संस्कृत सूची|पूजा विधीः|विधिविधानः| अथर्वशीर्षगणहवनविधानम् विधिविधानः शारदातिलकान्तर्गत: गणेशपटल : मन्त्रमहोदधौ गणेशतरड्ग: ब्रह्मणस्पतिसूक्तहवनविधि: अथर्वशीर्षगणहवनविधानम् गणहोमविधिकारिका नारिकेलखण्डहवनकल्प: बौधायनोक्त: विनायककल्प: अथर्वशीर्षन्यासा: गणेशाथर्वशीर्षपुरश्चरणविधि: महागणपतिमंत्रविधानम् गृत्समदीया बाह्यपूजा दादशावरणपूजा गणेशकल्पोक्तपूजाविधानम् पार्थिव गणपतिपूजा अथर्वशीर्षगणहवनविधानम् गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात. Tags : ganeshagodprayervidhiगणपतीगणेशदेवतादेवीविधी अथर्वशीर्षगणहवनविधानम् Translation - भाषांतर आचम्य प्राणानायम्य देशकालौ स्मृत्वा मनेप्सितकामनासिद्धयर्थं सदभीष्टफलसंसिद्धयर्थं ऋद्धिबुद्धिसहितश्रीसिद्धिविनयकप्रीत्यर्थं श्रीगणेशाथर्वशीर्षमंत्री: अमुकावृत्या अमुकद्रव्येण आचार्यादिद्वारा देशकालाद्यनुसारत: गणहवनाख्यं कर्म करिष्ये ।आदौ महागणपतिपूजनं स्वस्तिवाचनं आचार्यादिवरणं करिष्ये । तानि सम्पाद्य वृताचार्य: गृहस्य ईशानभागे मण्डपं निर्माय । तत्र अष्टदलपद्मे धान्यस्योपरि विधिवत्कलशं संस्थाप्य तत्र वरुणं पूजयेत् । तस्योपरि पूर्णपात्रे चंदनेन षट्कोणचक्रं लिखित्वा तस्योपरि स्वर्णनिर्मितां चतुर्भुजां परशुपाशाङ्कुसमोदकसहितां गणेशप्रतिमां अग्न्युत्तारण-प्राणप्रतिष्ठापूर्वकं “गं गणपतये नम:” इति मंत्नेण व्याहत्या स्थापयित्वा षणमुद्रां दर्शयित्वा पीठदेवता: स्थापयेत् प्रणवव्याह्रति: सर्वत्र ।पूर्वद्वारे द्वारश्रियै नम: । रत्यै नम: । मदनाय नम: । दक्षिणद्वारे द्वारश्रियै नम: । गौर्यै नम: गौरिपतये नम: । पश्चिमद्वारे द्वारश्रियै नम: उमायै नम: । उमापतये नम: । उत्तरद्वारे द्वार श्रियै नम: । मत्यै नम: वाराह्यै नम: ।अथ पीठदेवता: । ॐ गं गणपतये नम: ॐ सं सरस्वत्यै नम: । श्रीं महालक्ष्म्यै नम: बास्तुपुरुषाय नम: ।मण्डुकाय नम: । कालग्निरुद्राय नम: । कूर्माय नम: । वराहाय नम: । अनन्ताय नम: । पृथिव्यै नम: । इक्षुसागराय नम: । स्वर्णद्वीपाय नम: । रत्नमण्डपाय नम: । कल्पवृक्षाय नम: । मणिवेदिकायै नक । गं गणपतये नम: । दुं दुर्गायै नम: । गुंगुरुभ्यो नम: । अं आधारशक्त्यै नम: । अनन्ताय नम: । धर्माय नम: । ज्ञानाय नम: । वैराग्याय नम: । अनैश्वर्याय नम: । (मध्ये) अनंताय नम: । कंदाय नम: । नालाय नम: । पद्माय नम । पत्रेभ्यो नम: । केसरेभ्यो नम: ।कर्णिकायै नम: । सूर्यमण्डलाय नम: । चन्द्रमंडलाय नम: । वह्निमंडलाय नम: । सं सत्वाय नम: । रं रजसे नम: । तं तमसे नम: । अं आत्मने नम: । पं परमात्मने नम: । ज्ञानात्मने नम: । मायातत्त्वाय नम: । विघाततत्त्वाय नम: । शिवतत्त्वाय नम: । इन्द्राय नम: । अग्नये नम: । यमाय नम: । निऋतये नम: । वरुणाय नम: । वायवे नम: । सोमाय नंम: । ईशानाय नम: । तीव्रायै नम: । ज्वालिन्यै नम: । नंदायै नम: । भोगदायै नम: । कामरूपिण्यै नम: । उग्रायै नम: । तेजोवत्यै नम: । सत्यायै नम: । प्राकाम्यै नम: । (मध्ये) ऋद्धिबुद्धिसहितश्रीमहागणपतये नम: । स्थापयामि पूजयामि । प्राच्यादिषु अष्टौ लोकपालान् आवाह्य ।गणानां त्वेति मंत्रेण मूलमंत्रेण च षोडशोपचारै: संपूजज्य । वारुणसूक्तै: गणपतिसूक्तेन (१००८) अष्टोत्तरसहस्रसंख्यात्मकमूलमंत्रेण कलशाभिमन्त्रणं कृत्वा “देवदानव” इति प्रार्थ्य । पश्चिमत: स्थण्डिले विधिवत् बलवर्धननामाग्निं प्रतिष्ठाप्य अन्वाधानं कुर्यात् ।अत्र प्रधानम्-प्रधानदेवतां गणर्ति मूलमंत्रेण (१०८) अष्टोत्तरशतसंख्या आज्येन गणेशाथर्वशीर्षमंत्रै: (अमुक) आवृत्या अष्टद्रव्येण वा मोदकेन वा लाजादूर्वाङ्कुरैर्वा आज्यसमिद्भिर्वा यक्ष्ये ।‘ॐ गं गणपतये नम: स्वाहा’ इति मंत्रेण अष्टौत्तरशतमाज्येन (१०८) हुत्वा गणपतये इदं न ममेति त्याग: । तत: अथर्वशीर्षमंत्रै: (१) ॐ नमस्ते गणपतये स्वाहा । गणपतय इदं न मम । इति सर्वत्र । (२) ॐ त्वमेव प्रत्यक्षं तत्वमसि ।(३) ॐ त्वमेव केवलं कर्तासि ।(४) ॐ त्वमेव केवलं धर्तासि ।(५) ॐ त्वमेव केवलं हर्तासि ।(६) ॐ त्वमेव सर्वं खल्विदं ब्रह्मासि ।(७) ॐ त्वं साक्षादात्मासि नित्यम् ।(८) ॐ ऋतं वच्मि ।(९) ॐ सत्यं वच्मि ।(१०) ॐ अव त्वं माम् ।(११) ॐ अव वक्तारम् ।(१२) ॐ अव श्रोतारम् ।(१३) ॐ अव दातारम् ।(१४) ॐ अव धातारम् ।(१५) ॐ अवानूचानमवशिष्यम् ।(१६) ॐ अव पश्चात्तात् ।(१७) ॐ अव पुरस्तात् (१८) ॐ अवोत्तरात्तात् ।(१९) ॐ अव दक्षिणात्तात् ।(२०) ॐ अवचोर्ध्वात्तात् ।(२१) ॐ अवाधरात्तात् ।(२२) ॐ सर्वतो मां पाहि पाहि समंतात ।(२३) ॐ त्वं वाङ्गयस्त्वं चिन्मय: ।(२४) ॐ त्वमानंदमयस्त्वं ब्रह्ममय: ।(२५) ॐ त्वं सच्चिदानंदाद्वितीयोऽसि ।(२६) ॐ त्वं प्रत्यक्षं ब्रह्मासि ।(२७) ॐ त्व ज्ञानमयो विज्ञानमयोऽसि ।(२८) ॐ सर्वं जगदिदं त्वत्तो जायत्ते ।(२९) ॐ सर्वं जगदिदं त्वत्तस्तिष्ठति ।(३०) ॐ सर्वं जगदिंद लयमेष्यति ।(३१) ॐ सर्वं जगदिदं त्वयि प्रत्येति ।(३२) ॐ त्वं भूमिरापोऽनलोऽनिलो नम: ।(३३) ॐ त्वं चत्वारि वाक्पदानि ।(३४) ॐ त्वं गुणत्रयातीत: ।(३५) ॐ त्वं देहत्रयातीत:। (३६) ॐ त्वं कालत्रयातीत: ।(३७) ॐ त्वं मूलाधारस्थितोऽसि नित्यम् ।(३८) ॐ त्वं शक्तित्रयात्मक: ।(३९) ॐ त्वां योगिनो ध्यायन्ति नित्यम् ।(४०) ॐ त्वं ब्रह्मा त्वं विष्णु:। (४१) ॐ त्वं रुद्रस्त्वमिन्द्र: ।(४२) ॐ त्वमग्निस्त्वं वायु: ।(४३) ॐ त्वं सूर्यस्त्वं चंद्रमा: ।(४४) ॐ त्व ब्रह्मभूर्भुव: स्वरोम् ।(४५) ॐ गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् ।(४६) अनुस्वार: परतर: अर्धेन्दुलसितम् ।(४७) ॐ तोरण ऋद्वम् ।(४८) ॐ एतत्तवमनुस्वरूपम् ।(४९) ॐ गकार: पूर्वरूपम् ।(५०) ॐ अकारो मध्यमरूपम् ।(५१) ॐ अनुस्वारश्चान्त्यरूपम् ।(५२) ॐ बिन्दुरुत्तररूपम् ।(५३) ॐ नाद: संधानम् ।(५४) ॐ सँ हिता संधि: सैषा गणेशविद्या ।(५५) ॐ गणक ऋषि: निचृद्नायत्रीछन्द: गणपतिर्देवता ॐ गं गणपतये नम: ।(५६) ॐ एकदंताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् ।(५७) ॐ एकदन्तं चतुर्हस्तं पाशमङकुशधारिणम् । रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ।(५८) ॐ रक्तं लंबोदरं शूर्पकर्णंक रक्तवाससम् । रक्तगंधानुलिप्ताङ्गं रक्तपुष्पै: सुपूजितम् ।(५९) ॐ भक्तानुकंपिनं देवं जगत्कारणमच्युतम् । ॐ आविर्भूतं च सुष्टयादौ प्रकृते: पुरुषात्परम् ।(६०) ॐ एवं घ्यायति यो नित्यं स योगी योगिनां वर: ।(६१) ॐ नमो व्रातपतये ।(६२) ॐ नमो गणपतये ।(६३) ॐ नम: प्रमथपतये ।(६४) ॐ नमस्ते अस्तु ।(६५) ॐ लंबोदराय ।(६६) ॐ एकदंताय ।(६७) ॐ विघ्ननाशिने ।(६८) ॐ शिवसुताय । (६९) ॐ (श्री) वरदमूर्तये नम: ।ततश्च एतदथर्वशीर्षं. य एवं वेद । इति पठित्वा ।तत: पीठदेवताभ्य: इन्द्रादिभ्यश्च एकैकामाज्याहुर्ति दत्वा स्विष्टकृदादिप्रायश्चित्तहोमान्ते पूर्णाहुर्ति दद्यात् । बर्हिषि पूर्णापात्रनिनयनादिहोमशेपं संपाद्य उत्तरपूजां, महापूजां, महानैवैद्यं, अष्टद्रव्यनैवेद्यं, हस्तमोदकसमर्पण, मंत्रपुष्पाञ्जलिं समर्प्य एतत्कर्म ईश्वरार्पणं कुर्यात् ।गणहोमसांगतासिद्धयर्थं आचार्याय दशमोदकवायनदानं दद्यात् । तत्र मंत्र :--- दशानां मोदकांना च फलदक्षिणया युतम् । तुभ्यं दास्यामि विप्रेन्द्र यथोक्तफलदो भव ॥ इति दत्वा आचार्याय कलशपीठप्रतिमादानं दक्षिणां च च दत्वा कर्मसांगतासिद्धयर्थं गोप्रदानं दद्यात् । अष्टौ बाह्मणान् षट्सुवासिनीकुमारिका: भोजयित्वा तेभ्य: दक्षिणां दत्त्वा, आशिष, गृहीत्वा सुह्रद्युक्त: स्वयं भुंजीयात् ।इति गणेशाथर्वशीर्षहवनविधि: ॥ N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP