संस्कृत सूची|पूजा विधीः|विधिविधानः| अथर्वशीर्षन्यासा: विधिविधानः शारदातिलकान्तर्गत: गणेशपटल : मन्त्रमहोदधौ गणेशतरड्ग: ब्रह्मणस्पतिसूक्तहवनविधि: अथर्वशीर्षगणहवनविधानम् गणहोमविधिकारिका नारिकेलखण्डहवनकल्प: बौधायनोक्त: विनायककल्प: अथर्वशीर्षन्यासा: गणेशाथर्वशीर्षपुरश्चरणविधि: महागणपतिमंत्रविधानम् गृत्समदीया बाह्यपूजा दादशावरणपूजा गणेशकल्पोक्तपूजाविधानम् पार्थिव गणपतिपूजा अथर्वशीर्षन्यासा: गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात. Tags : ganeshagodprayervidhiगणपतीगणेशदेवतादेवीविधी अथर्वशीर्षन्यासा: Translation - भाषांतर अस्य श्रीअथर्वशीर्षमंत्रस्य । गणक ऋषि: । निचृद्रायत्री छंद: । गणपतिर्देवता । गं बीजम् । अं शक्ति: । मं कीलकम् । मम मनोवांच्छितकामनासि द्धयर्थं अथर्वशीर्षजपे विनियोग: ।गणकऋषये नम: शिरसि । निचृद्नायत्रीछंदसे नम: मुखे । गणेशदेवतायै नम: ह्रदये । मं कीलकाय नम: गुह्ये । गं बीजाय नम: नाभौ । अं शक्तये नम: पादयो: ।अथ अंगुलिन्यास: । ॐ गां अंगुष्ठाभ्यां नम: । ॐ गीं तर्जनीभ्यां नम: ।ॐ गूं मध्यमाभ्यां नम: । ॐ गैं अनामिकाभ्यां नम: । ॐ गौं कनिष्ठिकाभ्यां नम: । ॐ ग: करतलकरपृष्ठाभ्यां नम: ।ॐ गां ह्रदयाय नम: । ॐ गीं शिरसे स्वाहा । ॐ गूं शिखायै वषट् । ॐ गैं कवचाय हुम् । ॐ गौं नेत्रत्रयाय वौषट् । ॐ ग: प्रचोदयात् अस्त्राय फट । इति ह्रदयादिन्यास: ।अथ ध्यानम् । रक्तांभोधिस्थपोतोल्लसदरुणसरोजाधिरूढं त्रिनेत्रम् । पांश चैवांकु शं वै रदनमभयदं बाहुभिर्धारयन्तम् ॥शक्त्या युक्तं गजास्यं पृथुतरजठरं नागयज्ञोपवीतम् । देवं चन्द्रार्धचूडं सकलभयहरं विघ्नराजं नमामि ॥१॥एवं ध्यात्वा मानसोपचारै: संपूज्य । ॐ नमो हेरम्बाय नम: । पृथिव्यात्मकं गंधं परिकल्पयामि । ॐ उमासुताय नम: । हं आकाशात्मकं पुष्पं परिकल्पयामि । ॐ अघनाशनाय नम: । यं वाय्वात्मकं धूपं परिकल्पयामि । ॐ लंबोदराय नम: । रं तेजात्मकं दीपं परिकल्पयामि । ॐ शिवसूनवे नम: । वं अमृतात्मकं नैवेद्यं परिकल्पयामि । ॐ श्रीचिंतामणिमयूरेश्वराय नम: ।सर्वात्मकान् तांबूलादिछत्रचामरान् तान् पंचपंचांगुलैमुद्रया परिकल्पयामि ।शं नो मित्र: । शं वरुण: । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पति: । शं नो विष्णुरुरुक्रम: ॥ नमो ब्रह्मणे नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । ॐ शांति: शाति शांति: ॥ N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP