ॥स वश्यो जायते शीवं साधकस्य न संशय: ॥२७॥श्रीशक्तिस्मरभूविघ्नबीजानि प्रथमं वदेत् ॥डेऽन्तं गणपति पश्चाद्वरान्ते वरदं पठेत् ॥२८॥उकत्वा सर्वजनमेतं वशमानय ठद्बयप् ॥अप्टाविंशत्यक्षरोऽवं तीराधो मनुरीरित: ॥२९॥गणक: स्पादृपिश्र्छन्दी गायत्री निचृदा-न्विता ॥महागणपति: प्रोक्तो देवता देववन्दिता ॥३०॥षड्बीजस्थस्वबीजेन दीर्घभाजा प्रकल्प येतू ॥षडड्रानि मनोरस्य यथाविधि विधानवित् ॥३१॥नवरत्नमयं द्बीप्म स्मरेदिक्षुरसाम्बुधौ ॥तद्बीचिधौतपर्यन्तं मन्दमारुतसेवितम् ॥३२॥मन्दारपारिजातादि कल्पवृक्षलताकुलम् ॥तद्भूत-रत्नच्छायाभिररुणीकृतभूतलम् ॥३३॥उद्यद्दिनक-रेन्दुभ्यामुद्भासितदिगन्तरम् ॥तस्य मध्ये पारि-जातं नवरत्नमयं स्मरेत् ॥३४॥ऋतुभि: सेवितं षड्भिरनिशं प्रीतिवर्द्धनै: ॥तस्याधस्तान्महापीठे रचिते मातृकाम्बुजे ॥३५॥षट्कोणान्तत्रिको-णस्थं महागणपतिं स्मरेत् ॥३६॥हस्तीन्द्रानन-मिन्दुचूडमरुणच्छायं त्रिनेत्रं रसादाश्र्लिष्टं प्रियया सपद्मकरया स्वाड्कस्थया सन्ततम् ॥बीजापू-रगदाधनुस्त्रिशिखयुक्चक्राब्जपाशोत्पलब्रीह्यग्र-स्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे ॥३७॥गण्डपलीगलद्दानपूलालसमानसान् ॥द्बिरेफान् कर्णतालाभ्यां वारयन्तं मुहुर्मुहु: ॥३८॥कराग्र-धृतमाणिक्यकुम्भवक्त्रविनि:सृतै: ॥रत्नवर्षे: प्रीणयन्तं साधकान्मदविह्ललम् ॥३९॥माणिक्य-मुकुटोपेतं रत्नाभरणभूषितम् ॥ध्यायन्मन्त्रं जपे-न्मन्त्री चतुर्लक्षं समाहित: ॥४०॥चतु: सहस्र-संयुक्तं चत्वारिंशत्सहस्रकम् ॥दशांश्म जुहुयात् द्रव्यैरष्टाभिर्मोदकादिभि: ॥४१॥तर्पयेद्दिनशो नित्यं प्रागुक्तेनैव वर्त्मना ॥प्रागुक्ते पूजयेत्पीठे विधिना गणायकम् ॥४२॥त्रिक्रोणबाह्ये पूर्वादिचतुर्दिक्षु समर्चयेत् ॥अग्रस्थबिल्व-वृक्षाध: श्रियं श्रीपतिमर्चयेत् ॥४३॥पद्मयुग्म-धरा पद्मा शडखचक्रधरो हरि: ॥दक्षिणे वटवृक्षाधो गौरीं गौरीपतिम यजेत् ॥४४॥पाशाडुशधरा गौरी टड्कशूलधरो हर: ॥पश्चिमे पिप्पलस्याऽधो रतिं रतिपतिं यजेत् ॥४५॥रतिरुत्पलहस्ताढ्या कोदण्डास्त्रधर: स्मर: ॥सौम्ये प्रियड्गुवृक्षाधो महीं पोत्रिणमर्चयेत् ॥४६॥शुकव्रीह्यग्रहस्ता भूर्गदाचक्रधर: पति: ॥देवाग्रे पूजयेल्लक्ष्मीसहितं गापनायकम् ॥४७॥षट्सु कोणेषु सम्पूज्या आमोदाद्या: प्रियान्विता: ॥आमोदं सिद्धिसहित-मग्रकोणे समर्चयेत् ॥४८॥समृद्धया कान्ति-संयुक्तमीशकोणे समर्चयेत् ॥४९॥दुर्मुखं मदनावत्या यजेद्वरुणकोणके ॥विघ्नं मदद्रवा-युक्तं कोणे नैशाचरे यजेत् ॥५०॥वायव्ये निघ्नहर्तारं द्राविण्या सहितं यजेत् ॥पाशाड्कुशा-भयाभीष्टधारिणोऽरुणविग्रहा: ॥५१॥गण्डभि-त्तिगलद्दानपूरधौतमुखाम्बुजा: ॥विघ्नास्तत्प्रमदा: सर्वा: मदाघूर्णितलोचना: ॥५२॥एक-हस्तधृतामभोजा इतरालिड्रितप्रिया: षट्कोण-पार्श्वयो: पूज्यौ शड्खपद्मनिधी क्रमात् ॥५३॥निजप्रियाभ्यां सहितौ पूर्वोदीरितलक्षणौ ॥केसरेष्वड्रपूजा स्याद् ब्राह्म्याद्या: पत्रमध्यगा: ॥५४॥बहिर्लेकेश्वरा: पूज्या वज्रादीनि तत: परम् ॥इत्थं जपादिभि: सिद्ध: प्रयोगान्स्व-मनीषितान् ॥५५॥साधयेदष्टभिर्द्रव्यैरन्यैर्वा कल्प-चोदितै: ॥पद्महोमेन भूपालांस्तत्पत्नीरुत्पलै: शुभै: ॥५६॥मन्त्रिण: कुमुदै: फुल्लैर्विप्रान पिप्पल-सम्मवै: ॥समिद्वरैर्नरपतीनुदुम्बरसभुद्भवै: ॥५७॥प्लक्षैर्वैश्यान् वटोद्भूतै: शूद्रान्मन्त्री वशं नयेत् ॥मधुना स्वर्णलाभ: स्यात् गोदुग्धेन लभेत गा: ॥५८॥आज्यहोमेन महतीं श्रियमाप्रोति मानव: ॥दघ्रा सर्वसमृद्धि: स्यादन्नैरन्नपतिर्भवेत् ॥५९॥वृष्टिकाम: प्रजुहुयात् वेतसानां समिद्वरै: ॥कुसुमभकुसुमैर्हुत्वा वासांसि लभतेऽचिरात् ॥६०॥प्रत्येकमादौ मूलेन चतुर्वारं प्रतर्पयेत् ॥*चतुश्चतु: पृथक् मन्त्री शडखपद्मनिधी तथा ॥६१॥नामा-दिबीजसहितौ तर्पयेत् स्वप्रियान्वितौ ॥तर्पणेनाऽ-मुना स्वीयमिष्टमाप्रोति मण्डलात् ॥६२॥स्मृतिस्यं मांसमैबिन्दुयुक्तं भूबीजमीरितम् ॥६३॥बीजं षट्कोणमध्ये स्फुरदनलपुरे तारगं दिक्षु लक्ष्मीं ।मायाकन्दर्पभूमीस्तदनु रसपुटेप्वालिखे-द्वीजषट्कम् ॥तत्सन्धिष्वड्रमन्त्रान् वसुदलकमले मूलमन्त्रस्य वर्णान् ।शिप्टान् पत्रेपु विद्वान् त्रिलिखतु गुणशश्चान्त्यमन्त्ये पलाशे ॥६४॥आवीतं लिपिभि: क्तमोक्त्तमवशात् पाशाड्कुशा-भ्यामपि ।क्ष्मागेहद्बितयेन वेप्टितमिदं यन्त्रं गणाधीशितु: ॥लाक्षाकुड्कुमरोचनामृगमदैर्भूर्जे वरे हेम्नि वा ।संलिख्याऽभिवहन् लभेत सकले: सम्प्रार्थनीयां श्रियम् ॥६५॥उक्तं महागणपतेर्विधानं सुरपूजितम् ॥सर्व-सिद्धिकरं पुंसां समस्तपुरुपार्थदम् ॥६६॥माया विरिपदद्वन्द्वं तनो गणपतिं वदेत् ॥खड्गीश-पावकौ पश्चाद्वरदान्ते वदेत्पुन: ॥६७॥सर्वलोकं मे पदान्ते वशमानय ठद्वयम् ॥षड्विंशत्यक्षरो मन्त्रो भजतां सुरपादप: ॥६८॥अन्त: करण-वेदेषु भूतपञ्चविलोचनै: ॥एवं विभक्तैर्मन्त्रार्णैर्माया मन्त्री विचारयेत् ॥६९॥महागणपते: प्रोक्ते स्थाने मन्त्री विचारयेत् ॥७०॥सिन्दूराभमि-भाननं त्रिनयनं हस्तेषु पाशाड्कुशौ ।बिभ्राणं मधुमत्कपालमनिशं सार्धेन्दुमौलिं भजे ॥पुष्ट्या-श्र्लिष्टतनुं ध्वजाग्रकरया पद्मोल्लसद्धस्तया ।तद्योन्याहितपाणिमात्तवसुमत्पात्रोल्लसत्पुष्करम् ॥७१॥चतुर्लक्षं जपेन्मन्त्रं तद्दशांशं हुतक्रिया ॥प्राक्प्रोक्तैरष्टभिर्द्रव्यैस्त्रिमध्वक्तै: सभीरिता ॥७२॥पूर्वोक्ते पूजयेत्पीठे तीव्रादिनवशक्तिके ॥भूलेन मूर्ति संकल्प तत्रावाह्याऽर्चयेत् विभुम् ॥७३॥मिथुनावृत्तिराद्या स्यादामोदाद्यैर्दिगम्बरै: ॥द्बिती-याऽड्रैस्तृतीया स्याच्चतुर्थी मातृभि: स्मृता ॥७४॥पञ्चमी लोकपालै: स्यात् षष्ठी वज्रादिभि: स्मृता ॥इति सिद्धमनुर्मन्त्री प्रफुल्लै: सरसीरुहै: ॥७५॥जुहुयाद्बशगा: सर्वे तण्डुलैस्तिलमिश्रितै: ॥हुत्वा श्रियमवाप्रोति मोदकैराज्यलोलितै: ॥७६॥हुत्वा विजयमाप्नोति पार्थिवो युद्धभूमिषु ॥मधुत्रयेण हवनं वशं नयति पार्थिवान् ॥७७॥भक्ष्यभो-ज्यादिकं सर्वं हुत्वाभीष्टानि साधयेत् ॥शक्ति-रुद्धं निजं बीजं महागणपतिं वदेत् ॥७८॥डेऽन्तमग्रिवधू: प्रोक्तो मन्त्रोऽयं द्बादशाक्षर: ॥गणकस्यादृषिश्छन्दो गायत्री निचृदादिका ॥७९॥उदिता देवता तन्त्रे नाम्ना शक्तिगणाधिप: ॥व्यस्तै: समस्तैर्मन्त्रस्य पदैरड्रानि कल्पयेत् ॥८०॥मुक्तागौरं मदगजमुखं चन्द्रचूडं त्रिनेत्रम् ॥हस्तै: स्वीयैर्दधतमरविन्दाड्कुशौ रत्नकुम्भम् ॥अड्क स्थाया: सरसिजरुच: स्वध्वजालाम्बिपानेर्देव्या योनौ विनिहितकरं रत्नमौलिं भजाम: ॥८१॥लक्षमेकं जपेन्मत्रमपूपैस्तद्दशांशत: ॥जुहुयादर्चिते वह्लौ दिनशो देवमर्चयेत् ॥८२॥प्राक्प्रोक्ते पूजये-त्पीठे प्रागुक्तेनैव वर्त्मना ॥हुत्वेक्षुखण्डैर्मतिमान् राज्यश्रियमवाप्नुयात् ॥८३॥नारिकेलफलैस्त-द्वद्रम्भापक्कफलैस्तत: ॥द्वद्रम्भापक्कफलैस्तत: ॥वशयत्यखिलं लोकं पृथुकै: शर्करान्वितै: ॥८४॥वशं नयति राजानं सक्तुभिर्व्राह्मणान् शुभै: ॥घृतहोमेन धनवान् जायते नात्र संशय: ॥८५॥शक्त्या रुद्धं निजं वीजं वशमानय ठद्बयम् ॥ताराधो मनुराख्यातो रुद्रसंख्याक्षरान्वित: ॥८६॥ऋष्याद्या: पूर्वमुक्ता: स्युरड्रं मन्त्रपदैर्भवेत् ॥एकेनादौ त्रिभिर्द्वाभ्यां त्रिभिर्द्बाभ्यामनन्तरम् ॥८७॥समस्तेनाऽस्त्रमा-ख्यातं अड्रक्लप्तिरियं मता ॥८८॥हस्तैर्बिभ्रत-मिक्षुदण्डवरदौ पाशाड्कुशौ पुप्करस्पृपृस्वप्रमदा -वराड्रमनयाऽऽश्र्लिप्टं ध्वजाग्रस्पृशा ॥श्यामाड्रया विधृताब्जया त्रिनयनं चन्द्रार्धचूडं जवारक्तं हस्तिमुखं स्मरामि सततं भोगातिलोलं विभुम् ॥८९॥लक्षत्रयं जपेन्मन्त्रमिक्षुखण्डैर्दशांशत: ॥अपूपैराज्ययुक्तैर्वा जुहुयान्मन्त्रसिद्धये ॥९०॥स्वगुरुं धनधान्याद्यै: प्रीणयेत् प्रीतमानस: ॥पूजा पूर्ववदादिष्टा तत: काम्यानि साधयेत् ॥९१॥हुत्वाऽपूपैस्त्रिमध्वक्तैर्वशयेद्भवि पार्थिवान् ॥चतुर्थ्यां नारिकेलेन महतीं श्रियमश्नुते ॥९२॥लवणैर्मधुसंयुक्तैर्वशयेद् वनिताजनम् ॥।संवर्तको नेत्रयुत: पार्श्वो वह्लयासनस्थित" ॥९३॥प्रसाद-नाय ह्लन्मन्त्र: स्वबीजाद्यो दशाक्षर: ॥गणको मुनिरस्य स्याद्बिराट् छन्द उदाह्लतम् ॥१४॥क्षिप्रप्रसादनो विघ्नो देवताऽस्य समीरिता ॥दीर्घयुक्तोन बीजेन षडड्रानि प्रकल्पयेत् ॥९५॥पाशाड्कुशौ कल्पलतां विषाणं दधत् खशुण्डाहि-तबीजपूर: ॥रक्तस्त्रिनेत्रस्तरुणेन्दुमौलिर्हारोज्ज्वलो हस्तिमुखोऽवताद्व: ॥९६॥लक्षं जपेज्जपस्यान्ते जुहुयादयुतं तिलै: ॥समधुत्रितयैर्द्रव्यैरथवाऽष्टा-भिरीरितै: ॥९७॥एकाक्षरोदिते पीठे वक्ष्यमाणेन वर्त्मना ॥पूजयेद्नन्धपुष्पाद्यैर्धूपदीपैर्गजाननम् ॥९८॥अड्रानि पूर्वमभ्यर्च्य विघ्नानप्टो यजेत्तत: ॥विघ्नं विनायकं वीरं शूरं वरदसंज्ञकम् ॥९९॥इभवक्त्रं चैकदन्तं लम्बोदरमनन्तरम् ॥पत्रा-ग्रेष्वर्चयेद्पश्चात् ब्राह्म्याद्यास्तदनन्तरम् ॥१००॥लोकपालांस्तदस्त्राणि विघ्नपूजा समीरिता ॥आज्यान्नैर्जुहुयाधित्यमन्नवान् वत्सराद्भवेत् ॥१०१॥पायसान्नेन महतीं श्रियमाप्रोति मानव: ॥आज्य-होमेन वशयेत्प्राणिन: सकलान्सुधी: ॥१०२॥नारिकेलफलं पक्कं लोष्टचर्मसमन्वितम् ॥जुहुया-त्प्रत्यहं मन्त्री मण्डलात् सिद्धिमाप्नुयात् ॥१०३॥जुहुयादष्टभिर्द्रव्यैर्भधुरत्रयसंयुतै: ॥वशयेत्पार्थि-वान् सर्वान् तत्पत्नीर्विधिनाऽमुना ॥१०४॥दिना-दिषु चतुश्चत्वारिंशद्वारै: शुभोदकै: ॥तर्पयेद्बिघ्न-राजस्य मस्तके श्रीप्रसिद्धये ॥१०५॥पाशाड्कुशौ कल्पलतां स्वदन्तं करैर्वहन्तं कनकाद्रिकान्तम् ॥सोपानपड्क्त्या दिननाथबिम्वादायान्तमम्मो-जगतं विचिन्त्य ॥१०६॥प्रागुक्तमन्त्रसम्प्रोक्तान् प्रयोगान्मनुनाऽमुना ॥तैरस्मिन्नथवा प्रोक्तान् कुर्यान्मत्री विधानवित् ॥१०७॥पञ्चान्तको बिन्दुयुतो वामकर्णविभूपित: ॥तारादिहदया-न्तोऽयं हेरम्बमनुरीरित: ॥१०८॥चतुर्वर्णात्मको नृणां चतुर्वर्गफलप्रद: ॥षड्दीर्घभाजा वीजेन षडड्रानि समाचरेत् ॥१०९॥मुक्ताकाञ्चननील-कुन्दघुसृणच्छायैस्त्रिनेत्रान्वितैर्नागास्यैर्हरिवाहनं शशिधरं हेरम्बमर्कप्रभम् ॥दृप्तं दानमभीतिमोद-करदान्टड्कं शिरोऽक्षात्मिकाम् ॥मालां मुद्गर-मड्कुशं त्रिरोऽक्षात्मिकाम् ॥मालां मुद्गुर-मड्कुशं त्रिशिखकं दोर्भिर्दधानं भजे ॥११०॥लक्षत्रयं जपेन्मन्त्रं दशांशं जुह्लयात्तिलै: ॥तीव्रा-दिपूजिते पीठे देवं हेरम्वमर्चयेत् ॥१११॥प्रणव: कवचद्वन्द्वं महासिंहाय गां तत: ॥हेरम्बेति पदं पश्चादासनाय हदन्वित: ॥११२॥अयमासन-मन्त्र: स्यात्प्रदद्यादमुनाऽऽसनम् ॥तारादिविघ्न-बीजेन मूर्ति तस्य प्रकल्पयेत् ॥११३॥आवाह्य पूजयेत्तस्यामड्रावरणसंयुतम् ॥वाह्ये लोकेश्वरा: पूज्या व ज्रादीनि तत: परम् ॥११४॥एवमभ्य-र्चयेन्नित्यं साधयेत्स्वमनी पितान् ॥मोदकर्जुहुया-च्छष्ठयामपृम्यां कृशरैस्तथा ॥११५॥चतुर्दशी-दिनेऽपूपैर्जुहुयाद्बाञ्छिताप्तये ॥ एभिर्द्रव्यै: प्रजुहु-यान्मन्त्री पर्वदिनेष्वपि ॥११६॥साधयेत्सकलान् कामान् प्रयत्नेनैव साधक: ॥११७॥अममोजं प्रथमं लिखेद्बसुदलं मध्ये खवीजान्तरे ॥साध्याख्यां बहिरड्रमन्त्रविलसत्किञ्जल्कसंशोभितम् ॥पत्राणा-मुदरे विभज्य मुनिशो मालामनुं शेषितान् ॥षड्वर्णाश्चरमे दले परिवृतं शक्त्या शकारेण च ॥११८॥रोचनामदकाश्मीरैर्भूर्जपत्रे विलिख्य तत् ॥वेप्टितं श्वेतसूत्रेण लोहैस्त्रिभिरपि क्तमात् ॥११९॥धारयेद्वाहुना यन्त्रं सर्वान्कामानवाप्नु-यात् ।शक्त्यड्कशं ध्रुवान्ते स्यात्खबीजं ह्लहयं तत: ॥१२०॥सर्वविघ्नाधिपायाऽन्ते डेऽन्तं सर्वार्थ-सिद्धिदम् ॥प्रवदेत्सर्वदु:खप्रशमनायपदं तत: ॥१२१॥एह्येहि भगवन्सर्वा आपद: स्तम्भयद्व-यम् ॥भुवनेशीं स्वबीजं गां नति: पावकवल्लभा ॥१२२॥पुनरड्कुशमायान्तं पञ्चपञ्चाशदक्षर: ॥माला मन्त्रोऽयममुना प्रयोगान्साधयेत्सुधी: ॥१२३॥तारं खड्गीश्वर: कूर्मो नि:स्वरो णान्त-ईरित: ॥भुवे नति: सप्तवर्ण: कूर्मो नि:स्वरो णान्त-ईरित: ॥भुवे नति: सप्तवर्ण: सुब्रह्मण्यात्मको मनु: ॥१२४॥वह्लिबीजेन पड्दीर्घयुक्तेनाड्रक्रिया मता ॥१२५॥सिन्दूरारुणकान्तिमिन्दुवदनं केयूर-हारादिभिर्दिव्यैराभरणैर्विभूपिततनुं स्वर्गस्य सौख्यप्रदम् ॥अम्मोजाभयशक्तिकुक्कुटधरं रक्ताड्ररागांशुकम् ॥सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥१२६॥लक्षमेकं जपेन्मन्त्रं साज्येन हविषा तत: ॥दशांशं जुहुयादन्ते ब्राह्मणानपि भोजयेत् ॥१२७॥धर्मादिकल्पिते पीठे बह्लिमण्डलपश्चिमे ॥पूजयेद्बिधिना देवमुप-चारैर्यथोद्यतै: ॥१२८॥केसरेप्वड्रपूजा स्यात्पत्र-मध्यगतानिमान् ॥जयन्ताख्यमग्निवेश्यं कृत्तिका-पुत्रसंज्ञकम् ॥१२९॥अनन्तरं भूतपतिं सेनान्यं गुहसंज्ञकम् ॥हेमशूलं विशालाक्षं शक्तिशूल-करान्यजेत् ॥१३०॥दिग्दलाग्रेषु पूर्वादि देव-सेनापतिं पुन: ॥विद्यां मेधां ततो वज्रं कोण-स्थान् शंक्तिकुक्कुटौ ॥१३१॥मयूरं द्वीपमभ्य-र्चेद्वाह्ये लोकेश्वरान् पुन: ॥अस्त्राणि तेषामन्ते स्यु: सुव्रह्मण्यार्चनेरिता ॥१३२॥स्वादुभिर्भ-क्ष्यभोज्याद्यै: षप्ठयां संप्रीणयेद्बिभुम् ॥पूजयेद्दे-वताबुद्धया कुमारान् ब्रह्मचारिण: ॥१३३॥सन्तानं विजयं वीर्यं रक्षामायु: श्रियं यश: ॥प्रदद्यात्सा-धकस्याशु सुब्रह्मण्य: सुरार्चित: ॥१३४॥जप-तर्पणपूजादौ विघ्नेशं सर्वसिद्धिदम् ॥प्रीणयेद-नया स्तुत्या प्राप्तये सर्वसम्पदाम् ॥१३५॥ॐकारमाद्यं प्रवदन्ति सन्तो वाच: श्रुतीनामपि यं गृणन्ति ॥गजाननं देवगणानताड् घ्रिं भजेऽहम-र्धेन्दुकृतावतंसम् ॥१३६॥पादारविन्दार्चनतत्प-राणां संसारदावानलभड्रदक्षम् ॥निरन्तरं निर्ग-तदानतोयैस्तं नौमि विघ्नेश्वरमभ्बुदाभम् ॥१३७॥कृताड्ररागं नवकुड्कुमेन मत्तालिमालां मदपड्कल-ग्नाम् ॥निवारयन्तं निजकर्णतालै: को विस्मरे-त्पुत्रमनड्ररात्रो: ॥१३८॥शम्भोर्जटाजूटनिवा-सिगड्राजलं समादाय कराम्बुजेन ॥लीलभिरा-राच्छिवमर्चयन्तं गजाननं भक्तियुता भजन्ति ॥१३९॥कुमारभुक्तौ पुनरात्महेतो: पयोधरौ पर्वतराजपुत्र्या: ॥प्रक्षालयन्तं करशीकरेण मौग्ध्येन तं नागमुखं भजामि ॥१४०॥त्वया समुद्धृत्य गजास्य हस्तं ये शीकरा: पुष्कररन्ध्र-मुक्ता: ॥व्योमाड्रणे ते विचरन्ति तारा: काला-त्मना मौक्तिकतुल्यभास: ॥१४१॥क्रीडारते वारिनिधौ गजास्ये वेलामतिक्रामति वारिपूरे ॥कल्पावसान्म प्रविचिन्त्य देवा: कैलासनाथ्म स्तुति-भि: स्तुवन्ति ॥१४२॥नागानने नागकृतोत्तरीये क्रीडारते देवकुभारसड्घै: ॥त्वयि क्षणं कालगतिं विहाय तौ प्रापतु; कन्दुकतामिनेन्दू ॥१४३॥मदोल्लसत्पञ्चमुखैरजस्रमध्यापयन्तं सकलागमा-र्थान् ॥देवानृषीन्भक्तजनैकमित्रं हेरम्बर्कारुण-माश्रयामि ॥१४४॥पादाम्बुजाभ्यामतिवाम-नाभ्यां कृतार्थयन्तं कृपया धरित्रीम् ॥अकारणं कारणमाप्तवाचां तं नागवक्त्रं न जहाति चेत: ॥१४५॥येनार्पितं सत्यवतीसुताय पुराणमा-लिख विषाणकोट्या ॥तं चन्द्रमौलेस्तनयं तपो-भिरवाप्यमानन्दघनं भजामि ॥१४६॥पदं स्तुतीनामपदं श्रुतीनां लीलावतारं परमात्ममूर्ते: ॥नागात्मको बा पुरुषात्मको वेत्यभेद्यमाद्यं भज विघ्नराजम् ॥१४७॥पाशाडुशौ भग्ररदं त्वभीष्टं करैर्दधानं कररन्ध्रमुक्तै: ॥मुक्ताफलाभै: पृथुसी-करौघै: सिञ्चन्तमड्रं शिवयोर्भजामि ॥१४८॥अनेकमेकं गजमेकदन्तं चैतन्यरूपं जगदादिबी-जम् ।ब्रह्मेति यो ब्रह्मविदो वदन्ति तं शम्भुसूनुं शरणं भजामि ॥१४९॥स्वाड्कस्थिताया निज-वल्लभाया मुखाम्बुजालोकनललोलनेत्रम् ॥स्मेरा-ननाब्जं मदवैभवेन रुद्धं भजे विश्वविमोहनं तम् ॥१५०॥ये पूर्वमाराध्य गजानन त्वां शास्त्राणि सर्वाणि पठन्ति तेषाम् ॥त्वत्तो न चाऽन्यत्प्रति-पाद्यमेतैस्तदस्ति चेत्सर्वमसत्यकल्पम् ॥१५१॥हिरण्यगर्भं जगदीशितारं कविं पुराणं रविमण्डल-स्थम् ॥गजाननं यं प्रविशन्ति सन्तस्तत्कालयोगै-स्तमहं प्रपद्ये ॥१५२॥वेदान्तगीत्म पुरुषं भजेऽह-मात्मानम नन्दघनं ह्लदिस्थम् ॥गजाननं यन्मह-सा जनानां विघ्नान्धकारो विलयं प्रयाति ॥१५३॥शम्भो: समालोक्य जटाकलापे शसाड्कखण्डं निज-पुप्करेण ॥स्वभग्रदन्तं प्रविचिन्त्य मौग्ध्यादाकृष्टु-काम: श्रियमातनोतु ॥१५४॥विघ्नार्गलानां विनिपातनार्थं यं नारिकेलै: कदलीफलाद्यै: ॥प्रतारयन्तो मदवारणास्यं प्रापुर्नरोऽभीष्टमहं भजे तम् ॥१५५॥यज्ञैरनेकैर्बहुभिस्तपोभिराराध्यमाद्यं गजराजवक्त्रम् ॥स्तुत्याऽनया ये विधिना स्तुवन्ति ते सर्वलक्ष्मीनिधयो भवन्ति ॥१५६॥इति शारदातिलकान्तर्गत: गणेशपटल: ॥ N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP